सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 133, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 133

महोपनिषत् ] [ १२५
यथा कटकशब्दार्थ पृथग्भावो न काञ्चनात्,
न हेम कटकात्तद्वज्जगच्छब्दार्थता परा ॥४६
तेनेयमिन्द्रजालश्रीर्जगती प्रवितन्यते ।
द्रष्टुर्द्द श्यस्य सत्ताऽन्तर्बन्ध इत्यभिधीयते ॥४७
द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते ।
जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥४८
मनसैवेन्द्रजालश्रीर्जगती प्रवितन्यते ।
यावदेतत् सम्भवति तावन्मोक्षो न विद्यते ॥४६
ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा ।
मनोमयमतो विश्वं वन्नाम परिदृश्यते ॥५०
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
यदर्थप्रतिभानं तन्मन इत्यभिधीयते ॥५१
संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते ।
यत्र संकल्पनं तन्न मनोऽस्तीत्यवगम्यताम् ॥५२
संकल्पनमनसी भिन्ने न कदाचन केन चित् ।
संकल्पजाते गलिते स्वरूपमवशिष्यते ॥५३
अह त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे ।
स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥५४
महाप्रलयसम्पत्तौ ह्यसत्ताँ समुपागथे ।
अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥५५
अस्त्यनस्तमितो भास्वानजो देवो निरामयः ।
सर्वदा सर्वकृत् सर्वः परमात्मेत्युदाहृतः ॥५६
यतो वाचो निवर्तन्ते यो भक्तैरवगम्यते ।
यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥५७
परायों को अपना देखने वाली सर्वात्ममयी वेदना का जब
आविर्भाव होता है तब दिशा और काल के रूप में विस्मृत हुआ विश्व