विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
भारत में सार्वजनिक क्षेत्र (पब्लिक डोमेन) · कॉपीराइट समस्या बताएँ
इस ग्रन्थ के बारे में
विष्णुधर्मोत्तर पुराण एक विशाल उपपुराण है, जो स्वयं को विष्णु पुराण का परिशिष्ट या 'उत्तर भाग' बताता है। यह तीन खण्डों में है और भारतीय कलाओं के अध्ययन के लिए विशेष रूप से प्रसिद्ध है। पहले खण्ड में सृष्टि, कल्प और मन्वन्तर, भूगोल और वंशावलियाँ हैं; दूसरे में राजधर्म, धर्मशास्त्र, ज्योतिष और आयुर्वेद जैसे विषय हैं; और तीसरे खण्ड में चित्रसूत्र (चित्रकला), संगीत, नृत्य, काव्य, प्रतिमा-लक्षण और मन्दिर-वास्तु का विस्तृत विवेचन है। तीसरे खण्ड का चित्रसूत्र भारतीय चित्रकला पर उपलब्ध सबसे प्राचीन शास्त्रीय विवरणों में गिना जाता है।
स्कैन की गई प्रति लगभग १००० पृष्ठों का सम्पूर्ण संस्कृत संस्करण है, जिसे बम्बई के श्रीवेङ्कटेश्वर यन्त्रालय ने छापा था; डिजिटल लाइब्रेरी ऑफ़ इण्डिया की सूची में इसका वर्ष १९२९ दर्ज है। आरम्भ में संस्कृत में लिखी प्रस्तावना है, जो भागवत और याज्ञवल्क्य स्मृति के वचनों से पुराणों का महत्त्व बताती है। इस संस्करण में हिन्दी अनुवाद नहीं है। प्रति पर हैदराबाद के सर्वोदय साहित्य मन्दिर की मुहर है।
कला-इतिहासकार, मूर्तिशास्त्र और भारतीय सौन्दर्यशास्त्र के अध्येता इस पुराण को मूल रूप में पढ़ने के लिए इस संस्करण का उपयोग कर सकते हैं।
वि०ध० ॥ २८ ॥
प्र०खं० अ० ४१
कालगिनिर्वसा ॥ कृताः समरशौण्डेन भीमा रुधिरनिम्नगाः ॥ २४ ॥ परश्वथाग्रविक्षेपाद्गतजीवितकुञ्जरैः ॥ पादोपलेष्व समरे प्रतस्तार स भार्गवः ॥ २५ ॥ दन्तिदन्तपदन्यासम्नातं कुञ्जरमस्तकम् ॥ विनिहत्य गजारूढांश्छेदयन्नञ्चरच्चरन् लघु ॥ २६ ॥ आरुह्य कुञ्जरैके कुञ्जरात्कुञ्जरान्तरम् ॥ अपश्यत् स रणे रामं विचरन्तं यथासुखम् ॥ २७ ॥ भूयो भूमिगतो रामः कुञ्जराणां परश्वधा ॥ चकार कदनं घोरं प्रलयाग्निरिवोत्थितः ॥ २८ ॥ छिन्नाग्रहस्तान्विशिखाङ्कच्छोणितोक्षितान् ॥ क्षितौ गता न पश्यामः श्यामीकृतदिगन्तरान् ॥ २९ ॥ एवं हि युध्यता तेन रणे कालाग्निवर्चसा ॥ हतानि दानवेन्द्राणां प्रयुतान्यर्बुदानि च ॥ ३० ॥ येषां प्रहारं संसोढुं नैवं शक्ता वसुन्धरा ॥ तेषां प्रहारमभिवाङ्गो नैव रामो व्यकम्पत ॥ ३१ ॥ दृष्ट्वा महारवैर्व्याप्तं निहतांश्च महासुरान् ॥ प्रदुद्रुवुर्दैत्यगणाः माल्वं शरणमाहवे ॥ ३२ ॥ अल्पावशिष्टान्दितिजान्नष्टान्धन्वी समीक्ष्य साल्वः स्वहिते निविष्टाय ॥ गतं ययौ तेन गजेन युद्ध गमाद्रेण युद्धमभीप्समानः ॥ ३३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० साल्वसैन्यवधो नामऽष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥
मार्कण्डेय उवाच ॥ ॥
ततः साल्वो महातेजाः कुञ्जरेण तरस्विना ॥ अपेयामास धर्मज्ञ रेणुकाकान्दवर्धनम् ॥ १ ॥ स्तब्धकर्णो विवृत्ताक्षः कृत्वा कुण्डलिनं करम् ॥ ग्रीवां निश्चल यत्रागो ययौ गजमदोद्धतम् ॥ २ ॥ दृष्ट्वापतन्तन्तस्य वेगं गमोऽपि तं गजम् ॥ हुंकारमात्रेण गण स्तम्यामास वेगितम् ॥ ३ ॥ मन्मथयामास नागेन्द्र शैलशृङ्गशिखोपमम् ॥ तस्थौ स पुरतस्तस्य साल्वस्य ममप्रियः ॥ ४ ॥ पशुरुं सदिनाङ्कङ्कि मकलङ्कमलं करं ॥ वारयन् विष्णुव्यधाति सकलं कमलेङ्गने ॥ ५ ॥ दन्तिना दन्तिनः पृष्टं गमय्याऽऽडिङ्गुमिच्छतः ॥ जहार वेगवान्वंगं शरैः मन्त्रतपविभिः ॥ ६ ॥ साल्वसायकसंघातैरावितोसुविकृतविक्रमस् ॥ गयं गणे द्युत्यगाणाऽड्यादयिन् बभूवुथैः ॥ ७ ॥ महता माऽञ्चपुंजन गमः संद्यदितो गणे ॥ निर्मिलिताक्षश्चिक्षेप साल्वाय पशुरुं तदा ॥ ८ ॥ आगच्छमानं वेगंन माल्वम्ने पशुरुं गणे ॥ आधुर्वान्द्याचयामान न शशाक च शत्रूहा ॥ ९ ॥ म साल्वायमसंवातं भङ्क्त्वा मवमशेषतः ॥ जहार शीर्षं माल्वम्य मुक्तोत्तमाविभूषितम् ॥ १० ॥ गमाऽपि धृतत्यात्याग गदां हमिविभूषिताम् ॥ आविध्य निजत्रानेण साल्वं कुञ्जरमस्थितम् ॥ ११ ॥ आनडुक्षावणं युद्धो ह्ता च चमसिंविशिषाः ॥ युद्धासक्तौ तदा तौ वीरौ गजस्य गदने स्थितौ तम् ॥ १२ ॥ दृढं च तस्य माल्वम्य पताकां च मनोरमाम् ॥ एतदादाय मकलमाजागाम वमुन्धराम् ॥ १३ ॥ सिंहनादेन गमम्य वित्रमन्तो
१ तेषां प्रहारादिवाङ्गो नैव रामो व्यकम्पत् इति ख० । २ साल्वस्य दन्त्यवत्सत् इति ख० । ३ युनन्दं हाद् इति ख० ।
॥ २८ ॥
गजयूथपः ॥ आर्त्तनादं महत्कृत्वा प्रदुद्राव नराधिप ॥ १४ ॥ रामकर्मणि वृत्तेऽभूतलात्पङ्गु रणे ॥ जयाह वेगावान्कञ्चादानान्वन्तश्चिकी-
र्षया ॥ १५ ॥ दृष्ट्वा सपरशुं रामं साल्वं च विनिपातितम् ॥ हतशेषांस्तु ते दैत्याः प्रविष्टा वरुणाल्यम् ॥ १६ ॥ एतस्मिन्नेव काले तु देवाः
सेन्द्रपुरोगमाः ॥ आयोचनमुपाजग्मुः पुरस्कृत्य पितामहम् ॥ १७ ॥ प्रणाममकरोत्तेषां रामो गतिकरः पितुः ॥ पूजयित्वा तु ते रामं ययुर्द्दिवः
स्वमालयम् ॥ १८ ॥ शक्रोऽपि लब्ध्वा त्रिदिवं रामबाहुप्रसाधितम् ॥ विजहार दिवं राजन्पालयानो जगत्रयम् ॥ १९ ॥ रथेन सिद्धयुक्तेन
महादेवोऽपि भार्गवम् ॥ आदाय प्रययौ शीघ्रं कैलासं पर्वतोत्तमम् ॥ २० ॥ स्नेहेन चाऽस्य गात्राणां चक्रे सम्मार्जनं हरः ॥ येनाऽऽसीद्विगलवान्
रामो निर्व्रणश्च महायशाः ॥ २१ ॥ गतव्रणं श्रियोपेतं जयं लब्ध्वा ह्युपस्थितम् ॥ रामं प्रहरतां श्रेष्ठं शंकरो वाक्यमब्रवीत् ॥ २२ ॥ शङ्कर
उवाच ॥ रामराम महाभाग त्वयाऽहं परितोषितः ॥ तस्मात्तवाऽहं दास्यामि चास्त्राणां हृदुत्तमम् ॥ २३ ॥ अस्त्राणां धारणे शक्तस्त्वमेको
भुवि भार्गव ॥ तव धैर्यमनौपम्यं तव सत्त्वमनुत्तमम् ॥ २४ ॥ अवश्यंगमिहस्थैर्यं कृत्वा पुत्र शनैःशनैः ॥ सर्वास्त्रवित्तत्तो राम गन्तासि पितरं
स्वकम् ॥ २५ ॥ यश्चैष परशुर्दिव्यः पित्रा दत्तस्तवोऽनघ ॥ अद्य प्रभृति ते स्थितः करं भूयः समेष्यति ॥ २६ ॥ उपलक्षणमेतच्च तथा तव
भविष्यति ॥ छेत्स्यामि ते संशयांश्च निर्वृतो भव पुत्रक ॥ २७ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तः परिपूर्णकामो रामो महात्मा जितसैन्यना-
थः ॥ उवास तत्र प्रमथैः समेतः सर्वाण्यथास्त्राण्यनुशिक्षमाणः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववधो
नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ ब्रह्मास्त्रं वैष्णवं रौद्रमाग्नेयमथ वासवम् ॥ अब्धं नैर्ऋतं याम्यं
कौबेरमथ वारुणम् ॥ १ ॥ वायव्यमथ सौम्यञ्च सौरं पार्वतमेव च ॥ चक्रास्त्रमथ वज्रास्त्रं पाशास्त्रं सार्पमेव च ॥ २ ॥ गान्धर्वं स्वापनं भौतं
तथा पाशुपतं शुभम् ॥ ऐषीकं तर्जनं प्राप्तं मारुण्डं नर्तनं तथा ॥ ३ ॥ अंबरोधनमादित्यं रैवतं मानवं तथा ॥ अक्षिसंतर्जनं भीमं जृम्भणं
रोधनं तथा ॥ ४ ॥ सौपर्णमथ पार्जन्यं राक्षसं मोहनं तथा ॥ कालास्त्रं दानवास्त्रञ्च अस्त्रं ब्रह्मशिरस्तथा ॥ ५ ॥ एतान्यन्यानि चाऽन्यानि
रामो निवसन्वै ततः ॥ समप्रयोगदृष्ट्यानि संहाराणि चाप्यथ ॥ ६ ॥ आजहार महादेवात्प्राप्तसुखवाततः ॥ एवं हि वसतः कालो गयो
रामस्य धीमतः ॥ ७ ॥ हरप्रसादात्संजातात्विक्रमो भुवनद्रुहः ॥ ध्यानासक्तं हरं देवं कदाचिदथ दृष्टवान् ॥ ८ ॥ ध्यानमसक्तं स हरं समीक्ष्य
१ 'हृतदर्पस्तु' इति ख० । २ 'सुखी' इति ख० । ३ 'त्वमेव' इति ख० । ४ 'अक्षयोगमवश्यस्त्वम्' इति ख० । ५ 'अन्तरोधनं' इति ख । ६ 'वसू इति' क० ।
