सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 178, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 178

१७० ] [ षष्ठ अध्याय
है। जैसे ताँवे की कालौंच अथवा धान का छिलका प्रयत्न द्वारा पृथक
किया जाता है, वैसे ही मनुष्य का मल-दोष क्रिया द्वारा ही नष्ट होना
सम्भव है ॥१७६--१८६॥
॥ पंचम अध्याय समाप्त ॥
षष्ठ अध्याय
अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् ।
योऽसि सोऽसि जगत्यस्मिन् लीलया विहरानघ ॥१
सर्वत्राहमकर्तेति दृढभावनयाऽनया ।
परमामृतनाम्नी सा समतैवाशिष्यते ॥२
खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया ।
स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥३
समताः सर्वभावेषु याऽसौ सत्यपरा स्थितिः ।
तस्यामवस्थितं चित्तं न भूयो जन्मभागभवेत् ॥४
अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ।
सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥५
शेषस्थिरसमाधानो येन त्यजसि तत्त्यज ।
चिन्मनः कलनाऽऽकारं प्रकाशतिमिरादिकम् ॥६
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।
समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥७
हृदयात् संपरित्यज्य सर्वां वासनापङ्क्तिकाम् ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥८
दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश ।
युक्त्या वै चरतोऽज्ञस्य संसारो गोष्पदाकृतिः ॥६