अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 373, कुल 1258 में से
संदर्भ में पढ़ें३५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
कोऽत्र हेतुः ? यदि खलु हेतुकृतां सिद्धिं मन्यसे ।
ननु च अत एवास्य वादस्य व्युदासः प्राप्नोति—एकं कारणमीश्वरादिकं
सर्वस्येति । अपि च—
नेश्वरादेः क्रमादिभिः ॥ ६४ ॥
यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा, युगपत् सर्वेण जगता भवितव्यं
स्यात् । दृश्यते च भावानां क्रमसम्भवः ।
स तर्हि छन्दवशादीश्वरस्य स्याद्—‘अयमिदानीमुत्पद्यतामयं निरुध्यता-
मयं पश्चाद्’ इति ? छन्दभेदात् तर्हि सिद्धमनेकं कारणं स्यात् ।
स चापि छन्दभेदो युगपत् स्यात्; तद्धेतोरीश्वरस्याभिन्नत्वात् । कारणान्तर-
ननु चात एवेति । यदि वेश्वर एकं कारणं पुरुष इति वात्र पक्षे को हेतुरिति
हेतुर्मृग्यते । ईश्वरव्यतिरिक्तं हेतुं कृत्वा तत्सिद्धेरित्यभ्युपगतं भवति । तदभ्युपग-
माच्चैकमीश्वरः पुरुष इति वा कारणं सर्वस्य जगत इत्यस्य वादस्य व्युदासः
परित्यागः प्राप्नोतीति पिण्डेन वाक्यार्थः ।
“नेश्वरादेः क्रमादिभिः” इति । नैश्वरादेर्भावा जायन्ते । कस्मात् ? क्रमा-
दिभिः । आदिग्रहणेन देशकालादीनां ग्रहणम् । अथ वा—अनेककारणत्वान-
वस्थाप्रसङ्गानन्वयव्यतिरेकासिद्धित्वादीनां ग्रहणम् ।
यदि ह्येकमेवेति विस्तरः । यदि ह्येकमेव कारणमीश्वरः स्यात् महादेवो वा
वासुदेवो वा अन्यद्वा पुरुषादि वेत्यर्थः । युगपत् सर्वेण जगता भवितव्यं कारणस्य
सद्भावात् , न ह्येतदस्ति—‘सति कारणे कार्यं न भवतीति । दृश्यते च भावानां
बाल्यादीनामङ्कुरादीनां च क्रमसम्भवः । तस्मात् स्वकारणपरम्परानिर्वृत्त
इति नेश्वरादि कारणमिति गम्यते । ईश्वराद्येककारणं जगदिति हि प्रतिजाना-
नस्य स्वकारणक्रमोत्पादितत्वादिलक्षणेन धर्मविशेषेण तस्य सापक्षालत्वं पक्ष-
स्योपलक्ष्यते ।
स तर्हि छन्दवशादिति । स क्रमभेद इच्छावशादीश्वरस्य स्यात् । कथम् ?
इत्याह—अयमिदानीं भावः उत्पद्यतां यावदयं पश्चादुत्पद्यतामिति । एवं
क्रमसम्भवश्च भावानामीदृशश्च कारणमिति ईश्वरकारणिकाभिप्रायः । छन्दभेदा-
दिति । विस्तरः—ईश्वरच्छन्दभेदादेककारणत्वाभ्युपगमात्, प्राक्पक्षविरोधात्
धर्मस्वरूपविपर्ययः पक्षस्योल्लङ्घ्यते ।
स चापीति विस्तरः । स चापि छन्दभेदो युगपत् स्यात् तद्धेतोश्छन्दभेदहेतो-
रीश्वरस्याभिन्नत्वादेकत्वादित्यर्थः । ततश्चैव स पूर्वोक्तो दोषो युगपत् स्यादिति ।