सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1874, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1874

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१३
घटवत् कृप्ताशेषसाधनसाध्यत्वादशेषतन्निरूपिकैव श्रुतिर्निरूपयेत् । अन्या
तूपासनाया नामोक्त्वोपासीतेत्येतावदेव वदेत् । गुणानाक्षेपलभ्यत्वाज्न वदेत् ।
उपसंहार्यानपि वा वदेत् । निरूपयति च गुणानोपसंहार्यान् । नच स्वस्व-
शाखामात्राध्येतॄणामुपासनासिद्ध्यर्थं सर्वशाखासूपासनप्रकारोक्तिरिति वाच्यम् ।
परशाखाऽज्ञानेन तदुक्तगुणोपसंहारस्याप्यसम्भवेनोपासनाया एवासम्भवा-
पातात् । तस्मात् स्वस्वशाखोक्तप्रकारिकोपासनायामेव सर्वेषामधिकारा-
त्तयैव ब्रह्मविज्ञानं भवति । तैत्तिरीयाणां वाजसनेयिप्रभृतीनां चाग्निष्टोमस-
म्पत्त्या स्वर्ग इव । प्रकृते ब्रह्मैक्यात्तत्तद्विज्ञानं ब्रह्मविज्ञानमेव । न हि रूपरसग-
भाष्यप्रकाशः ।
सर्वगुणोपसंहारेणैकजातीयत्वात् घटवत्कृप्ताशेषसाधनसाध्यत्वात् यथा हि घटः कारणसमुदायेनैव
जन्यते, न त्वेकेन, तद्वत् तव मते उपासनाया अप्यशेषगुणानुसन्धानरूपसाधनसाध्यत्वादशेषगुण-
निरूपिकैव श्रुतिस्तामुपासनां निरूपयेत्, अन्या तूक्तरीत्या वदेत्, गुणाँस्तु न वदेदेव । उपसंहा-
र्यांनपि वा वदेत् । तैर्विना उपासनाया असिद्धेः । निरूपयति च कतिपयानेव, न त्वशेषान् ।
तथाचोपासनाश्रुतौ कतिपयगुणकथनमन्यथानुपपद्यमानं सत् रूपान्तरे रूपान्तरीयगुणोपसंहारो
दोषायेति कल्पयति, अतः श्रुतितात्पर्यविरोध एव दोष इत्यर्थः । तत्कथनस्य तात्पर्यान्तरमाशङ्क्य
निषेधन्ति नचेत्यादि । तथाचोपासनाया नाममात्रोक्तौ प्रकाराज्ञानात् तत्तच्छाखिनामुपासनाया
असिद्धेस्तदुपकाराय तथोक्तिरिति तु न वक्तुं शक्यमित्यर्थः । तत्र हेतुः परेत्यादि । तथाचैवं
तात्पर्यकल्पनेपि तावन्मात्रकथनानर्थक्यस्य त्वन्मते तादवस्थ्यमपरिहार्यमेवेत्यर्थः । तर्हि किं
तथा कथनस्य तात्पर्यमित्याकाङ्क्षायां मन्दाधिकारिणां तावतैव फलसिद्ध्यर्थं तथा वदतीत्याशयं
हृदिकृत्य तेन विवक्षितं साधयन्ति तस्मादित्यादि । तस्मादिति । त्वदुक्तस्य तथाकथनाश्रय-
स्यानुपपन्नत्वात् । ब्रह्मविज्ञानं भवतीति । तावद्धर्मविशिष्टस्य साक्षात्कारी भवति । तत्र
दृष्टान्तः तैत्तिरीयेत्यादि । तथाच ब्रह्मणि सर्वतः सर्वधर्मसत्त्वेपि कतिपयगुणोक्तिबलेन तत्र
तत्रोक्तैरेव गुणैरुपासनायाश्चरितार्थ्यनिश्चयान्न रूपान्तरे रूपान्तरधर्मोपसंहारो युक्त इत्यर्थः । ननु
तादृशस्य स्वल्पधर्मवत्त्वाज्ज्ञानस्य कथं ब्रह्मज्ञानत्वमित्यत आहुः प्रकृते इत्यादि । तथाच 'अविज्ञातं
विजानता' मिति श्रुतेर्ज्ञानकृतपरिच्छेदो ब्रह्मणि नास्तीति यस्य भूयो धर्मवत्त्वेन ज्ञानम्, तस्यापि न
रश्मिः ।
उपासनरूपस्य ब्रह्मज्ञानस्य । उक्तरीत्येति । उपसंहारेणेत्यादिभाष्योक्तरीत्योद्देशेनेनोपासना वदेदि-
त्यर्थः । उपसमितिभाष्यं विवृण्वन्ति स्म उपसमिति । तदुक्तेति । स्वशाखोक्तगुणोपसंहारस्य ।
एवं तात्पर्यति । तत्तदुपकाराय तयोक्तिरित्येवं तात्पर्यकल्पने । उपसंहारेण सिद्धौ तावन्मात्रकथना-
नर्थक्यस्येत्यर्थः । मन्देत्यादि । मीमांसाया मन्दमध्यमार्यत्वसारम्भे उक्तत्वादिति भावः । तत्र
मध्यमस्य बुद्धिदोषात्सन्देहसम्भवेप्येतावता ग्रन्थेन बुद्धिदोषनिवृत्तिसम्भवान्नोक्तिः । त्वदुक्तस्येति ।
तत उपकाराय तयोक्तिरित्येवमुक्तस्य । मन्देऽभावादनुपपन्नत्वात् । भवतीति । मनसा भवति ।
'यद्यद्धिये'ति वाक्यात् । शुद्धे चित्ते च भवति, 'स मानसीन आत्मा जनाना'मिति श्रुतेः । ज्ञान-
कृतेति । यथा घटादिकृत आकाशपरिच्छेदः, तथा तत्तदुपसंहृतधर्मवत्त्वेन सकलधर्मवत्त्वेन प्रसि-
द्धस्य ब्रह्मणः परिच्छेदः तन्मात्रज्ञानविषयत्वं न । 'उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पने'ति राम-
तापिनोयश्रुतेः कल्पितत्वात्तेषाम् । इमानि रूपाणि परिणतघटादिरूपव्यतिरिक्तानि । भूयविति । स्वल्प-
१. आक्षेपलभ्यानिति पाठः ।
1749