१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 356, कुल 572 में से
संदर्भ में पढ़ें३४८ ] [ गोपालपूर्वत्तापिन्युपनिषत्
यम् । वल्लभेति तुरीयम् । स्वाहेति पञ्चममिति पञ्चपदं
जपन्पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म संपद्यत
इति । तदेष श्लोकः क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय
गोपीजनवल्लभायेति बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति
मङ्क्षु नान्या गति स्यादिति । भक्तिरस्य भजनम् । एतदिहा
मुत्रोपाधिनैराश्येनामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।
कृष्णं तं विप्रा बहुधा यजन्ति । गोविन्दं सन्तं बहुधा आराध-
यन्ति । गोपीजनवल्लभो भुवनानि दध्रे स्वाहाश्रितो जगदेतत्सु-
रेताः ॥ १ ॥ वायुर्यथैको भुवनं प्रविष्टो जन्येजन्ये पञ्चरूपो
बभूव । कृष्णस्तदेकोऽपि जगद्धितार्थं शब्देनासौ पञ्चपदो
विभाति ॥ २ ॥ इति ॥
ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिला-
धारिणो ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाश-
मम्बुजं तदन्तराधिकानलास्त्रयुगं तदन्तरालद्यर्णखिलबीजं
कृष्णाय नम इति बीजाढ्यं सब्रह्म। ब्राह्मणमादायानङ्गगायत्रीं
यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाऽङ्गवासुदेवादिरुक्मिण्या-
दिस्वशक्ति नन्दादिसुदेवादिपार्थादिनिष्ठ्यादिवीतं यजेत्संध्यासु
प्रतिपत्तिभिरुपचारः । तेनास्याखिलं भवत्यखिलं भवतीति ॥ २ ॥
तदिह श्लोका भवन्ति । एको वशी सर्वगः कृष्णः ईड्य एकोऽपि
सन्बहुधा यो विभाति । तं पीठं येऽनुभजन्ति धीरास्तेषां सिद्धिः
शाश्वती नेतरेषाम् ॥ ३ ॥ नित्यो नित्यानां चेतनश्चेतनानामेको
बहूनां यो विदधाति कामान् । तं पीठगं येऽनुभजन्ति धीरास्तेषां
सुखं शाश्वतं नेतरेषाम् ॥ ४ ॥ एतद्विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात् । तेषामसौ गोपरूपः प्रयत्ना
त्प्रकाशयेदात्मपदं तदेव ॥ ५ ॥
क्लीं काम बीज है । जो उपासक इसे आदि में रखकर कृष्णाय