सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1031, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1031

८८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० १०

भाष्यप्रकाशः ।

इत्यर्थः । गूढामिसंधिमुद्घाटयन्ति चकारादित्यादि । चोऽप्यर्थे । तत् तेषां न प्रियं यन्मनुष्या
विद्युरिति श्रुतेर्मनुष्याणां ज्ञानं देवहिताय न भवतीति तद्धिताय, यथेन्धे इन्द्र इति परोक्षवा-
दस्तथात्र चतुर्मुखाऽजन्यायनेनास्मदादिसाधारणजन्माभावात् प्रथमकार्ये ज्योतीरूपेऽजेति
परोक्षवादो, भगवत्प्रियत्वाय वा परोक्षवाद इत्यर्थः । दृष्टान्तं व्याकुर्वन्ति यथेत्यादि ।
अत्रायमर्थः । सांख्यसमाससूत्राणां पञ्चशिखवृत्तौ सूर्यस्य चक्षुरधिदैवतत्वेन सिद्धत्वान्मधुवि-
दृष्टिः ।
'चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स कथ्यते' ॥
इति रामार्चनचन्द्रिकायां रुद्रयामलवचनान्मन्त्रस्य प्रकथनस्वरूपस्य 'श्रीकृष्णः शरणं मम'
इति मन्त्रोपदेशस्य ग्रहणात् । उप समीपे स्थित्वा यथा योग्यकरणे सर्गविसर्गक्रीडाभ्यां परोक्षीकृत-
शुद्धलीला············नुपासने बोध्यते इत्यर्थः । तत एव मुक्तिलीलाख्यमेकादशाध्यायोक्तसैकोनत्रिंशा-
ध्यायोक्तसोपासनस्य भक्तिरूपस्योपासनापदपरोक्षीकृत·········एतावता कल्पनोपदेशादिति सूत्रांशस्य
भाष्यं प्रकाशितम् । चकारार्थमाहुः । प्रकृते । गूढामिति गुहू संवरणे संवृताम् । दृहू संभक्तौ
सम्यक् भक्तियुक्ताम् । वाभिसंधिसमितां ममस्नेहसंधानकर्त्रीं मायासंबन्धी ममस्नेहोऽज्ञान····तः दृह
एव स्नेहः इत्युपपत्तेरिति भाष्यात् । देवेति देवहितायेत्यत्र वेदहितायेत्यपि, तत्र प्रथमपाठ आहुः ।
यथेति इन्द्रपदेन पुरंदरः प्रतीयते ञिन्धि दीप्तौ इत्यस्य समभिव्याहाराद् दीप्तिमान् न त्वयमर्थः
किं तु दक्षिणेक्ष्णि यः पुरुषः सः । तथा च बृहदारण्यकश्रुतिः 'स होवाच इन्धो वै नामैष योयं
दक्षिणेक्षन् तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः'
इति पाठे । चतुर्मुखेति अयं न्यायो दशमे प्रक्षिप्तेष्वध्यायेषु ।
'जगत्त्रयान्तोदधिसंप्लवोदे
नारायणसोदरनाभिनालात् ।
विनिर्गतोऽजस्त्विति वाङ् न वै मृषा
किं त्वीश्वर त्वं न विनिर्गतोसि' ।। इत्युक्तः ।
परोक्षेति अक्ष्णः परमिति व्युत्पत्त्या अत्राजाक्ष्णो विषयः ज्योतिस्तु नेति ज्योतिषि परोक्ष-
वादः । वेदस्य हितायेति पक्षे 'परोक्षवादो वेदोयम्' इत्येकादशस्कन्धादाहुः 'भगवदिति 'परोक्षं च
मम प्रियम्' इति वाक्यात् । वेदस्य हिताय परोक्षवादः । हिताय भगवत्प्रियत्वाय । नन्वात्मा वेदो
भगवत्प्रिय एवेति । आत्मत्वादेव विरुद्धधर्माश्रयत्वात् । परोक्षवादादिति चकारार्थ उक्तः । मध्वा-
दिवदिति व्याकर्तुमाहुः दृष्टान्तमिति । सिद्धत्वादिति । 'द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम्'
इति सूत्रे । मधुत्वं ज्योतिष्ज्ञानकर्तृत्वमपि तस्य वक्तुमित्यनेनाशक्यत्वेनान्वयाशक्यत्वमिति विशेषणं
मध्विति । मनेर्घश्छन्दसीति उत्प्रत्ययः नस् षः । ज्ञानकर्तृत्वं मधुत्वम्, तस्य वक्तुमशक्यत्वम् ।
ज्ञानेन भक्तेति शिवश्रुतेः ।
'स्वयंभूर्नारदः शंभुः कुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ।
द्वादशैते विजानीमो धर्मं भागवतं भटाः' ॥

934

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1031, कुल 2600 में से · SarvaKosh