सामग्री पर जाएँ
सर्वकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 125, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 125

महोपनिषत् ] [ ११७
दावानल में जल गया है, परन्तु मृग-मरीचिका के तड़ाग में खड़ा रहकर
भी मैं भोग-लिप्सा से परे हूँ । हे पिता, हे गुरो ! आप मुझे तत्व-
ज्ञानात्मक बोध प्रदान करो अन्यथा मैं मान-मत्सर का त्याग कर मौन
धारण पूर्वक मैं अपने मन में भगवान् का स्मरण करूँगा ॥४६—५७॥
॥ तृतीय अध्याय समाप्त ॥
चतुर्थोऽध्यायः
निदाघ तव नास्त्यन्यज्ज्ञेयं ज्ञानवतां वर ।
प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ।
चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥१
मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।
शमो विचारः संतोषश्चतुर्थः साधुसंगमः ॥२
एकं वा सर्वयत्नेन सर्वमृत्सृज्य संश्रयेत् ।
एकस्मिन् वशगे यान्ति चत्वारोऽपि वशं गताः ॥३
शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः ।
आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥४
स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैक वाच्यता ।
यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥५
संकल्पाशाऽनुसंधानवर्जनं चेत् प्रतिक्षणम् ।
करोषि तदचित्तत्त्वं प्राप्त एवासि पावनम् ॥६
चेतसो यदकर्तृत्वं तत् समाधानमीरितम् ।
तदेव केवलीभावं सा शुभा निर्वृतिः परा ॥७
चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।
यथा तिष्ठसि तिष्ठ त्वं मूकान्धवधिरोपमः ॥८
सर्वं प्रशान्तमजमेकमनादिमध्यमाभास्वरं
स्वप्नमात्रम् चैत्यचिह्नम् ।