सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 183, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 183

किंच व्यर्थश्चैवं विचारः । लक्षणप्रमाणाभ्यां हि वस्तुज्ञानं भवति । तच्च
स्वरूपलक्षणेनैव भवतीति किमनेन । तस्मादयुक्तमुत्पश्याम इति ।
उच्यते ।
संदेहवारकं शास्त्रं वेदप्रामाण्यवादिनम् ।
क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते ॥
न हि श्रुतिं व्याख्यातुं प्रवृत्तः सूत्रकारः किंतु संदेहं वारयितुम् । तत्र,
'सत्यं ज्ञानमनन्तम्', 'नित्यशुद्धमुक्तस्वभावम्' इतिश्रुत्या कर्तृत्वादिप्रापञ्चिकधर्म-
राहित्यं प्रतीयते । 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्
प्रयन्त्यभिसंविशन्ति' इति कर्तृत्वं च ।
भाष्यप्रकाशः ।
मूलशास्त्रेणोदित इत्येतावता कृत्स्नस्य वेदस्यैव ब्रह्मणि प्रमाणत्वं न वक्तुं शक्यते । कल्पनोप-
देशस्यापि तत्र शक्यवचनत्वादलुमानस्यापि तत्र प्रमाणत्वापत्तेरित्यर्थः । अत्र ब्रह्मप्रमाणत्वमिति पाठः
प्रतिभाति । अथ वेदोक्त एवाग्रहस्तदा दूषणान्तरमाह किंचेत्यादि । अयुक्तमिति सूत्रोक्तं लक्षण-
मयुक्तमित्यर्थः । शेषमतिरोहितार्थम् ।
अत्र समाधातुं गृह्णते उच्यत इत्यादि । प्रकारान्तरेणात्र संशय उच्यते । वेदप्रामाण्यवा-
दिनाम् । 'सर्वे वेदा यत् पदमामनन्ति' इति श्रुत्यनुसारेण ब्रह्मण्येव सर्वस्य वेदस्य प्रामाण्यम-
न्यत्र प्रमाणाभासत्वमितिवादिनां वेदे यः संदेहस्तद्वारकमिदं वैयासं शास्त्रम् । तत्र कः संदेह
इत्यपेक्षायां, परस्थिते 'ब्रह्मविदाप्नोति परम्' इत्यत्रामोतिकर्मभूतो यः पर उक्तस्तत्स्थिते क्रिया-
शक्तिज्ञानशक्ती स्वरूपलक्षणविरुद्धत्वाद् ब्रह्मणि संदिह्येते, स्तो न स्तो वेत्येष संदेह इत्यर्थः ।
गृहीतं विभजन्ते न हीत्यादि । यदुक्तं स्वरूपलक्षणकथन इत्यादि, तदसंगतम् । यदि सूत्र-
कारः श्रुतिं व्याख्यातुं प्रवृत्तः स्याद् यथाक्रमं प्रतिपदं च व्याख्यात् । न तु तथा । किंतु संदेहं
वारयितुम् । ततश्च यत् संदिग्धं तद्विवृणोति, व्याख्येयसमानार्थकैरन्यैश्च पदैर्विपक्षसपक्षबाधक-
रश्मिः ।
विचारः । कल्पनेति यथा 'वाचो धेनुमुपासीत' इत्यत्र वाचो धेनुत्वकल्पने कल्पनोपदेशः ।
तत्रेति कृत्स्ने वेदे । प्रतिभातीति । एतेन ब्रह्मणि, प्रमाणं भावे ल्युट्, प्रमा येनेति व्यधिकरण-
पदो बहुव्रीहिः कप् साधक इत्यसूचि । 'यतो वाचो निवर्तन्ते' इति श्रुतेरज्ञाते कं साधयित्वा
ब्रह्मणीदमित्थमंशांशे ज्ञानप्रमाणकत्वं वार्थः । यद्वा केनोपनिषदि 'यद्वाचानभ्युदितं येन वागभ्यु-
द्यते' इति श्रावणाद्ब्रह्म प्रमाणं यस्येत्येव बहुव्रीहिः । वेदोक्तेति वेदोक्तावेदोक्तयोर्वेदो-
क्तलक्षण इत्यर्थः । एवकारेण व्याख्यानव्यवच्छेदः । प्रकारान्तरेणेति प्रकारस्तु वेदोक्तस्वरूप-
लक्षणं व्याख्यानोक्तमसर्वाङ्गीकृतकर्तृत्वलक्षणं वा भवेति । तत्स्थित इति अधोक्षजे परे
स्थिते । अधोक्षजत्वान्न विचारस्तस्य । अत एव शेषषष्ठी । आर्थिकार्थमाहुः ततश्च यदित्यादि ।
विवृणोतीति विवृण्वन्ति । व्याख्येयेत्यादि । यद्यप्याचार्याः यत इत्यादौ आचार्य इवाचरणं
करोति इति व्याख्येयसमानार्थकैकैः पदैरेव विवरणं दृश्यते, तथापि प्रकृतोपयोगि विवरणमिदं
ज्ञेयम् । यथात्रैव सूत्रे समपदानि अन्यानि च । एवं सर्वत्राध्याये । द्वितीयाध्याये विपक्षो निश्चि-
तस्साध्याभाववान् यथा सांख्यानामसंगपुरुषः भूतकर्तृत्वरूपनिश्चितसाध्याभाववान् । तस्य बाधक-
96