सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 193, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 193

CC0. In Public Domain. Digitization by eGangotri

त्रिशिखिब्राह्मणोपनिषत्

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्ण मुदच्यते । पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते । ॐ शान्तिः शान्तिः शान्तिः ।
शान्ति पाठ—यह पूर्ण है, वह पूर्ण है, पूर्ण से पूर्ण बनता है ।
पूर्ण में पूर्ण ले लेने पर पूर्ण ही शेष रहता है । ॐ शान्तिः शान्तिः
शान्तिः ।
त्रिशिखी ब्राह्मण आदित्यलोकं जगाम । तं गत्वोवाच ।
भगवन् किं देहः किं प्राणः किं कारणं किमात्मा ॥१॥
स होवाच सर्वमिदं शिव एव विजानीहि । किं तु नित्यः
शुद्धो निरञ्जनो विभुरद्वयानन्दः शिव एकः स्वेन भासेदं सर्वं
सृष्ट्वा तप्तायः पिण्डवत् ऐक्यं भिन्नवत् अवभासते । तद्भासकं
किमित चेत् उच्यते । सच्छब्दवाच्यं अविद्याशबलं ब्रह्म ॥२॥
ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् । महतोऽहंकारः ।
अहंकारात् पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि ।
पञ्चमहाभूतेभ्योऽखिलं जगत् ॥३॥
तदखिलं किमिति । भूतविकारविभागादिति । एकस्मिन्
पिण्डे कथं भूतविकारविभागं इति । तत्कार्यकारणभेदरूपेण
अंशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोशभेदविभागा
भवन्ति ॥४॥
अथाकाशः अन्तःकरणमनोबुद्धिचित्ताहंकाराः । वायुः
समानोदानोव्यानापानप्राणाः । वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाः ।
आपः शब्दस्पर्शरूपरसगन्धाः । पृथिवी वाक्पाणिपादपायूपस्थाः ।५।
Sri Sri Anandamayee Ashram Collection, Varanasi