सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 435, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 435

नीलरुद्रोपनिषत् ] [ ४२७
द्वितीयः खण्डः
अपश्यं त्वावरोहन्तं नीलग्रीवं विलोहितम्।
उत त्वा गोपा अदृशन्नुत त्वोदहार्यः॥
उत त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः।
नमो अस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ॥
अथो ये अस्य सत्त्वानस्तेभ्योऽहमकरं नमः।
नमांसि त आयुधायानातताय धृष्णवे ॥
उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने।
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्रियोर्ज्याम् ॥
या श्च ते हस्त इषवः परा ता भगवो वप।
अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे ॥
निशीर्य शल्यानां मुखा शिवो नः शंभुराभर।
विजय धनुः शिखण्डिनो विशल्यो बाणबाँ उत ॥
अनेशन्नस्येषव आभुरस्य निषङ्गथिः।
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः॥
अथो य इषुधिस्तवारे अस्मिन्निधेहि तम्।
या ते हेतिर्मीढुष्टम् हस्ते बभूव ते धनुः॥
तया त्वं विश्वतो अस्मानयक्ष्मया परिब्भुज।
नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ॥
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः।
ये वाभिरोचने दिवि ये च सूर्यस्य रश्मिषु ॥
येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः।
या इषवो यातुधानानां ये वा वनस्पतीनाम्।
ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥२