१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 479, कुल 572 में से
संदर्भ में पढ़ेंसरस्वतीरहस्योपनिषत् ] [ ४७१-
CC0. In Public Domain. Digitization by eGangotri
कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुंगपीनकुचकुम्भमनोहरांगीं
वाणीं नमामि मनसा वचसां विभूत्यै ॥५
प्रणो देवीत्यस्य मन्त्रस्य—भरद्वाज ऋषिः। गायत्री छंदः।
श्रीसरस्वती देवता । प्रणवेन बीज । शक्तिकीलकम् । इष्टार्थे
विनियोगः । मन्त्रेण न्यासः ॥ ६ ॥
या वेदांतार्थतत्त्वैकस्वरूपा परमेश्वरी ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥७
ॐ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती ।
धीनामवित्र्यवतु ॥८
आ नो दिव इति मन्धूस्य—अत्रिऋर्षिः। त्रिष्टुप् छन्दः ।
सरस्वती देवता । ह्रीमिति बीजशक्तिकीलकम् । इष्टार्थे विनि-
योगः । मन्त्रेण न्यास ॥ ६ ॥
या सांगोपांगवेदेषु चतुष्वेंकव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥१०
ह्रीं आ नो दिवो बृहतः पर्वतादा
सरस्वती यजता गन्तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची
शग्मां नो वाचमुशती शृणोतु ॥११
पावका न इति मन्त्रस्य—मधुच्छन्दा ऋषिः । गायत्री
छन्दः । सरस्वती देवता । श्रीमिति बीजशक्तिकीलकम् । इष्टार्थे
विनियोगः मन्त्रेण न्यास ॥ १२ ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनाऽनन्ता सा मां पातु सरस्वती ॥१३
Sri Sri Anandamayee Ashram Collection, Varanasi