१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 162, कुल 572 में से
संदर्भ में पढ़ें१५४ ] [ पंचम अध्याय
CC0. In Public Domain. Digitization by eGangotri
आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।
अनास्थामात्रमभितः सुखानामालयं विदुः ॥८५
वासनातन्तुबद्धोऽयं लोको विपरिवर्तते ।
सा प्रसिद्धाऽतिदुःखाय सुखायोच्छेदमागता ॥८६
धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥८७
परमं पौरुषं यत्नमास्थायादाय सूक्ष्मम् ।
यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् ॥८८ .
अहं सर्वमिदं विश्वं परमात्माऽहमच्युतः ।
नान्यदस्तीति संवित्त्या पर [ प्रथ ] मा सा ह्यहंकृतिः ॥८९
सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः ।
इति या संविदो ब्रह्मन् द्वितीयाऽहंकृति शुभा ॥६०
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥६१
पाणिपादादिमात्रोऽयमह मित्येष निश्चयः ।
अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ॥६२
वर्ज्य इव दुरात्माऽसौ कन्दः संसारदुस्तरोः ।
अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥६३
अनया दुरहंकृत्या भावात् संत्यक्तया चिरम् ।
शिष्टाहङ्कारवान् जन्तुः शमवान् याति मुक्तताम् ॥६४
प्रथमो द्वावहङ्कारावङ्गीकृत्य त्वलौकिकौ ।
तृतीयाऽहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥६५
अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।
स तिष्ठते तथाऽत्युच्चैः परमेवाधिरोहति ॥६६
संसार में आशा ही अनन्त दुःखों को उत्पन्न करने वाली है,
केवल अनास्था ही सुख का सदन समझना चाहिए । वासना के सूत्र-
बन्धन में बँधा हुआ यह विश्व पुनः-पुनः प्रकट होता है । वह वासना