ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 179, कुल 304 में से
संदर्भ में पढ़ें१७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
नम् । अनेन पित्रा स्वोत्पादिते पुत्रे संस्कृते सति तथैव पुत्रोऽप्यन्यं पुत्रमुत्पाद्य संस्क-
रोति सोऽप्यन्यं पुत्रमित्येवमिमे लोका अविच्छिन्ना भवन्ति । अन्यथा विच्छिद्येरन् ।
मातृशरीरान्निर्गमनस्य पूर्वोक्तजन्मापेक्षया द्वितीयत्वं दर्शयति—
तदस्य द्वितीयं जन्म, इति ।
जनकस्य पुत्रप्रयुक्तमुपयोगं दर्शयति—
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते, इति ।
अस्य पितुर्द्वावात्मानौ देहौ, तयोर्मध्येऽयमात्मा पुत्ररूपो देहः पुण्येभ्यः कर्मभ्यः
शास्त्रोक्तकर्मनिष्पादनार्थं प्रतिधीयते स्वस्य प्रतिनिधित्वेन गृहे स्थाप्यते ।
ननु किमनेन प्रतिनिधिना स्वयमेव कुतो न करोतीत्यत आह —
अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति, इति ।
अस्य पितुरितर आत्मा स्थविरो देहः कृतकृत्यः कृतान्येतज्जन्मप्रयुक्तानि
कृत्यानि सर्वाणि येनासौ कृतकृत्यः । लौकिकानां कुटुम्बपोषणादीनां शास्त्रीयाणामग्नि-
होत्रादीनां च निष्पादितत्वात्कृतकृत्यत्वम् । वयोगतो वयसा पूर्वकर्मसंपादितेनाऽऽ-
युषा हीनः प्रैति म्रियते । अतः पुत्रदेहेनैव पुण्यं कर्तव्यं न तु मृतेन पितृदेहेन कर्तुं
शक्यम् ।
पूर्वोक्तजन्मद्वयमपेक्ष्य जन्मान्तरं दर्शयति—
स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म, इति ।
स वृद्धः पितेतोऽस्माज्जठरदेहात्प्रयन्नेव निर्गच्छन्नेव स्वर्गे नरके मनुष्यलोके वा
स्वकर्मानुसारेण पुनर्जायते न त्वस्माद्देहान्निष्क्रान्तस्य जन्मान्तराय कालव्यवधान-
मस्ति । अस्मिन्नेव शरीरे स्थित्वा मनसा देहान्तरं स्वीकृत्य पश्चादमुं देहं परित्यजति ।
यथा जलूका मुखेन तृणान्तरमवष्टभ्य ततः पृष्ठभागमुपसंहरति तद्वत् । तथाच वाजस-
नेयिनः समामनन्ति—“तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽ-
त्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्याऽऽ-
त्मानमुपसंहरति ” [बृह० ४ । ४ । ३] इति । तद्यथोक्तं पुनर्जननंरूपमस्य संसारिण
आत्मनस्तृतीयं जन्मेत्युच्यते । यद्यपि पूर्वोक्तं जन्मद्वयं पुत्रदेहस्येदं तु देहान्तरस्य
तथाऽपि पितृपुत्रोपाध्योरेव भिन्नत्वादुपाध्युपलक्षितस्याऽऽत्मन एकत्वमभिप्रेत्यैकस्य
जन्मंत्रयमित्युपचर्यते । यद्वा पितुः सकाशाद्रेतोरूपेण मातुः सकाशात्कुमाररूपेण च
पुत्रे यज्जन्मद्वयमुदाहृतं तेनैव न्यायेन पितुरपि स्वकीयमातृ(ता)पितृसकाशाज्जन्मद्वयमर्था-
१ क. ख. ग. 'न स्वो' । २ क. ख. ग. 'वमेवेमे । ३ घ. ङ. गृहेऽवस्था' । ४ घ. ङ. प्रति-
धानेन । ५ घ. ङ. 'ति । संवृ' । ६ क. ख. वृद्धः । ७ ग. 'लायूका । ८ ङ. 'जन्मरू' । ९ क.
ख. ग. 'यपितृमातृस' ।