वि० ध०
॥ २१ ॥
प्र० खं०
अ० ६२
॥ २१ ॥
रामस्तु संजातकुतूहलेन ॥ विस्मिसिष्मे धर्मभृतां वरिष्ठः स चेतसा यादववंशचन्द्र ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अङ्ग-
प्रदानं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ ॥मार्कण्डेय उवाच॥ कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥ नानाद्रुमलराकीर्णे नानापक्षिनिना-
दिते ॥ १ ॥ गंगांनिर्झरसंजाते<sup>१</sup> सततं चारुनिस्वने ॥ देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २ ॥ राम उवाच ॥ देवदेव महादेव गंगालोलित
मूर्द्धज ॥ शशांकलेखासंयुक्त<sup>२</sup> जटाभारतिभास्वर ॥ ३ ॥ पार्वतीहृदयाह्लादार्थ कामकालाङ्गनाशन ॥ भगनेत्रान्तकविचित्य पृच्छो दशशतातन ॥
॥ ४ ॥ त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन ॥ पूजयन्ति सदा लिंगं तव देवाः सवासवाः ॥ ५ ॥ स्तुवन्ति त्वामृषिगणा ध्यायन्ति
च मुहुर्मुहुः ॥ पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६ ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ॥ त्वामेकं कारणं मन्ये त्वयि सर्वं
प्रतिष्ठितम् ॥ ७ ॥ कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ॥ आचक्ष्व तन्मे भगवन्पृच्छ्यनुग्राह्यता मयि ॥ ८ ॥ प्रसादान्मुख्यताया
र्मयैतद्विप्रमभासाद्य जगत्यथान ॥ भवन्तमीढ्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु गद्यप्रश्नो नामकषष्टितमोऽध्यायः ॥ ६१ ॥ छ ॥ शंक उवाच ॥ त्पुळ्तोयमप्रश्नो
राम राजीवलोचन ॥ त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १ ॥ यत्तत्परमकं धाम मम भार्गवनन्दन ॥ गुह्याद्गुह्यतरम
व्यक्तं परं यस्मान्न विद्यते ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाधितम्<sup>३</sup> ॥ २ ॥ त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ॥ एतद्गुह्य
रहस्यं ते ययावत्कथितं वचः ॥ ३ ॥ ये भक्तास्तन्मजं देवं न तें<sup>४</sup> यान्ति पराभवम् ॥ नर्मीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४ ॥ मवं
नारायणमनिर्देश्यं जगत्कारणकारणम् ॥ सर्वतः पाणिपादन्तं सर्वतोऽक्षिशिरोमुखम् ॥ ५ ॥ सर्वतः श्रुतिमँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वे-
न्द्रियगुणाभासं सर्वेन्द्रियवि वर्जितम् ॥ ६॥ असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ॥ बहिरन्तश्च भूतानामचरञ्चर एव च ॥ ७ ॥ सूक्ष्मत्वातद
विज्ञेयं दूरस्थं चान्तिके च यत् ॥ अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८॥ भूतभर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ज्योतिपामपि
तज्ज्योतिः तमसः परमुच्यते ॥९॥ अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ प्रकृतिर्विकृतियोंऽसां जगतां भूतभावनः॥ १०॥ यस्मान्नपरंतं नास्ति ॥ २१॥
१ 'गंगाप्रकर्षसंजाते' इति ख० । २ 'शशांकलेखायुत' नयनागरानुगन्क' इति ख० । ३ 'विदितम्' इति क० । ४ 'इ' इति ख० ।
तं देवं चिन्तयाम्यहम् ॥ इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११ ॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२ ॥ यश्च सर्वमयो नित्यस्तं देवं चिन्तयाम्यहम् ॥ गोणीधरं पद्मनाभं विष्णुं
जिष्णुं जगत्पतिम् ॥ १३ ॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरूम् ॥ शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४ ॥ युक्तो
सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ यस्मिन्स्रवन्ति भूतानि तिष्ठन्ति च विशन्ति च ॥ १५ ॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
यस्मिन्त्रिते तते तन्तौ दृढे स्रगिव तिष्ठति ॥ १६ ॥ सदसद्ग्रथितं विश्वं विश्वांगे विश्वकर्मणि ॥ हरिं सहस्राशिरसं सहस्रचरणेक्षणम् ॥ १७ ॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥ अणीयांसमणीयांसं स्थविष्ठञ्च स्थवीयसाम् ॥ १८ ॥ गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ॥ यं
वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९ ॥ गृणन्ति सत्यकर्म्माणं सत्यं सत्येषु सामसु ॥ चतुर्भिर्भिश्चतुराननं सत्त्वस्थं सात्वतां पतिम् ॥२०॥
यं दिव्यैर्वमर्चन्ति गुह्यैः परपनामभिः ॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१ ॥ इह्यानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥
पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२ ॥ क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ यमेकंबहुधायातं प्रादुर्भूतमधोक्षजम् ॥ २३ ॥
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ यमोद्बहुजगतां कोशं यस्मिन्सन्निहिताः प्रजाः ॥२४॥ यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो
यथा ॥ ऋतमक्षरमक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५ ॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ यं च सुरासुरगन्धर्व्वास्तत्सिद्धांश्चमहोरगाः ॥२६॥
प्रयता नित्यमर्चन्ति परं दुःखभेषजम् ॥ अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७ ॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ॥
अतिवाग्बिन्दुकर्म्माणं चाडितिसूर्य्याभ्रितेजसम् ॥ २८ ॥ अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ यं वै विश्वस्य कर्त्तारं जगतस्तस्थुषां
पतिम् ॥ २९ ॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥ यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ॥ ३० ॥ चन्द्रादित्यौ च नयने तं
देवं चिन्तयाम्यहम् ॥ यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥३१॥ यस्य चासश्च पवनस्तं देवं चिन्तयाम्यहम् ॥ विषये वर्त्तमानानां
यं तं वैशेषिकैर्गुणैः ॥ ३२ ॥ प्रादुर्भावप्रयोगोत्तारं तं देवं चिन्तयाम्यहम् ॥ परः कालात्परो यज्ञात्परस्सदसतोश्च यः ॥ ३३ ॥ अनादिरादिर्विश्वस्य
तं देवं चिन्तयाम्यहम् ॥ पद्ध्यां यस्य क्षितिर्जाता श्रोत्राभ्याञ्च तथा दिशः ॥३४॥ पूर्वभागे दिवं यस्यतं देवं चिन्तयाम्यहम् ॥ नाभ्यां यस्या
१ 'इह्यामात्रम्' इति ख० । २ 'यस्ततोऽन्यो' इति क० । ३ 'यमाहुर्बहुजगतः कोशं' इति ख० ।
वि०ध० | प्र० खं०
४३० ॥ | अ० ६३
| ॥ ३० ॥
न्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३६ ॥ प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥३६॥ वराहरूपं नरसिंहरूपं देवेश्वरं वामनरूपरूपम्॥
त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥३७॥ वक्रमाश्रित्य ब्राह्मणास्सम्प्रसूता यद्वक्षः क्षत्रियाः संप्रभूताः ॥ पश्योर्वेश्यास्तथा पाद्मद्भवे
वैश्याः पद्भ्यां तथा वस्य शूद्राः प्रसूताः ॥३८॥ व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन ॥ देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा
नतोऽस्मि ॥३९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभागवगवान्प्रश्ने शार्ङ्गणीतासु व्यंगनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ५२।
