अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 234, कुल 540 में से
संदर्भ में पढ़ें| १५२ | अभिज्ञानशाकुन्तलम् |
|---|
उभे—णिब्बुदम्ह [ निर्वृते स्वः ] ।
प्रियंवदा—( सदृष्टिक्षेपम् ) अणसूए जह एसो इदो दिण्णादट्ठी उस्सुओ मिअ-
पोदओ मादरं अण्णेसदि । एहि संजोएम णं [ अनसूये, यथैष इतो दत्तदृष्टिरुत्सुको
मृगपोतको मातरमन्विष्यति । एहि संयोजयाव एनम् ] । ( इत्युभे प्रस्थिते )
शकुन्तला—हला असरण म्हि । अण्णदरा वा आअच्छदु [ हला अशरणास्मि ।
अन्तरा युवयोरगच्छतु । ]
स्यात्तथावर्तनये भवेतेत्यनसूयोपालम्भमाकर्ण्य वचनचतुरो राजा दुष्यन्तः तां समाश्वास-
यन्नाह—कल्याणि ! परिग्रहाणां = पत्नीनां बहुत्वं = विपुलत्वमिति परिग्रहबहुत्वं तस्मिन्
परिग्रहबहुत्वे मम ललनानेकत्वेऽपि मे = मम कुलस्य पौरववंशस्य द्वे = उभौ प्रतिष्ठे =
प्रतिष्ठाहेतू सगौरवस्थितिकरणीभूते स्तः । ते के द्वे इत्याह—एकः समुद्रः = सागर एव
वसनं = परिधानं यस्याः सा समुद्रवसना, समुद्रो रशना यस्याः स समुद्ररशना वा =
समुद्रान्ता उर्वी-अन्वर्थनामवती पृथ्वी, द्वितीया च युवयोः = भवत्योः इयं = एषा पुरः-
स्थिता मत्प्राणवल्लभा सखी = वयस्या शकुन्तला च ।
अर्थ भावः—राज्ञां बहुवल्लभत्वे सत्यपि मम पौरवकुलस्य द्वे एव प्रतिष्ठास्पदे
प्रथमा सागरा रशना पृथिवी, द्वितीया युवयोरियं आली मम प्रिया च शकुन्तला । इयमेव-
प्रधानमहिषी भविष्यति, अस्याः तनय एव च मम सिंहासन। धिकारी भविष्यति । अत्र
दीपक-रूपक-तुल्ययोगितातिशयोक्ति-श्लेषानुप्रासा अलङ्कारा अनुष्टुप्छन्दश्च ॥ १७ ॥
उभे—राज्ञो वचनमाकर्ण्य सानन्दे द्वे अपि प्रियम्वदा-अनसूया च युगपत् सख्यै, ब्रूतः-
निर्वृते स्वः आवां सुखिते च जाते । मनोरथाभ्यधिकामीष्टलाभेन वाढं मोदामहे इत्यर्थः ।
प्रियम्वदा—इत्थं सिद्धमनोरथयोः सख्योर्मध्ये प्रियम्वदाश्चेष्टाम्राह—( सदृष्टिक्षेपं =
दृष्टे = ईक्षणस्य क्षेपेण = नियोजनेन सह वर्तमानं सदृष्टिक्षेपम् ) अनसूये ! यथा = यतः एषः
= अयं निकटवर्ती इतः = इमां दिशम् दत्तदृष्टिः नियोजितेक्षणः उत्सुकः = स्वमातृदर्शन-
स्तन्यपानादौ उत्कण्ठितः, मृगपोतकः हरिणशिशुः, मातरं तृणादिलोभेन दूरं गताम् =
स्वजननीम् अन्विष्यति = मृगयते । एहि = आगच्छ संयोजयावः = एनं मृगशावकं मात्रा
सह संमेलयावः ( इति एवं कथने समाप्ते उभे, द्वे एव प्रस्थिते = प्रस्थानमभिनीतवत्यौ )
शकुन्तला—एवं सख्यौ प्रस्थानोद्यते दृष्ट्वा सोत्कण्ठापि भयलज्जाकातरा शकुन्तला
पुत्र पैदा करने की संभावना से शकुन्तला को प्रतिष्ठा का हेतु कहा गया है । इस प्रकार पौरव
वंश की प्रतिष्ठा का कारण समुद्रवसना = चारों समुद्र से घिरी हुई और कण्वपुत्री शकुन्तला है ।
राजा पृथ्वीपति कहा जाता है । इसलिए उसकी प्रतिष्ठा का हेतु एक पत्नी तो स्वाभाविक पृथ्वी
है ही दूसरी प्रतिष्ठा का हेतु शकुन्तला होगी, क्योंकि इसका पुत्र चक्रवर्ती = सार्वभौम राजा होगा ।
अतः इसे पटरानी होने के कारण सापत्न्य दोष का कष्ट नहीं होगा । यदि इसकी कोई सौत होगी
तो पृथ्वी है, जो निर्जीव होने से इसको कोई कष्ट नहीं दे सकती है ।
सखियाँ—हम दोनों सुखी और निश्चिन्त हो गईं ।
प्रियम्बदा—( बाहर की ओर दृष्टि डालकर ) अनसूये ! चूँकि यह मृग छौना बेचारा
हरिण का छोटा बच्चा इधर दृष्टि लगाये उत्कण्ठित होकर अपनी माँ को ढूँढ़ रहा है । अतः आवो
इसे इसकी माँ से मिला दें । ( दोनों सखियाँ प्रस्थान करती हैं )
शकुन्तला—हे सखि ! मैं अकेले हूँ । तुम दोनों में से एक आओ ।