सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 170, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 170

१६२ ] [ पंचम अध्याय
केचित्तृणौषधिवृक्षफलमूलपतंगकाः ।
केचित् कदम्बजम्बीरसालतालतमालकाः ॥१४०
केचिन्महेन्द्रमलयसह्यमन्दरमेरवः ।
केचित् क्षारोदधिक्षीरघृते क्षुजलराशयः ॥१४१॥
केचिद्दिशालाः ककुभः केचिन्नद्यो महारयाः ।
विहरन्त्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च ॥१४२
कन्दुकाइव हस्तेन मृत्युनाऽविरतं हताः ।
भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ॥१४३
पतन्ति केचिदबुधाः संप्राप्यापि विवेकिताम् ।
दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥१४४
लीलयैव यदादत्ते दिक्कालकलितं वपुः ।
तदेव जीवपर्यायवासनावेशतः परम्ः ॥१४५
मनः संपद्यते लोलं कलनाकलनोन्मुखम् ।
कलयन्ती मनः शक्तिरादौ भावयति क्षणात् ॥१४६
आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।
ततस्तद् घनतां यातं घनस्पन्दक्रमन्मनः ॥१४७
भावयत्यनिलस्पन्दं स्पर्शवीजरसोन्मुखम् ।
ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥१४८
शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जम्यतेऽनलः ।
रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् ॥१४६
मनस्ताहग्गुणगतं रसतन्मात्रवेदनम् ।
क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् ॥१५०
ततस्तादृग्गुणगतं मनो भावयति क्षणात् ।
गन्धतन्मात्रमेतस्माद् भूमिसंवित्ततो भवेत् ॥१५१