राम उवाच ॥ वराहं नरसिंहं च वामनं च महेश्वर ॥ त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १॥ शङ्कर उवाच॥ अदितिश्च दितिश्चैव द्वे भार्ये
कश्यपस्य च ॥ अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥२॥ दितिंच जनयामास द्वौ पुत्रौ भीमविक्रमौ ॥ हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं
तथा ॥ ३ ॥ ततोऽभिषिच्यवाञ्छक्रं देवराज्ये प्रजापतिः ॥ दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४॥ अभिषिच्य तयोः प्रादात्स्वर्गं
पातालमेव चा। पातालं शासितंतथा हिरण्याक्षे महासुरे ॥५॥ धरांचपवनं त्यक्त्वा विबुधैन्द्रे ग्यात्पुणो ॥ पश्यन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥
॥६॥ धरावधपरित्यक्ता धरा चलनिवन्धना ॥ यदा तदा दैत्यपुरं सकलं व्याप्तिमगमत् ॥ ७ ॥ दृष्ट्व म्वपुरं व्याप्तममम्मा दितिजात्मजः ॥
सैन्यैसुवोजयामास जातशङ्कः सुरान्प्रति ॥ ८ ॥ उधुक्तेने म संश्येन दैन्यानां चतुर्गणिना ॥ विजित्य त्रिदशाञ्चन्य आजह्रार त्रिविष्टपम् ॥
॥ ९ ॥ हृताधिकारास्त्रिदशा जग्मुः शरणमज्र्म्मा ॥ देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १० ॥ त्रिदशाञ्छरणं प्राप्ता
न्हिरण्याक्षाविवासितान् ॥ संयोज्याऽभयददानेन विममर्ज जनार्दनः॥ ११ ॥ विसृज्य त्रिदशान्त्सर्वाग्विन्तयामास केशवः ॥ किन्तु रूपमहं कृत्वा
घातयिष्ये सुरद्विषम् ॥१२॥ तिर्यङ्मनुष्यद्वानांमावध्यः स सुगन्तकः ॥ ब्रह्मणा वरदानेन तन्मातन्म्य बधेय्यया ॥ १३॥ तृवराहो भविष्यामि न
देवो न च मानुषः ॥ नित्येवूपण चौवाहं घातयिष्यामि तं ततः ॥ १४ ॥ एतावदुक्ता मगंन नुवंगोहोऽभवत्प्रभुः ॥ चूर्णिताञ्जनशैलाभस्तप्त
जाम्बूनदान्वभूः ॥ १५ ॥ यमुनावर्तकृष्णाङ्गः तड़ावतंतनुहूहः ॥ तड़ाव इव दुर्धर्षण्णन्मियत्रा तेजमा ममः ॥ १६ ॥ तंन्यवाह इवाश्चर्य्यन्तं
त्वाह इवोचवान् ॥ तत्रप्रवाहमलन्तन्तन्प्रवाहमसनातः ॥ १७ ॥ मजलञ्श्चनकृष्णाङ्गः मजलाश्रुडमुच्छविः ॥ पीतवावामन्डा मोति मवि
द्युदिव तोयदः ॥ १८ ॥ उश्मा धाग्यन्द्वगं शशाङ्कमहृच्छविः ॥ शुशुभे मवभूतात्मा मवलाके इवाम्बुदः ॥ १९ ॥ शशाङ्कलेखविमलं
१ 'सैन्यैसुयोजयामास' इति ख० । २ 'तद्गतः' इति ख० । ३ 'यमुनाश्लाघ्यदन्ताग्रदंष्ट्राविभूषणः' इति ख० । ४ 'तत्रग्राह इवाश्चर्यः प्रवाह इव चोन्नतः' इति ख० ।
दृष्ट्वा तस्य विरेजतुः ॥ मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २० ॥ कराभ्यां धारयन्भाति शङ्खचक्रे जनार्दनः ॥ चन्द्रार्कसदृशे
राम पादचारीव पर्वतः ॥ २१ ॥ महाजीमूतसंकाशो महाजीमूतसंन्निभः ॥ महाजीमूतवद्रङ्गी महाबलपराक्रमः ॥ २२ ॥ दानवेन्द्रवधायकाङ्क्षी
हिरण्याक्षो ययौ ॥ हिरण्याक्षोऽपि तं दृष्ट्वा सूवराहं जनार्दनम् ॥ २३ ॥ दानवाँश्चोदयामास तिर्यग्जातमपूर्व्वकम् ॥ गृह्यतां बध्यतां चैव
क्रीडार्थं स्थाप्यतां तथा ॥ २४ ॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् ॥ जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५ ॥ चोदिता दानवेन्द्रेण दान
वाः शस्त्रपाणयः ॥ प्रवर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७ ॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ॥ नैव शेकुर्व्व्यथां
कर्त्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८ ॥ हन्यमानोऽपि दैत्येन्द्रैर्दानवान्मधुसूदनः॥ जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥२९॥ हन्यमानेषु
सैन्येषु हिरण्याक्षः स्वयं ततः ॥ उत्थाय धनुषा देवं प्रवर्षे शरोत्तमम् ॥ ३० ॥ हिरण्याक्षस्तु तान्दृष्ट्वा विफलैँश्च शिली-
