ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)
Rigvediya Aitareya Brahmana with Hindi Translation
महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)
पृष्ठ 305, कुल 592 में से
संदर्भ में पढ़ेंपहला अध्याय ] २९१
विहि होत्रा अवीता विपो न रायो अर्यः । वायवा चन्द्रेण रथेन
याहि सुतस्य पीतये । (ऋ० ४।४८।१ )
वायो शतं हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ
आ यातु पाजसा । ( ऋ० ४।४८।५ )
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः । युवां हि यन्तीन्दवो निम्न्न-
मापो न सध्र्यक् ॥
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । नियुत्वन्ता न ऊतय
आ यातं सोमपीतये ॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । अस्मे ता यज्ञवाहसेन्द्र-
वायू नि यच्छतम् ॥ ( ऋ० ४।४७।२-५)
आ चिकितान सुक्रतू देवौ मर्तं रिशादसा । वरुणाय ऋत पेशसे
दधीत प्रयसे महे ॥
ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते । अध व्रतेव मानुषं
स्वर्णधायि दर्शंतम् ॥
ता वामेषे रथानामुर्वी गव्यूतिमेषाम् । रातहव्यस्य सुष्टुतिं दधृक्
स्तोमैर्मनामहे ॥ ( ऋ० ५।६६।१-३ )
आ नो विश्वाभिरूतिभिः सजोषो ब्रह्म जुषाणो हर्यश्व याहि । वरी-
वृजत्स्थविरेभिः सुशिप्राऽस्मे दधद्वृषणं शुष्ममिन्द्र ॥
एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि । इन्द्र
त्वायमर्क ईट्टे वसूनां दिवीव द्यामधिनः श्रोमत् धाः ॥
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । इषं पिन्व
मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥
( ऋ० ७।२४।४-६ )
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरं
मंहिष्ठं विश्वचर्षणिम् ॥
यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः । तमन्न्वस्य रोदसी देवी
शुष्मं सपर्यतः ॥