अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 123, कुल 2600 में से
संदर्भ में पढ़ें३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः।
न चाभावे सत्ताव्यभिचारः । तस्यापि भावत्वात् । भावान्तरात्मना अनुभूयमानप्रतियोगि-
रूपेणैव तत्राभावव्यवहारात् । अन्यथा निष्प्रतियोगिकत्वेनापि तस्य प्रत्ययापत्तेः । नैवैवं संविदो-
ऽर्थाद्यविनामावेऽर्थं विना संविद्रकाशात् स्वतःप्रकाशत्वहानिः । दीपादेस्तेजोरूपत्वस्येव संविदः
प्रकाशस्वरूपत्वस्यैव स्वतःप्रकाशपदार्थत्वात् । अत एवात्मनोऽपि तथात्वात् । नचात्मनो व्यापक-
स्त्वेन सर्वत्र सत्त्वात् तत्रारोप्यमाणस्य शरीरादेर्मरीचिकादावारोप्यमाणतोयादेरिव सम्बन्धेक्षणा
शक्यवचनत्वादसत्त्वमाश्रित्य प्रतीयमानत्वमात्रेण सदसद्विलक्षणत्वमनिर्व्वाच्यत्वं चास्तीयत इत्यपि
सांप्रतम् । वस्तुपरिच्छेदास्यातर्मते तत्समवाय्यादीनां सत्त्वेन तेषामेव देशत्वसिद्धेः । तदना-
ख्यातर्मते च ब्रह्मकार्यत्वाद् ब्रह्मण एव तथात्वसिद्धेः । एवं सिद्धे देशे शरीरादीनां च सिद्धत्वे
तेषामात्मन्यारोपोऽपि सुकरः । अन्यथा खपुष्पादेरिव दुष्करः स्यात् । अप्रत्यक्ष आकाशे मालि-
न्याभ्यासवदप्रत्यक्ष आत्मनि शरीराद्यध्यासोपपादनमप्यसंगतम् । बालानामवकाशरूपेण बुद्धानां
वस्तुस्वभावेनैव चाकाशस्यापि प्रत्यक्षत्वात् । अतः कल्पनाया असंगतत्वात् 'तदेषां प्राणानां विज्ञा-
नेन विज्ञानमादाय'इति, 'भोक्ता भोग्यं प्रेरितारं च मत्वा'इत्यादिश्रुतिविरोधाच्च, न कर्तृत्वभोक्तृ-
त्वादिरहित आत्मा । नच स वेदार्थः । ब्रह्मणो वेदार्थत्वात् । किंतु, खबुद्ध्या तथा कल्पित इति,
न तदर्थं विचारः शक्यवचनः । तदिदमुक्तं न हीत्यादि ।
रश्मिः।
कपालत्वेनावतिष्ठते संज्ञानिवृत्तिमात्रं परम्, एवं कपाले ध्वस्ते तच्छकलालमता ततोपि चूर्णीभावः
ततश्च वह्निःप्रक्षेपे पृथिव्यामेकीभावः, पुनः कपालं घटश्चेत्येवं क्रमेणानुभूयमानप्रतियोगिरूपेण
कपालादिनाप्यभावप्रत्ययनिर्वाह इति । प्रत्यक्षविरोधस्य सहने फलाभावादिति । न चेह घटो ध्वस्त
इत्याधाराधेयभावव्याघातः । घटाभावे घटाभाव इतिवदुपपत्तेः । तदाह भावान्तरात्मनेति ।
'यदस्ति यन्नास्ति तदेव विष्णुः' इति विष्णुरूपभावान्तरात्मत्वमभावस्य, न अनुभूयमानोऽननुभूयमान-
स्साक्षः प्रतियोगी संबन्ध्निरूपको यस्येति । मुख्यधर्मेणैव व्यवहार इत्यत्र युक्तिमाह अन्यथेति ।
निर्गतः प्रतियोगी यस्मात् तत्त्वं भावान्तरधर्मस्तेन रूपेणेत्यर्थः । 'इडुदुपधस्य चाप्रत्ययस्य' इति षत्वम् ।
तद्रहितपाठस्तु प्रामादिकः । तेन खपुष्पेऽभिलापयोग्यत्वेपि अस्त्यादिक्रियान्वितत्वरूपसत्त्वाभावेन
तदतौल्यमपि सूचितम् । तत्रैवात्मनेत्यादिनिरुक्तमनुवदन्ती शङ्कामपाकुरुते न चात्मन इति ।
सदसद्विलक्षणत्वमिति । अनिर्वचनीयत्वमेव सदसद्विलक्षणत्वमासीयत इति योजना । दूष-
यति बस्त्विति । वस्तुतो ब्रह्मणो वैश्वानराधिकरणे प्रादेशत्वाभिमानत्वरूपाङ्गीकारेणैव परिच्छे-
दाख्यातुर्भगवतो व्यासस्य मते शरीरादिसमवाय्यादीनामित्यर्थः । तदनाख्यातुरिति प्रस्तुत
एकदेशिनो मते इत्यर्थः । ब्रह्मण इति सर्वशक्तिमतो ब्रह्मण एकदेशत्वसिद्धेरित्यर्थः । तथा-
प्येवमावश्यकमित्याह एवं सिद्ध इति । तथा चानिर्वाच्यत्वनिरुक्तिर्निष्प्रयोजनेति भावः । दृष्टा-
न्ताप्रसिद्धिमाह बालानामिति । आकाशस्यापीत्यादि । इदं चाग्रे व्युत्पाद्यम् । तदेषामिति
श्रुत्यर्थस्तु, विज्ञानमयस्य सुप्तस्य विज्ञानराहित्ये अजातशत्रुणा हेतुरुच्यते तदेषामिति । एषा-
मात्मप्राणादीनां विज्ञानं स्वविषयप्रकाशनसामर्थ्यं विज्ञानेन स्वचैतन्येन जीव आदायोपादाय हृदया-
काशे शेत इति । न च स वेदार्थ इति आत्मा न वेदार्थ इत्यर्थः । यदप्यव्याससङ्गतं
तच्चव्याख्यम् । न चेदंत्व्वावच्छेदेन तदसत्त्वमावश्यकमिति रजतत्वाभाववति स्वतःप्रकाशकं
36