मुखान् ॥ शिलीमुखानां संप्रध्वन्समपश्यन्महद्भयम् ॥ ३१ ॥ ततोऽखेदंयुयुधे तेन देवदेवेन चक्रिणा ॥ तान्यस्य फलहीनानि चकार भगवान्
स्वयम् ॥ ३२ ॥ ततो गदां काञ्चनपट्टनद्धां विष्वपितां किंकिणिजालसंवैः ॥ विक्षिप दैत्यस्य वराह्काय ढुङ्कणदग्धा निपपात सा चा
विफलीचकार ॥ ३३ ॥ शक्तिं ततः पट्टिनिद्धमध्यमुल्कानलाभां तपनीयचित्राम् ॥ विक्षिप दैत्यस्स वराह्काय ढुङ्कणदग्धा निपपात सा चा ॥
॥ ३४ ॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य संख्ये ॥ दैत्याधिपस्तस्य ससर्ज वेगाद्वैवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५ ॥
शङ्खस्वेनताऽपि जनार्दनश्च विद्राव्य दैत्यान्सकलान्महात्मा ॥ सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६ ॥ निपातिते
दैत्यपतौ स देवः संपूजितः शक्तिपितामहाभ्याम् ॥ मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७ ॥ शक्तोऽपि लब्ध्वा त्रिदिवं
महात्मा चिच्छेद पश्चान्नवणीयराणवाम् ॥ ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु सूवराहाप्रादुर्भावे हिरण्याक्षवधो नाम त्रिप्रञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ शङ्कर उवाच ॥
हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ॥ हिरण्यकशिपुर्नाम चकारोग्रं महत्त्पः ॥ १ ॥ दशवर्षसहस्राणि दशवर्षशतानि च ॥ जपो
१ 'निस्तनः' इति ख० । २ 'न्यथाम्' इति ख० । ३ 'वेगादिवेक्षितः' इति ख० ।
वि० ध०
॥ ३५ ॥
पृ० सं०
अ० ५४
पवासानिरतः स्नानैर्मोनाश्रितव्रतः ॥ २ ॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चाऽनघ ॥ ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥
॥ ३ ॥ विमानेनाऽर्कवर्णेन हंसयुक्तेन भास्वता ॥ आदित्यैस्सहितः साध्यैस्सहितो मरुद्भिर्विधिः ॥ ४ ॥ रुद्रैर्विश्वैस्सहाथैश्च
यक्षरक्षसपन्नगैः ॥ दिग्भिर्वादिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥ निम्नगाभिः समुद्रैश्च मातंगैर्वयसांविधिः ॥ नक्षत्रैश्च मुहूर्त्तैश्च कालस्या
वयवैस्तथा ॥ ६ ॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंस्वर्गे वसति दानवः ॥ २५ ॥ यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ॥ यज्ञियान्कृतवांश्चैव दैत्यान्यज्ञेश्वाश्च देवताः ॥ २६ ॥ आदित्या
वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ ॥ भृगोर्वाङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७ ॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ देवं ब्रह्म
मयं विष्णुं ब्रह्मामृतं सनातनम् ॥ २८ ॥ भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ॥ नारायणं विभुं देवाः शरणं शरणा गताः ॥२९॥ देवा ऊचुः॥
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ॥ त्वं हि नः परमो देवो ब्रह्मादीनां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवक्षस्थलमहागिरिम् ॥ ५० ॥ कृत्वा तमसुभिहीनं दैत्येशं केशवः स्वयम् ॥ असुराणां विनाशं च क्रूरो नह्यविध्यद्वात् ॥ ५१ ॥ हत्वासुरं शोणितबिन्दुचित्रं संपूज्य देवाः सह वासवेन ॥ जगुस्सुखच्छिण्यानि मुदा समेता देवोयथान्तान्हितसुत्सिरास ॥ ५२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ शङ्कर उवाच ॥ हते हिरण्यकशिपौ दानवे दृप्तकण्टके ॥ हतेष्वन्येषु दैत्येभ्यः पातालतलमाश्रिताः ॥ १ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्रवावृधे तदा हरिः ॥ २१ ॥ उदङ्मुखैर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ॥ अक्रामंस्तु हरेर्लोकान्दानवाः शस्त्रपाणयः ॥ २२ ॥ अभिद्रवन्ति वेगेन
