१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 155, कुल 572 में से
संदर्भ में पढ़ेंमहोपनिषद् ] [ १४७
मन-वाणी से ग्रहण करने के अयोग्य, पूर्ण शान्त, सुख से भी अत्यन्त सुख-
रूप तथा आत्मसाक्षात्कार रूप वह व्यापक ब्रह्म है। वह कभी संवेदन
में नहीं आता ॥ ४१—४७ ॥
संबंधे द्रष्टृदृश्यानां मध्ये द्रष्टर्हि यद्वपुः ।
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥४८
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥४९
अजाग्रत्स्वप्ननिद्रस्य यत्तं रूपं सनातनम् ।
अचेतनं चाजडत्वं तन्त्यो भव सर्वदा ॥५०
जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।
अमनस्कस्वरूपं तत् तन्मयो भव सर्वदा ।
चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ॥५१
पूर्वं मनः समुदितं परमात्मतत्त्वात् ।
तेनाततं जगदिदं सविकल्पजालम् ।
शून्येन शून्यमपि विप्र यथाऽम्बरेण ।
नीलत्वमुल्लसति चारुतराभिधानम् ॥५२
संकल्पसंक्षयवशाद्गलिते तु चित्ते
संसारमोहमिहिका गलिता भवन्ति ।
स्वच्छं विभाति शरदीव खमागतायां
चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥५३
अकर्तृ कमराङ्ग चं गगने चित्तमुत्थितम् ।
अदृष्टृ कं स्वानुभवमनिद्रस्वप्नदर्शनम् ॥५४
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।