सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 149, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 149

महोपनिषत् cc0. In Public Domain. Digitization by eGangotri [ १४१
बीजरूपं स्थितं जाग्रद् बीजजाग्रत् तदुच्यते ।
एषा ज्ञप्तेर्न वावस्था त्वं जाग्रत्स'स्थिति शृणु ॥११
नवप्रसूतस्य परायदं चाहमिदं मम ।
इति यः प्रत्ययः स्वच्छस्तज्जाग्रत् प्राग्भावनात् ॥११
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ।
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदित स्फुटम् ॥१३
अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ।
यज्जाग्रतो मनोराज्यं तज्जाग्रत्स्वप्न उच्यते ॥१४
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णाऽऽदिभेदतः ।
अभ्यास' प्राप्य जाग्रत तत् स्वप्नो नानाविधो भवेत् ॥१५
अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि !
परामर्शः प्रबुद्धस्य स स्वप्न इति कथ्यते ॥१६
चिरस'दर्शनाभावादप्रफुल्लं बृहद्वचः ।
चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥१७
स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् ।
षडवस्थापरित्यागे जडा जीवस्य या स्थितिः ॥१८
भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः ।
जगत् तस्यामवस्थायामन्तस्तमसि लीयते ॥१९द
सप्तावस्था इमाः प्रोक्ता मयाऽज्ञानस्य वै द्विज ।
एकैका शतसंख्याऽङ्ग नानाविभवरूपिणी ॥२०
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।
नानया ज्ञातया भूयो मोहपंके निमज्जति ॥२१
बीज जाग्रत अवस्था, जाग्रत अवस्था, महा जाग्रत अवस्था,
जाग्रत स्वप्नावस्था, स्वप्नावस्था, स्वप्न जाग्रत अवस्था और सुषुप्तावस्था
Sri Sri Anandamayee Ashram Collection, Varanasi