सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 156, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 156

अध्या० १ख० ८(२०)] ऐतरेयारण्यकम् । १६१

“ अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ” [ बृह० २ ।
३ । ६ ] इति । परब्रह्मणः प्राणदेवतामनु शरीरेऽवस्थानमाथर्वणिकैः पठ्यते—
“स ईक्षांचक्रे कस्मिन्नहमूत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति-
ष्ठास्यामीति स प्राणमसृजत” [ प्रश्नो० ६ । ३ ] इति । अतः प्राणदेवतामनु *रूपं
ब्रह्म यत्र शरीरे युज्यते तत्रोपासकशरीरे सर्वे वागाद्यभिमानिनोऽग्न्यादिदेवा एकं
भवन्ति, एकत्वं प्रतिपद्यन्ते । उपासको हि स्वशरीरे वर्तमानसर्वदेवतात्मकप्राणरूपोऽ-
हमस्मीत्येवं ध्यायति ।

द्वितीयं मन्त्रमाह —
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति ।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति ।
पञ्चम्यन्तेनाक्षरशब्देन कदाचिदपि विनाशरहितो द्वितीयसत्यशब्दवाच्यः परमा-
त्मोच्यते । प्रथमान्तेनाक्षरशब्देन व्यवहारकाले बाधरहितः प्रथमसत्यशब्दवाच्यः
प्राणोऽभिधीयते । सोऽयं परमात्मन उत्पन्नः प्राण इन्द्रियैर्युक्तमुपासकसंबन्धि यच्छ-
रीरमेति प्राप्नोति । युजो युक्ता इत्यादि पूर्ववत् । उपासकशरीरे सर्वदेवतासमष्टि-
रूपः परमात्मोपाधिरूप उपास्यः प्राणो वर्तत इत्येतस्यार्थस्य दाढर्याय पूर्वोक्तस्यैव
पुनरप्युक्तिः ।

तृतीयं मन्त्रमाह—
यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु ।
तद्वियूया कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्छुतेऽधि, इति।
याचकाय सर्ववस्त्वनुज्ञाप्रदानवाचकं वाचः संबन्धि यदेतदोमित्यक्षरं दारिद्र्य-
कारणमस्ति, यदपि दातव्यवस्तुप्रतिषेधवाचकं नेत्येतदक्षरमपकीर्तिकारणमस्ति, यद्-
प्यन्यदस्या वाचः संबन्धि क्रूरं खट्फडादिरूपमस्ति । तथा चान्यत्र श्रूयते—
“खट्फद् जहि । छिन्धि भिन्धी हन्धी कट् । इति वाचः क्रूराणि” । [ तै० आ०
प्र० ४ अ० २७ ] इति। यदु च यदप्यन्यदुल्बणिष्णु अत्युल्बणं वाचः स्वरूपमाक्रोशा-
दिकं तत्सर्वं कवयो मेधाविन उपासका वियूय परित्यज्य प्राणतत्त्वमन्वविन्द-
न्ध्वात्वा लब्धवन्तः । ते च कवयो नामायत्ताः प्राणदेवतान्नैम्नोऽकारस्याधीनाः
सन्तोऽकारो वै सर्वा वागित्याद्युक्तप्रकारेण प्राणरूपमकारमेव ध्यायन्तः श्रुते यथोक्त-
श्रुतिप्रोक्ते प्राणतत्त्वेऽधिसमतृप्यन् । आधिक्यं यथा भवति तथा तृप्तिं प्राप्ताः ।


* “ ब्रह्मरूपम् ” इति पठितुं योग्यम् ।


१ घ. ङ. ध्यायेत् । २ घ. ङ. ॰तव्ये वं॰ । ३ ख. ग. ॰नाम्नौका॰ । घ. ङ. ॰नाम्नोका॰ ।
४ क. घ. ङ. श्रूयते ।