सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 123, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 123

११८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

चतुर्थं विधत्ते—
तस्येदं विश्वं मित्रमासीद्यदिदं किंच तद्यदस्येदं
विश्वं मित्रमासीद्यदिदं किंच तस्माद्विश्वामित्र-
स्तस्माद्विश्वामित्र इत्याचक्षत एतमेव सन्तम्, इति ।

तस्य प्राणदेवस्य भोक्तुरिदं विश्वं भोग्यत्वेन मित्रमासीत् ।

पञ्चमं विधत्ते—
तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं
यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वाम-
देवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम्, इति ।

वागादयो देवाः सर्वे तं प्राणमुद्दिश्य परस्परमब्रुवन् । अयं वै प्राण एव
नोऽस्माकं सर्वेषां मध्ये वामो वननीयो भजनीय इति । देवेषु मध्ये वाम इति
व्युत्पत्त्या वामदेवनाम संपन्नम् ।

षष्ठं विधत्ते—
स इदं सर्वं पाप्मनोऽत्रायत यदिदं किंच स
यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किंच तस्माद्-
त्रयतस्तस्मात्त्रय इत्याचक्षत एतमेव सन्तम्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये
प्रथमः खण्डः ॥ १ ॥ (९)

यत्किंचिदिदं मनुष्यजातमस्ति तत्सर्वं स प्राणः पाप्मनः सकाशादत्रायत
रक्षितवान् । तस्मादत्रायतेत्यत्रिरिति निर्वचनं संपन्नम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ (९)

अथ द्वितीयः खण्डः । ( दशमः )

पूर्वत्र शतर्चिंप्रभृतिमुनिस्वरूपलक्षणाः षड्गुणा अभिहिताः, अथ भरद्वाजस्वरू-
पत्वादयो दश गुणा उच्यन्ते । तत्र प्रथमं गुणं विधत्ते—

एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्ता
एष बिभर्ति यदिबिभर्ति तस्माद्भरद्वाजस्त-
स्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्, इति ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 123, कुल 304 में से · SarvaKosh