सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 528, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 528

५२० ] [ सीतोपनिषत्
नाद-रूप में प्रकट हुआ। उस नाद से बिन्दु और बिन्दु से ओंकार व्यक्त
हुआ। ओंकार से परे राम-वैखानस पर्वत है, जिसकी कर्म और ज्ञान से
सम्बन्धित अनेक शाखायें हैं ॥ २० ॥
तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् ।
ऋग्यजुःसामरूपत्वात् त्रयीति परिकीर्तिता ॥२१
[हेतुना] कार्यसिद्धेन चतुर्धा परिकीर्तिता ।
ऋचो यजूंषि सामान्‍यथर्वाङ्गिरसस्तथा ॥२२
चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी ।
अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्मकम् ॥२३
तथाऽऽदिशन्त्यभिचारसामान्येन पृथक्-पृथक् ।
एकविंशतिशाखायामृग्वेदः परिकीर्तितः ॥२४
शतं च नव शाखासु यजुषामेव जन्मनाम् ।
साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वाणः ॥२५
वैखानसमतं तस्मिन्नादौ प्रत्यक्षदर्शनम् ।
स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् ॥२६
कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्दः एतानि
षडङ्गानि ॥२७
उपाङ्गमययं चैव मीमांसा न्यायविस्तरः ॥
धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा ॥२८
निबन्धाः सर्वशाखा च समयाचारसङ्गतिः ।
धर्मशास्त्रं महर्षीणामन्तःकरणसम्भृतम् ॥
इतिहासपुराणाख्यमुपाङ्गश्च प्रकीर्तितः ॥२९