सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 256, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 256

अध्या० १।ख० ४] ऐतरेयारण्यकम् । २५१

' होतुर्धिष्ण्यस्य पश्चाद्भागे लम्बमानस्य फलकस्य च व्यवधाने प्रमाणं दर्शयति—
पदमात्रे धिष्ण्यात्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये
तृतीयः खण्डः ॥ ३ ॥
धिष्ण्यात्पश्चिमभागे पदमात्रे फलकमवतिष्ठत इति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये
पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


अथ चतुर्थः खण्डः ।

अथ होतुर्वाणधारणं विधत्ते—
निष्ठिते प्रेङ्खे होता॑ वाणमौदुम्बरं शततन्तुमुभाभ्यां
परिगृह्योत्तरत उपोहते यथा वीणाम्, इति ।
यथोक्तप्रकारेणाध्वर्युभिरुपकल्पिते कृते प्रेङ्खे समाप्ते सति ततो होता चित्याग्निप्र-
देशादारभ्य सदः प्रविश्य पश्चादासीन औदुम्बरं शततन्तुं वाणमुभाभ्यां हस्ताभ्या-
मादायोत्तरपार्श्वे वीणावद्धारयेत् । यथा लोके काण्डवीणा द्वित्रादितन्तुयुक्ता तथा
विस्तृतफलकैःसंपादिता शततन्तुबन्धनपर्याप्ता महती वीणा वाणशब्देनोच्यते ।
वामभागे धारितस्य बा(वा)णस्य मन्त्रैः स्वरस्थानकल्पनं विधत्ते—
सप्तभिश्चन्दोभिश्चतुरुत्तरैः स्थाना-
न्यस्योध्वर्मुद्गृह्णीयाद्दशभिर्वा, इति ।
गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुब्जगत्यः सप्त च्छन्दांसि । विराड्द्विपदाऽति-
च्छन्दः किंचिदन्यच्छन्दोन्तरमित्येतानि चत्वार्युत्तराणि च्छन्दांसि । तथाविधच्छन्दः-
प्रतिपादकैर्मन्त्रैर्बा(वा)णस्याधोभागमारभ्योत्तरोत्तरमूर्ध्वं स्वरस्थानानि केनचिल्लाञ्छने-
नोपकल्पयेत् । अन्तिमच्छन्दोन्तरपरित्यागेन दशभिर्वेति पक्षान्तरम् ।
इदानीं क्रमेण च्छन्दोमन्त्रानाह—
गायत्रेण त्वा छन्दसोद्द्हाम्यौष्णिहेन ॰त्वाऽऽनुष्टुभेन
त्वा बार्हतेन त्वा पाङ्क्तेन त्वा त्रैष्टुभेन त्वा जागतेन
त्वा वैराजेन त्वा द्वैपदेन त्वाऽतिच्छन्दसा त्वेति, इति ।
हे बा(वा)ण त्वां गायत्राख्येन(ण) च्छन्दसोद्द्हामि परिज्ञातस्वरस्थानविशेषयुक्तं


१ क. ग. घ. ङ. ॰तुर्वाण॰ । २ क. घ. ञ. ॰ता वाण॰ । ३ क. ख. घ. ङ. ॰न्तुं बाण॰ । ख. ग. घ. ङ. ॰लसं॰ । ५ क. ख. ॰णा वाण॰ ।