ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 276, कुल 304 में से
संदर्भ में पढ़ेंअध्या० २ ख० २ (८)] ऐतरेयारण्यकम् । २७१
षष्ठीमृचमाह—
त्वं ह्येक ईशिषे सनादमृक्त ओजसा, इति ।
हे इन्द्र त्वं हि त्वमेवैक एवौजसा परकीयेन बलेनामृक्तोऽमार्जितोऽतिरस्कृतः सनात्सनितुमस्मभ्यं धनादिकं दातुमीशिषे समर्थोऽसि ।
सप्तमीमृचमाह—
विश्वस्य प्रस्तोभ विद्वान्पुरा वा यदि वेहाऽऽस नूनम् , इति ।
विश्वस्य सर्वस्य जगतः प्रस्तोभ प्रकर्षेणोत्साहजनक हे इन्द्र पुरा वाऽस्मदनुष्ठानात्प्रागेव वा भवान्विद्वानासास्मद्ऋत्वैर्ज्ञानोपपन्नः । यदि वाऽथवेहास्मिन्कर्मणि नूनमवश्यं भवान्विद्वानास ।
अष्टमीमृचमाह—
इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति ।
मित्रावरुणा हे मित्रावरुणौ युवां नोऽस्माकमिषमन्नमिर्लां भूमिं च कर्तन कुरुतम् । हे इन्द्र नोऽस्माकं पीवरीं प्रभूतामिषमन्नं कुरु ।
नवमीमृचमाह—
शं पदं मघं रयिषणि न सोमो अव्रतं हिनोति न स्पृशद्रयिः, इति ।
हे इन्द्र रयिषणि हविर्लक्षणस्य धनस्य दातरि मयि शं सुखं पदं निवासस्थानं मघं धनं च संपादयेति शेषः । योऽयं सोमः सोऽयमव्रतमनुष्ठानरहितं न हिनोति न पणयति । रयिः फलभूतं धनमपि न स्पृशदनुष्ठानरहितं पुरुषं न प्राप्नोति । ता एता नवसंख्याका अस्यां संहितायाम समाम्नाता ऋचः ।
पुनरप्यसमाम्नाताः सूत्रगते षष्ठाध्याये पठिता द्विपदा ऋचो दर्शयति—
एष ब्रह्मेति तिस्रः, इति ।
"एष ब्रह्मा य ऋत्वियः" इत्येका । "विसृतयो यथा" इति द्वितीया । त्वामिच्छवसस्पत इति तृतीया ।
संहितायां समाम्नातान्यृगन्तराणि चत्वारि दर्शयति —
आधूर्ष्वस्मा इत्येका सूददोहा यद्वावानेति धाय्या सूददोहाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (८) ॥
आधूर्ष्वस्मै०—ऋ० सं० म० ७ सू० ३४ ऋ० ४ । यद्वावान०—ऋ० सं० म० १० सू० ७४ ऋ० ६ ।
१ क. ॰मेक । २ ग. ॰पत्न्रैः । यं॰ ।