नानावक्त्रशिरोधराः ॥ गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ २३ ॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ आखुदुर्दुरवक्त्राश्च घोर-
वक्त्रमुखास्तथा ॥ २४ ॥ मार्जारशशवक्त्राश्च हंसकान्ताननास्तथा ॥ गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५ ॥ सिंहव्याघ्रशृगालानां
द्वीपिनांनरपक्षिणाम् ॥ हस्त्यश्वगोखरोष्ट्राणां भुजगानां समानानाः ॥ २६॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवि०ध०
प्र० सं०
अ० ५६
तत्र संशयः ॥ मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥ ज्ञातिभिः सह धर्मिष्ठैस्त्वं तत्र यथासुखमात्मवान् त्वं भोक्ष्यसे भोगान्विविधाञ्छुभा-
न्सुदुर्लभान् ॥४७॥ अवाप्स्यसि तथा भोगाँल्लोकेष्विहविविधार्जितान् ॥ प्राक्कामायुक्तश्च तथा लोकेषु विहरिष्यसि ॥४८॥ मन्वन्तरे द्वितीये च महेंद्रत्वं
करिष्यसि ॥ तेजसा च महीयेन शक्रेण योत्स्यसे बले ॥ ४९ ॥ तव शत्रुगणान्सर्वान्घातयिष्याम्यहं तदा ॥ ब्रह्मणस्त्वं शरण्यस्त्वं
यज्ञशीलः प्रियंवदः ॥ ५० ॥ तपस्वी
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंगानां सूर्यस्तेजस्विनां तथा ॥ ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका ॥ १६ ॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ॥ कल्पं मन्व
न्तरैशाश्च मनवश्च चतुर्दश ॥ १७ ॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ॥ संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥ मार्गशीर्षस्तु
मासानां ऋतूनां कुसुमाकरः ॥ शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥१८॥ कारणानां वधः प्रोक्तो गुरुर्हन्तां तथाऽसिमर्जित् ॥ पातालानां
सुतलञ्च समुद्राणां पयोदधिः ॥ १९ ॥ जम्बूद्वीपश्च द्वीपानां लोकानां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंस एव च गुणत्रयम् ॥ ३९ ॥ गामाविश्य च भूतानि धारयत्योजसा विभुः ॥ पुष्णामि चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४० ॥ प्राणिनां
जठरस्थोऽग्निसूर्यरूपाच्चौ स भार्गव ॥ चेष्टाकृत्प्राणिनां ब्रह्मन्त्स च बाह्यः शरीरगः ॥ ४१ ॥ यथादित्यगते तेजो जगद्भासयतेऽखिलम् ॥ यच्च
न्दुर्मास यच्चाग्नौ तत्तेजस्त्वं कीर्तितम् ॥ ४२ ॥ सर्वस्य चाऽसौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनञ्च ॥ सर्वैश्च वेदैश्च स एव वन्द्यो वेदा
न्तकृद्वेदकृदेव चाऽसौ ॥ ४३ ॥ इति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें... यिता ॥ आराध्य केशवं देवं प्राप्यन्ते नाऽत्र संशयः ॥ १९ ॥ हतप्रत्यर्थिमातङ्गो रुधिराप्लुतभूतले ॥ संग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥
॥ २० ॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः ॥ अकलङ्कशशाङ्काभा वदना नीलमूर्धजाः ॥ २१ ॥ गम्यन्ति नरं स्वर्गे देवरामा मनोहराः ॥
सकृदर्चितो देवो हेलया वा नमस्कृतः ॥ २२ ॥ वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम् ॥ कुपितमपि धर्मेण विज्ञेयं तत्प्रसादजम् ॥ २३ ॥
रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ॥ अन्यभावतया नाम्नः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंगायति तन्मनाः ॥ सततं कल्यमुत्थाय तस्य तुष्यति केशवः ॥ १२॥ पौरुषेण च सूक्तेन जपहोमादिकं सदा॥ यः करोत्यमितप्रज्ञस्तस्य तुष्यति केशवः ॥ १३ ॥ मित्रस्वामिगुरुद्रोहो यस्य नाऽस्ति महात्मनः ॥ परदाररतेच्छा न तस्य तुष्यति केशवः ॥ १४ ॥ गजा शाखोपदेशेन राज्यं यश्च प्रशास्ति ॥ राजधर्मरतिर्नित्यं तस्य तुष्यति केशवः॥ १५॥ या तु नारी पतिप्राणा पतिभक्ता पतिव्रता ॥ तस्याः सुतोषो भगवांस्तोपयामायाति केशवः॥ १६॥ अग्निहोत्रपरो विद्वान्यज्ञैर्नित्यमतन्द्रितः ॥ यस्तु तर्पयते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपूजितः प्रयतः स्वान्तैः सोपवासैर्दिने रवेः॥ संवत्सरं महाभाग दीर्घमायुः प्रयच्छति ॥ २ ॥ सोमवारे महाभाग चारोग्यं संप्रयच्छति ॥
