सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 456, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 456

ॐ अस्य श्रीअनन्तघोरप्रलयज्वालाग्निरौद्रस्य वीरहनुम-
त्साध्यसाधना घोरमूलमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः ।
श्रीरामलक्ष्मणौ देवता । सौं बीजम् । अञ्जनासूनुरिति शक्तिः ।
वायुपुत्र इति कीलकम् । श्रीहनुमत्प्रसादसिद्धयर्थं भूर्भुवस्स्वर्लो-
कसमासीनतत्त्वंपदशोधनार्थं जपे विनियोगः ।

ॐ भूः नमो भगवते दावानलकालाग्निहनुमते अङ्गुष्ठाभ्यां
नमः । हृदयाय नमः । ॐ भुवः नमो भगवते चण्डप्रतापहनुमते
तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ स्वः नमो भगवते चिन्ता-
मणिहनुमते मध्यमाभ्यां नमः । शिखायै वषट् । ॐ महः नमो
भगवते पातालगरुडहनुमते अनामिकाभ्यां नमः । कवचाय हुम् ।
ॐ जनः नमो भगवते कालाग्निरुद्रहनुमते कनिष्ठिकाभ्यां नमः ।
नेत्रत्रयाय वौषट् । ॐ तपः सत्यं नमो भगवते भद्रजातिविकटरुद्र-
वीरहनुमते करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । पाशुपतेन
दिग्बन्धः । अथ ध्यानम्—

वज्राङ्गं पिङ्ग्नेत्रं कनकमयल्सत्कुण्डलाक्रान्तगण्डं
दम्भोलिस्तम्भसारप्रहणविवशीभूतरक्षोऽधिनाथम् ।
उद्यल्लाङ्गूलघर्षप्रचलजलनिधिं भीमरूपं कपीन्द्रं
ध्यायन्तं रामचन्द्रं प्लवगपरिवृढं सत्त्वसारं प्रसन्नम् ॥

नीचे दिए संकल्प से जल छोड़ना चाहिए :—
ॐ अस्य... जपे विनियोगः ।