सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 198, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 198

अध्या० १।ख० ३] ऐतरेयारण्यकम् । १९३

भाष्येव । सिद्धे पदस्य स्वरूपे पश्चात्संहिता प्रवर्तते, संहितायाः संधीयमानपदद्वयधर्म-
त्वेन पदपूर्वकत्वस्यावश्यंभावात् । येन क्रमेण संहिता पदं चेत्युभयं व्याप्तं भवति
सोऽयं क्रम उभयमध्यवर्तित्वादुभयमन्तरेणेत्युच्यते ।
प्रकारान्तरेणोपासनप्रशंसार्थमुपासकस्य काम्यं संहिताद्यध्ययनं विधत्ते—
अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः
प्रतृण्णमुभयकाम उभयमन्तरेण, इति ।
संहिताद्यध्ययनेरन्नाद्यादिसिद्धिरूपासकस्य भवतीत्युक्ते सत्युपासनमेव प्रशस्तं भवति ।
यथोक्तफलविघ्नकारिणं शत्रुं शापेन विनाशयितुं शापरूपं मन्त्रं दर्शयति—
अथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत्पृथिवीं
देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूया-
दथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेद्दिवं देवता-
मारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनमु-
भयमन्तरेण ब्रुवन्तं पर उपवदेदन्तरिक्षं देवतामा-
रोऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रूयात्, इति ।
अयमुपासकोऽन्नाद्यकामः सन्यदा संहितामधीते तदानीं परः शत्रुरेतस्य फलविघ्ना-
र्थमेनमुपवदेदधीयमानायां संहितायां विद्यमानमविद्यमानं वा दोषमुद्भावयेत्तदानीमु-
पासकः पृथिवीमित्यादिमन्त्रेण तं शत्रुं शपेत् । मन्त्रस्य चायमर्थः—हे शत्रो त्वं
संहितारूपां पृथिवीं देवतां दूषयितुमारः प्राप्तवानसि । अतः सा पृथिवी देवता
त्वां रिष्यति हिनस्तीति । एवमुत्तरयोरपि पर्याययोर्योज्यम् ।
अस्योपासकस्य शत्रुं सामर्थ्यं दर्शयति—
यथा तु कथा च ब्रुवन्त्वाऽब्रुवन्तं वा
ब्रूयादभ्याशमेव यत्तथा स्यात्, इति ।
ब्रुवन्नित्येतदपि द्वितीयान्तत्वेन परिणेतव्यम् । ब्रुवन्तं दोषाभिधायिनमब्रुवन्तं
दोषोक्तिरहितं वा वैरिणं प्रति यथा तु कथा च येन केनापि प्रकारेण ब्रूयादुपा-
सकः शपेत् । तदानीं यदुपासकेनोक्तं तदभ्याशमेव क्षिप्रमेव तथा स्यात् । तेनैव
प्रकारेण शत्रौ पर्यवस्येत् ।
यदा शत्रुब्राह्मणस्तदा विशेषं दर्शयति—
न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयात्, इति ।


१ ग. ॰ताध्य॰ । २ घ. ङ. ॰मुत्पादये॰ । ३ घ. ङ. ॰न्त्रस्याय॰ । ४ क. ख. ॰तास्वरू॰ । ५ क. ख. घ. ङ. ॰थिवीदे॰ । ६ घ. ङ. ॰वतायां दू॰ । ७ ग. ॰तः पृ॰ । ८ घ. ङ. त्वा ।
२५