सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 135, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 135

महोपनिषत् [ १२७
कल्पना जाती है, वे स्वभावतः रूप रहित ब्रह्म ही परमात्मा कहे जाते
हैं ॥४२-५७॥
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।
द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने ॥५८
देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।
निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥५६
तस्मिन् निरस्तनिःशेषसंकल्प स्थितिमेषि चेत् ।
सर्वात्मकं पदं शान्तं तदा प्राप्नोष्संशयः ॥६०
उदितौदार्यसौन्दर्यनेराग्यरसगर्भिणी ।
आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥६१
दृश्यासंभवबोधेन रागद्वेषादित्तानवे ।
रतिरर्बलोदिता याऽसौ समाधिरभिधीयते ॥६२
दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् ।
तदेव केवलीभावं ततोऽन्यत् सकलं मृषा ॥६३
मत्त ऐरावती बद्धः सर्पपीकोणकोटरे ।
मशकेन कृतं युद्धं सिंहीघैर्रणुकोटरे ॥६४
पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना ।
निदाघ विद्धि तादृक् त्वं जगदेतद्भ्रमात्मकम् ॥६५
चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।
तदेव तैर्विनिमुक्तं भवान्त इति कथ्यते ॥६६
मनसा भाव्यमानो हि देहतां याति देहकः ।
देहवासनया मुक्तो देहधर्मेन लिप्यते ॥६७
कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
मनोविलासः संसार इति मे निश्चिता मतिः ॥६८
आकाश तीन माने गये हैं । चिताकाश, चिदाकाश और भौतिक-
आकाश । चिदाकाश इन सब में सूक्ष्मतर है । एक देश से दूसरे देश को: