ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 112, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १ ख० ६] ऐतरेयारण्यकम् । १०७
आयुर्हेतुत्वात्प्राणस्य रक्षकत्वं प्रसिद्धम् । तच्च कौषीतकिन आमन्वन्ति—"याव-
द्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः" [ कौषी० १ । २ । ] इति ।
उत्तरभागं व्याचष्टे—
अनिपद्यमानमिति न ह्येष कदाचन संविशति, इति ।
संवेशनं व्यापारोपरमः । यथा सुषुप्तौ वागादीनां व्यापार उपरतो भवति न त्वेवं
प्राणस्य । अत एव सुषुप्तिप्रकरणे श्रुत्यन्तरे पठ्यते—" प्राणाग्नय एवैतस्मिन्पुरे
जाग्रति " [ प्रश्न० ४ । ३ ] इति ।
द्वितीयपादं व्याचष्टे —
आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति, इति ।
प्राणस्य प्रतिक्षणं गमनागमनयोः सर्वैरनुभूयमानत्वात्प्रसिद्धिज्योतनार्थो हिशब्दः ।
तृतीयपादं व्याचष्टे—
स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च
ह्येष विषूचीश्च वस्त इमा एव दिशः, इति ।
सहाञ्चन्ति चतुष्कोणरूपेण परस्परसंश्लिष्टा वर्तन्त इति प्राच्यादयश्चतस्रो दिशः
सध्रीच्यः । विष्वगञ्चन्ति परस्परं वियुज्य वर्तन्त इत्याग्नेय्यादयश्चतस्रो विदिशो
विषूच्य इति । एवमेता दिश एव शब्दद्वयेनोच्यन्ते । यद्यप्यादित्य एव स्वप्रकाशेन
ता दिश आच्छादयति न तु प्राणस्तथाऽपि नास्ति विरोधः, आदित्यस्य बाह्यदेशवर्ति-
प्राणरूपत्वात् । " आदित्यो वै बाह्यप्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीते "
[ प्रश्न० १ । ७ ] इति श्रुत्यन्तरात् ।
चतुर्थपादार्थस्याऽऽदित्यरूपेण परिवर्तनस्य प्रसिद्धिं दर्शयति—
आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति, इति ।
प्राणमहिमप्रतिपादकं मन्त्रान्तरं दर्शयितुं तस्य मन्त्रस्य तृतीयपादं प्रतीकत्वे-
नोदाहरति—
अथो आवृतासोऽवतासो न कर्तृभिरिति, इति ।
आ च परा च पथिभिः०—ऋ० सं० म० १ सू० १६४ ऋ० ३१ । ऋ० सं०
म० १० सू० १७७ ऋ० ३ । स सध्रीचीः स विषूचीः०—ऋ० सं० म० १
सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ । आवरीवर्ति भुवनेषु—
ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ ।
१ क. ख. ॰कत्वम् । २ क. घ. ङ. ॰वदस्मिँ । ३ घ. ङ. ॰ति ता दि॰ ।