सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 488, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 488

४८० ] [ सरस्वतीरहस्योपनिषत्

प्रकृत्यवच्छिन्नत या पुरुषत्वं पुनश्च ॥४८
शुद्धसत्त्वप्रघादायां मायायां बिम्बितो ह्यजः ।
सत्त्वप्रधाना प्रकृतिर्मयेति प्रतिपाद्यते ॥४९
सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि ।
वंश्यमायत्वमेकत्वं सर्वज्ञत्व च तस्य तु ॥५०
सात्त्विकत्वात् समष्टित्वात् साक्षित्वाज्जगतामपि ।
जगत् कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ।
यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ॥५१
शक्तिद्वयं हि मायाया विक्षेपा वृतिरूपकम् ।
विक्षेप शक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥५२
अन्तर्दृग्दृश्योर्भेदं बहिश्च ब्रह्मसर्गयोः ।
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥५३
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ।
चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः ॥५४
अस्य जीवत्वमारोपात् साक्षिण्यप्यवभास्ते ।
आवृत्तौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥५५
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ।
या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ . ६
अत्राप्यावृत्तिनाशे न विभाति ब्रह्मसर्गयोः ।
भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥५७
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यं त्रयं ब्रह्मरूप जगद्रूपं ततो द्वयम् ।
उपेक्ष्यं नामरूपे द्वे सच्चिदानन्तत्परः ॥५८