अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 182, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete Sanskrit transcription of the text from the image, line by line:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५
ननु कथमत्र संदेहो यावता, सत्यं ज्ञानमनन्तं ब्रह्मेत्याह श्रुतिरेव ।
विरुद्धं चैतत् । स्वरूपलक्षणाकथने कार्यलक्षणस्य वक्तुमशक्यत्वात् ।
विवादाध्यासितत्वाच्च । न हि ब्रह्मणो जगत्कर्तृत्वं सर्वसंमतम् । न चागमोदित-
मिति वेद्मात्रस्य ब्रह्मप्रमाणकत्वं वक्तुं शक्यते ।
भाष्यप्रकाशः।
लक्षणे शङ्कते नन्वित्यादि । यत् संदिग्धं तत् सम्यक् परिच्छेत्तुं लक्षणीयम् । अत्र
ब्रह्मणि कथं संदेहः । यावतेत्यवधारणे हेत्वर्थे वा । तथाच ब्रह्मणः सत्ता स्वरूपलक्षणं च श्रुतित
एव सिद्धम् । तदवधारणे ततो हेतोर्वा ब्रह्मणोऽखिलविशेषशून्यत्वेन सिद्धया संदेहप्रयोजकप्रकारा-
भावात् संदेह एव न घटत इत्यर्थः ।
प्रकारान्तरेणापि तदभावमाह विरुद्धमित्यादि । यदि लोकाप्रसिद्धं तदलौकिकया श्रुत्या
निर्णयम् । श्रुतिस्तु पूर्वं स्वरूपलक्षणमुक्त्वाऽग्रिमे प्रपाठके कार्यलक्षणं वक्ति । अतः प्रथममेव
तत्कथनं श्रुतिविरुद्धम् । न च स्वरूपलक्षणे संदेहाभावात् कार्यलक्षणमेवोच्यत इति युक्तम् । अन्न-
प्राणादिष्वपि तस्यातिप्रसङ्गदर्शनेन स्वरूपलक्षणाकथने केवलतत्कथनस्याप्रयोजकत्वात् । कैश्चिन्माया-
शबलस्यान्यैः शुद्धसत्त्वात्मकशरीरविशिष्टस्येतरैः सत्त्वादिगुणत्रयात्मकस्य प्रधानस्यापरैर्नित्यज्ञानेच्छा-
प्रयत्नधर्मकस्य तथात्वाङ्गीकारेण तस्य विवादाध्यासितत्वाच्च । तदेव विभजति न हीत्यादि । ननु
ब्रह्मणः कर्तृत्वस्य सर्वसंमतत्वाभावेऽपि वेदस्य प्रमाणमूर्धन्यत्वात् तदुक्तकोटेरौत्कट्यात् संदेहाभावाय
लक्षणविचार उचित इति चेत् तत्राह न चेत्यादि । चोऽवधारणे । कर्ता आगमेन वेदरूपेण
रश्मिः।
साधकत्वमित्यर्थः । यावतेत्युक्तसंबन्धार्थं तच्छब्दघटितफक्किकामाहुः तदवेति । अखिलेति
सत्यत्वाद्यभावानाधिकरणरूपत्वेन परेषां तथा । संदेह इति संदेहे दूरत्वं कारणं स्थाणुर्वा पुरुषो
वेत्यत्र स्थाणुत्वपुरुषत्वादिकं प्रयोजकं तद्वदत्र तदभावात् । तदभावमिति संदेहाभावमित्यर्थः ।
स्वरूपेत्यादि भाष्यं विवृण्वन्ति स्म यद्यीति । लोकाप्रेति अनधिगतार्थगन्तृत्वं श्रुतिप्रामाण्यं यतः ।
श्रुतिस्त्वित्यादि । तैत्तिरीयाणां ब्रह्मोपनिषदीत्यर्थः । अन्नेत्यादि । 'अन्नाद्ध्येव खल्विमानि
भूतानि जायन्ते' इत्यादिश्रुतिभिः कार्यलक्षणस्यातिव्याप्तिरेवं तु स्वरूपलक्षणलक्षिते कार्यलक्षणं विवक्षि-
तमिति नातिव्याप्तिः । अन्नादीनां सत्त्वादिप्राधान्याच्च प्रकटसच्चिदानन्दत्वमिति नातिप्रसङ्ग इति भावः ।
हेतुभाष्यमवतारयितुं शङ्कानिषेधमाहुः नच स्वरूपेत्यादि । केवलतत्कथनस्येति कार्य-
लक्षणकथनस्येत्यर्थः । अप्रयोजकत्वादिति । इदमशक्यत्वादित्यस्य विवरणम्, तथाहि
कार्यलक्षणस्य किमन्यद् ब्रह्मज्ञानजनकमिति जिज्ञासया प्रवृत्तत्वेन जिज्ञासायाः स्वरूपलक्षण-
लक्षितब्रह्मघटितत्वेन विशेषणज्ञानाभावप्रयुक्तजिज्ञासाभावात् कारणविघटनेनाकारणत्वरूपाप्रयोजक-
त्वमशक्यत्वमिति । विवादेत्यादिभाष्यं विवृण्वन्ति कैश्चिदिति । शांकरैरित्यर्थः । अन्यैरिति
रामानुजशैयभास्करमाध्यैरित्यर्थः । इतरैरिति सांख्यैरित्यर्थः । अपरैरिति नैयायिकैरित्यर्थः ।
तथात्वाङ्गीकारेणेति भूतादिकर्तृत्वाङ्गीकारेणेत्यर्थः । तस्येति भूतादिकर्तृत्वस्येत्यर्थः । तदेवेति
विवादाध्यासितत्वमेवेत्यर्थः । तदुक्तेति वेदोक्तायाः कर्तृत्वकोटेः । लक्षणेति कार्यलक्षण-
१. कार्यलक्षणस्यागमिप्रकर्षः १
95