सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 124, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 124

ब्रह्म पुनर्यादृशं वेदान्तेष्ववगतं तादृशमेव मन्तव्यम् । अणुमात्रस्यान्यथा-
कल्पनेऽपि दोषः स्यात् ।
'योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा' ॥
'नैषा तर्केण मतिरापनेया' इति श्रुतेश्च ।
भाष्यप्रकाशः ।
अथ 'सत्यं ज्ञानमनन्तं ब्रह्म,' 'अस्थूलमनणु' इत्यादिश्रुतिभ्योऽधिगत इति वदति तत्राह
ब्रह्मेत्यादि । यथा हीदमस्थूलत्वादिकं वेदान्तेषूच्यते, तथा 'सर्वकामः सर्वगन्धः सर्वरसः, विश्व-
तश्चक्षुरुत विश्वतोमुखः' इत्यादिकमप्युच्यत इति तादृशमपि मन्तव्यं न तु निर्विशेषमात्रम् । न
च तत्र खस्यान्यथाकल्पनं युज्यते, प्रतिज्ञाहानिदोषात् प्रतारकत्वापत्तेश्च । नच श्रोतुर्मन्दत्वे
कश्चिदुपायो विधेय इति तदर्थं किंचित्कल्पनेऽप्यदोष इति वाच्यम् । तथा सति श्रुत्यभिप्रेता-
त्मस्वरूपज्ञानेन श्रोतुः 'योऽन्यथा सन्तम्' इतिश्रुत्युक्तदोषापत्तेः । तथा वक्तुरपि, नैषा तर्केणेति
श्रौतनिषेधातिक्रमदोषापत्तेः । श्रुतिविरोधदोषापत्तेश्च । तदिदमुक्तम् अणुमात्रान्यथेत्यादि । ननु
रश्मिः ।
ज्ञानं तत्रात्यन्ताभावो निविष्टः, भावोऽस्तीति नाख्यातिरिति वाच्यम् । इदंत्वस्य पुरोवर्तित्व-
रूपस्य शुक्तिनिष्ठत्वे सदसत्ख्यात्यापत्तिः, अनुभवविरोधश्च । विशेषणानुभवो रजत इति । रज-
तनिष्ठत्वे तु प्रतिबन्धकोऽत्यन्ताभावं विघटयिष्यतीति । बन्धस्य नित्यता तु 'बन्धोऽसावविद्या-
नादिः' इति वाक्यादविद्याकार्यत्वेन मिथ्यात्वात् । व्यावहारिकी माध्वैर्बन्धमिथ्यात्वखण्डने खण्डि-
तेति । ननु कारणान्तरसमवधानान्न बन्धस्य विद्यामात्रनिवर्त्यत्वमिति चेन्न, एकेनैव दण्डादिना
घटनाशदर्शनेन दृष्टान्तसंभवाच्च । 'असंदिग्धोऽपि वेदार्थः' इत्यत्र अस्य पक्षस्य संग्रहात् । सिद्धा-
न्तपक्षमाहुः तादृशमपीति । निर्गुणमेव पश्चादनारोपितगुणसंपृक्तमित्यर्थः । इदमुभयव्यपदेशाधिकरणे
तृतीयाध्याये स्फुटीभविष्यति । अणुमात्रेत्यादि भाष्यं विवृण्वन्ति स्म न च तत्रेत्यादि । ब्रह्मणि
धर्मानामध्यस्तत्वकल्पनमित्यर्थः । कुतः, अणुमात्रान्यथाकल्पनमपि नेष्यत इत्यर्थः । प्रति-
ज्ञेति 'अथातो ब्रह्मजिज्ञासा' इति निर्गुणब्रह्मजिज्ञासां प्रतिज्ञाय 'जन्माद्यस्य यतः' इति वदतो व्यासस्य
प्रतिज्ञाहानिदोषादित्यर्थः । अध्यस्तत्वेपि लक्षणतोपपत्तेराह प्रतारकत्वेति । केवल संवित्त्वदि-
त्यसूत्रयतो भगवतो व्यासस्य तत्त्वापत्तेश्चेत्यर्थः । अत एव द्वितीयस्य नवमाध्याये इच्छानन्तरं
सदानन्दस्य जगत्कर्त्री शक्तिः, चितस्तु व्यामोहिका शक्तिरिति विभाग उक्तः । अणुमात्रेत्यादि
भाष्यमवतारयन्ति न च श्रोतुरिति । मन्दत्व इति तावदवधानशून्यत्व इत्यर्थः । योऽन्यथा
सन्तम्इति । अत्र प्रतिपद्यत इत्यस्य जानाति, प्रतिनिधिं पद्यते गच्छति प्रतिपत्तिं शरणागतिं कुरुते
इति त्रयोऽर्थाः । प्रतिनिधिः कृष्णः प्रतिकृतिश्च । तदुक्तं सुबोधिन्यां 'नैभिन्यं वाचि पूर्ववत्'
इति कृष्णविषये, प्रतिकृतिविषये तु 'हरिमूर्तिं प्रियां कृत्वा' इति । पुरुषोत्तमप्रतिष्ठायां गोस्वामि-
37