ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 45, कुल 304 में से
संदर्भ में पढ़ें४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [१प्रथमारण्यके-
तदित्यनेन शब्देन शस्त्रं प्रतिपद्यते । लोके हि देशान्तरे कालान्तरे च यदप्यन्नं
समीचीनं भुक्तं तत्सर्वमन्नं पुनः पुनस्तत्तदित्येवमनुस्मर्यते । अतोऽत्रापि तच्छब्दोपक्र-
मेणान्नेमेवाभिलक्ष्य प्रारब्धवान्भवति ।
प्रकारान्तरेण तच्छब्दं प्रशंसति—
एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरम्यक्षरां ततेति
तातेति *तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरम्य-
क्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते, इति ।
पुरा प्रजापतिर्जगत्सृष्टेतामेव तकारादिकां प्रथमां वाचमुक्तवान् । कीदृशीं
वाचम् । एकाक्षरद्वयक्षराम् । एकेन ह्रस्वेनोपेतैकाक्षरा । द्वाभ्यां ह्रस्वदीर्घाभ्यामुपेता
द्व्यक्षरा । सैवोभयविधोदाहृत्य प्रदर्श्यते । ततेत्येकाक्षरा । तातेति द्व्यक्षरा । स प्रजा-
पतिर्जगदीश्वरः प्रथमतः सृष्टं हिरण्यगर्भं पुत्रमभिलक्ष्योपात्तयोस्तस्मिन्नयथोक्तं पितृवा-
चकं शब्दद्वयं प्रयुक्तवान् । अत एवेदानींतना अपि स्तनंधयं पुत्रं पितृवाचकशब्दे-
नोपलालयन्ति । यद्वा प्रजापतिर्हिरण्यगर्भः प्रथमं भाषामभ्यस्यत्त(स्यंस्त)तेति वा
तातेति वा वाचं व्याहरति । एवं सति सूक्तादौ तच्छब्दं प्रयुञ्जानो होता ततशब्दो-
पेतया प्रजापतिप्रयुक्तया तयैव [प्रारब्धवान्भवति ] । ईषद्वैलक्षण्येऽपि तच्छब्दस्य तत-
शब्दोपक्रमसाम्यात् । (+यथोक्तस्य तच्छब्दस्योपक्रमसाम्यात् ।)
यथोक्तस्य तच्छब्दस्य महिमानं प्रकाशयितुं कांचिदृचमुदाहरति—
तदुक्तमृषिणा, इति ।
यत्पूर्वेण ब्राह्मणवाक्येन तच्छब्दमाहात्म्यमुदितं तदेवर्षिणाऽतीन्द्रियार्थदर्शिना
मन्त्रेणोक्तम् । स च मन्त्रविशेषोऽत्रैव दाशतय्यामेवमाम्नातः—
“ बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।
यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाऽऽविः ” (ऋ० सं०
म० १० सू० ७१ ऋ० १) इति ।
तस्य मन्त्रविशेषस्यायमर्थः—हे बृहस्पते जातस्य पुत्रस्य नामधेयं दधानाः पित्रा-
दयो विचार्यैतरस्या वाचोऽग्रं श्रेष्ठं यत्पदं प्रथमं प्रैरत प्रयुक्तवन्तः । हे कुमार त्वं
विष्णुशर्मा रुद्रशर्माऽसीत्येवमादि दक्षिणकर्णे पठन्ति । यन्नामैषां तदीयबन्धुभिर्व्यवहि-
यमाणानां मध्ये श्रेष्ठं “ द्वयक्षरं चतुरक्षरं वा ” इत्यादिशाखीयलक्षणोपेतमासीद्यन्ना-
मारिप्रं पापरहितं लोकशास्त्रविरोधरहितमासीत् । एषां संभावितानां मध्ये यन्नामधेयं
यद्यथा प्रोक्तं नाम प्रेणा प्रेम्णा बृहस्पतिसंबन्धिना स्नेहेन च[नि]हितं संपादितम्,
* अत्र घ. पुस्तकातिरिक्तैषु भाष्यपुस्तकेषु यथैवेति पाठो वर्तते । + एतच्चिह्नान्तर्गतमधिकं
सर्वेषु पुस्तकेषु ।