सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 220, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 220

अध्या० २ ख० ४ (१०)] ऐतरेयारण्यकम् । २१५

द्यत इत्यर्थः । तथा सुकृतस्य पन्थानं पुण्यमार्गं न वेद, अर्थज्ञानमपि न संपद्यत
इत्यर्थः ।

उक्तेऽर्थे संवादकं मन्त्रमुदाहरति—
तदप्येतदृषिणोक्तम् , इति ।

तमेतं मन्त्रं पठति—
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति ।
यदीं शृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थामिति, इति ।

यो यं वेदः सोऽयं यथाशास्त्रमध्येतृणां पुरुषाणां सखा स्वार्थबोधेनोपकारित्वात् ।
न केवलं सखा किं तु सचिविर्दोपि । सचिव्शब्दः सखिवाची । अत एव शाखान्तरे—
“सखिविदम्” [ तै० आ० प्र० २ अ० १९ ] इति पठन्ति । यो माणवकोऽ-
ध्येता सोऽपि वेदस्य सखा संप्रदायोच्छेद निवारकत्वेन वेदं प्रत्युपकारित्वात्, तादृशमु-
पकारिणमध्येतारं वेत्तीति सचिवित् । तमेतमभिज्ञं सखायं यः पुमांस्तित्याज
परार्थे विनियोगेन परित्यजति तस्य पुरुषस्य वाच्यपि भागो नास्ति अध्ययननि-
मित्तमपि सुकृतं न विद्यते । यदीं शृणोति यदपि वेदार्थश्रवणं तदप्यलकं शृणो-
त्यलीकश्रवणमेव । तत्र हेतुरुच्यते—हि यस्मात्सुकृतस्य पन्थानं न वेद श्रद्धारा-
हित्यादनुष्ठानमार्गं न जानाति, तस्मात्तदीयं श्रवणमपि निष्फलमित्यर्थः ।

तृतीयचतुर्थपादयोरभिप्रायं दर्शयति—
न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य
पन्थानमित्येतत्तदुक्तं भवति, इति ।

इत्थं परार्थशंसने दोषमभिधाय तत्प्रसङ्गाच्चयनादीनि त्रीणि निषेधति—
तस्मादेवं विद्वान्न परस्मा अग्निं चिनुयान्न परस्मै
महाव्रतेन स्तुवीत न परस्मा एतदहः शंसेत् , इति ।

यस्मात्परार्थानुष्ठाने महान्प्रत्यवायोऽस्ति तस्मादेवं विद्वानध्वर्युः परार्थं महाव्रता-
ङ्गमग्निचयनं न कुर्यात् । उद्गाता च महाव्रताङ्गेन साम्ना परार्थं न स्तुवीत । होताऽ-
प्येतदहर्महाव्रतारूप्येनाह्नोपलक्षितं शस्त्रं परार्थं न शंसेत् ।


यस्तित्याज सचिविदम्०—ऋ० सं० म० १० सू० ७१ ऋ० ६ ।


१ ग. मार्गं । २ घ. ङ. संपादकं । ३ घ. ङ. ॰बोधनेनो॰ । ४ ग. ॰दम् । स॰ । ५ क. ख. ॰रार्थेत्रि॰। ६ घ. ङ. निन्दति । ७ घ. ङ. ॰ने प्रत्यवायो भूयानस्ति । ८ घ. ह. ॰त् । एवं विद्वृच्छं॰।