तथा भौमदिने राम वैश्वर्यं संप्रयच्छति ॥ ३ ॥ वासरे सोमपुत्रस्य सर्वान्कामान्प्रयच्छति ॥ अभीष्टांश्च तथा विद्यामाखण्डलगुरोर्दिने
॥ ४ ॥ सौभाग्यमतुलं लोके भार्गवार्हि प्रयच्छति ॥ तथा शनैश्चरस्याहि रिपून्र्सवान्व्यपोहति ॥ ५ ॥ कृत्तिकासु तथाऽभ्यर्च्य
यज्ञानाप्नोत्यनुत्तमान् ॥ प्राजापत्ये तथाऽभ्यर्च्य प्रजां प्राप्नोति शोभनाम् ॥ ६ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंबि० घं०
॥३६॥
प्र० खं०
अ० ६०
॥३६॥
॥ शङ्कर उवाच ॥ या राम श्रवणोपेता द्वादशी महती च सा ॥ तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् ॥ २ ॥ प्राप्नोत्ययत्नतो धर्मं द्वाद-
शद्वादशीफलम् ॥ दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ॥ ३ ॥ वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥ न दुर्गतिमवाप्नोति गतिमन्याञ्च
विन्दति ॥ ४ ॥ अक्षय्यं स्थानमाप्नोति नाऽत्र कार्या विचारणा ॥ श्रवणाद्वादशीयोगे दुर्भगे भविताहि ॥ ५ ॥ अत्यन्तं महती नाम द्वादशी सा
प्रकीर्तिता ॥ स्नानं जप्यं तथा दानं होमं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंकारणं ॥२६॥ शुक्लपक्षे तिथिर्ज्ञेया यस्यामभ्युदितो रविः ॥ उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥ २६ ॥ यश्च वा युज्यते राम निशीथे
शशिना सह ॥२७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासूपवासविधिर्नाम षष्टितमोऽध्यायः॥६०॥ राम उवाच ॥
तस्य मायाशरीरस्य विष्णोरिमिततेजसः ॥ प्राप्नुवन्ति कथं स्थानं नित्यमक्षय्यमव्ययम् ॥ १ ॥ शङ्कर उवाच ॥ अखण्डकारिणो राम
विष्णोरमिततेजसः ॥ प्राप्नुवन्ति परं स्थानं नित्यमक्षय्यमव्ययम् ॥ २ ॥ राम उवाच ॥ अखण्डकारी भवति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपृ० सं०
अ० ६२
वि० ध०
॥ ३७ ॥
महाभुज ॥ आसनान्यथ कार्याणि रत्नचित्राणि भार्गव ॥ २३ ॥ सौवर्णान्यथ रौप्याणि ताम्रशैलमयानि च ॥ ततस्सर्वाह्नं कार्यं ततोऽग्निगमनं ततः ॥ २४ ॥ नमस्कारस्ततः कार्यः प्रणीतेन १ ततः पुनः ॥ ब्रह्मकर्मान्नौ मन्त्रं प्रश्वेतापि येन च। रक्षेत् ततो जन्त्वा महाभाग प्रणवेन निवेदयेत् ॥ आसनेऽर्चयेद्देवं ततः प्रयतमानसः ॥ २५ ॥ अर्ध्याभिरुद्भिरेव ततो भोगैः सर्वैरनन्तरम् ॥ पद्मश्रितियेत्याथ पाद्याभिर्ध्याप्यनन्तरम् ॥ ॥ २६ ॥ पादुकाभिस्ततो राम देवदेवं समर्पयेत् ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंकुटुम्बिनी सुप्रयाता धौतोपस्करभाजना ॥४॥ साध्यानां राम बीजानां पशूंश्च सुकृतेस्य च ॥ शाकानां व्यञ्जनानां च स्वजातानां गतेऽहनि ॥५॥
शक्तिं कुर्यात्सदा तस्य वहिनोपदमनेन च ॥ देशे शुचौ सुप्रयाता सुसहायगुणान्विता ॥ ६ ॥ सर्वं प्रक्षालितं कार्यं केशकीटादिवर्जितम् ॥ भूमावुत्तु-
पलितायां स्थार्थं राम न किञ्चन ॥७॥ सर्वं साध्यमथान्नार्थं गन्धवर्णरसान्वितम् ॥ नित्यं परिपंचेद्राम नास्त्वार्थं केनचित् क्वचित् ॥८॥ उपादान-
मथादाय प्रविश्य च गृही गृहम् ॥ शुचौ प्रक्षालितं सर्वं चोपादानमुपस्यसेत ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें