सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 216, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 216

अध्या०२ख०३(९)] ऐतरेयारण्यकम् । २११

अथ तृतीयः खण्डः । ( नवमः )

उपासनान्तरं विधत्ते—
चत्वारः पुरुषा इति बाध्र्वः, इति ।
बध्र्वस्य पुत्रो महर्षिर्वक्ष्यमाणाश्चत्वारः पुरुषा उपासनीया इति मन्यते ।
तान्पुरुषान्निर्दिशति—
शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति, इति ।
तत्र प्रथमं पुरुषं विवृणोति—
शरीरपुरुष इति यमवोचाम स य एवायं दैहिक
आत्मा तस्य योऽयमशरीरः प्रज्ञात्मा स रसः, इति ।
बाध्वनामका वयं महर्षयो यं ध्यातव्यं देवं शरीरपुरुषनाम्ना कथितवन्तस्तं स्पष्टी
कुर्म इति शेषः । देह एव दैहिकः स चाहं मनुष्य इति प्रत्ययवेद्यत्वादात्मा। तादृशो
योऽस्त्ययमेव स पूर्वोक्तः शरीरपुरुषः । तस्य च देहरूपस्य पुरुषस्य स्वामित्वेनान्त-
र्वर्तमानो योऽयमशरीरो नाम शरीररहितः प्रज्ञात्मा चिद्रूपः पुरुषः सोऽयं रसः
शरीरपुरुषस्य सारः । तदुभयं ध्यायेदिति तात्पर्यार्थः ।
द्वितीयं विवृणोति—
छन्दःपुरुष इति यमवोचामाक्षरसमा-
म्नाय एव तस्यैतस्याकारो रसः, इति ।
"अग्निमीळे पुरोहितम्" [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यत्र
श्रूयमाणानामकारगकारनकारादीनामक्षराणां समाम्नायः सम्यक्पाठो योऽस्ति
स एव च्छन्दःपुरुषशब्देन विवक्षितः । तस्यैतस्य च्छन्दःपुरुषस्य मध्ये सारोऽय-
मकारो रस इति वेदितव्यः । तथा च पूर्वत्राऽऽम्नातम्—"अकारो वै सर्वा वाक्सैषा
स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति" ।
तृतीयं विवृणोति—
वेदपुरुष इति यमवोचाम येन वेदान्वेद ऋग्वेदं
यजुर्वेदं सामवेदं तस्यैतस्य ब्रह्मा रसः, इति ।
लोके कश्चित्पुमान्येन मनसा सावधानेन वेदान्ताञ्जानाति "अग्निमीळे" [ ऋ०
सं० म० १ सू० १ ऋ० १ ] इत्यादिरयमृग्वेदस्तेन हौत्रं कर्तव्यम्—"इषे त्वा"


१ क. ख. एवायं दै० । २ ग. नाशरहि० । ३ क. ख. घ. ङ. ॰रो यो मकारो वे० । ४ ग. ॰वैमान्ना० । ५ ग. ॰के वेदवित्पु० ।