अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)
Ananga Ranga of Kalyanamalla with Commentary
महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा
पृष्ठ 15, कुल 112 में से
संदर्भ में पढ़ेंस्थलः ] अनङ्गरङ्गः ३
॥ अथ शङ्खिनी लक्षणानि ॥
दीर्घं बाह्यशिरं कृशं³⁰ पृथुमथो देहं वहन्ती तथा
पादौ दीर्घतरौ कटिं च बृहतीं स्वल्पस्तनी कोपिनी ।
गुह्यं क्षारविगन्धिना स्मरजलेनाल्पेन सान्द्रैः कचै-
रानिम्नं कुटिलेक्षणा³¹ द्रुतगतिः सन्तप्तगात्रा भृशम् ॥११॥
सम्भोगे करजक्षतानि बहुशो यच्छन्त्यनङ्गाकुला
न स्तोकं न च भूरि भक्षति³² सदा प्रायो भवेत्पित्तला ।
स्रग्वस्त्राण्यरुणानि वाञ्छति दयाहीना³³ च पशुन्यैभृ-
त्पिङ्गा दुष्टमनाश्च घर्घरमहारूक्षस्वरा³⁴ शङ्खिनी ॥१२॥
॥ अथ हस्तिनी लक्षणानि ॥
स्थूला पिङ्गलकुन्तला च बहुभुक् क्रूरा त्रपावर्जिता³⁵
गौराङ्गी कुटिलाङ्गुलीकचरणा³⁶ ह्रस्वानमत्कन्धरा ।
बिभ्रत्यैभमदाम्बुगन्धि³⁷ रतिजं तोयं भृशं मन्दगा³⁸
दुःसाध्या सुरते ऽतिगद्गदरवा स्थूलोष्ठिका हस्तिनी ॥१३॥
॥ अथ नलिनीप्रभृतीनां सुखतिथय उच्यन्ते ॥
वेदाक्षीन्दुशरप्रसंख्यतिथयः प्रोक्ता नलिन्या रते
भोग्यादित्यदशर्तुसंख्यतिथिषु³⁹ प्रीता भवेच्चित्रिणी⁴⁰ ।
रुद्राम्भोधिगुणासमेषुतिथिषु⁴¹ प्रायो द्रवेच्छङ्खिनी
राकादर्शचतुर्दशीग्रहमित्तास्वेति द्रवं हस्तिनी⁴² ॥१४॥
रात्रेश्चतुर्थचरणे नलिनी द्रवत्वं⁴³
संयाति चित्रदयिता प्रथमे ऽथ⁴⁴ यामे ।
प्रीत्यै⁴⁵ तृतीयचरणः⁴⁶ खलु शङ्खिनीनां
नक्तं दिनार्धमपि हस्तिवधुजनानाम्⁴⁷ ॥१५॥