Skip to content
SarvaKosh
Back to the archive

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages
Page 196Permalink

पृष्ठ ३६६

३६६ वेदस्वरूप-विमर्श
अथ शूद्राणां विहितनिषिद्धधर्मा इत्युपक्रम्य शूद्रकमलाकरे १९ पृष्ठे
स्कन्दमहापुराणीयप्रभासखण्डवचनान्युद्धृतानि । तानि यथा —
'न दर्भानुद्धरेत्प्राज्ञः' इत्यादीनि—
'नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत्' इत्यादीनि च ।
शूद्राचारशिरोमणावपि ३७ पृष्ठे स्कान्दे प्रभासखण्डीयवचनानि
'न दर्भानीत्यादीनि उद्धृतानि ।
मन्त्रचन्द्रिकायां-'न वैदिकं जपेच्छूद्रः कियञ्चैव कदाचन ।
नमोन्तं शिवमन्त्रं वा वैष्णवमभिधयते बुधैः ॥' इति
देवीयामलेऽपि-'स्वाहा प्रणवसंयुक्तं मन्त्रं शूद्रे वदद्विजः ।
शूद्रो निरयगामी स्यात् विप्रः शूद्रत्वमाप्नुयात् ॥'
षडङ्गन्यासे स्वाहापदस्थाने नमः पदोच्चारणं शूद्रैः कार्यम् ।
श्रीमद्देवीभागवते-'वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ।
त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने ॥'
स्कान्दे ११ अध्यायः १२ श्लोकः २८ ।
श्रीमद्भागवते 'स्त्री शूद्रद्विजवन्धूनां त्रयो न श्रुतिगोचरा ।'
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ॥ १।४।२५
श्रीमद्वाल्मीकीयरामायणे-सुन्दरकाण्डे
'भावं नचास्याहमनुप्रदातुं मलं द्विजो मन्त्रमिवाद्बिजाय ।।'
नृसिंहतापनीयोपनिषदि ।' 'सावित्रीं प्रणवं यजुलँक्ष्मी स्त्री शूद्राय
नेच्छन्ति; सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः समृतो-
ऽधोगच्छति ।
स्कान्दे प्रभासखण्डे शूद्रविषये-
नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् ।
न शिखां नोपवीतञ्च नोच्चरेत्संस्कृतां गिरम् ॥
पुराण्यान्यधिकृत्य कूर्मपुराणे-
'अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।
योऽधीते चैव मोहात्सा सं याति नरकान् बहून् ॥


पृष्ठ ३६७

वेदप्रामाण्य-विमर्शः ३६७
भविष्ये
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा ।
पठन्ति स्यात्स चाल्पायू राजा राष्ट्रेण सान्वयः ।
बृहद्धर्मपुराणे-उत्तराखण्डे चतुर्थेऽध्याये ५०७ पृष्ठे –
शूद्रस्तु ब्राह्मणादीनां पूजां कुर्यादतन्द्रितः ।
आज्ञां न लङ्घयेच्चापि न च तानवधीरयेत् ॥
न तेषामाचरेद् धर्मं वैदिकं लौकिकं तथा ।
पुराणपठनं वेदपठनं नापि चाचरेन् ॥
शास्त्रार्थकथनञ्चैव न शूद्रः क्वचिदाचरेत् ।
विप्रं क्षत्रं विशं वापि पाठयेन्न कदाचन ।
वर्णान् व्याकरणदीन् वा श्लोकं श्लोकार्थमेव च ।
ब्राह्मणोऽपि पठञ्शूद्रादात्मानमेवन् पातयेत् ।
स्वाहाप्रणवसंयुक्तं शूद्रो मन्त्रं विवर्जयेत् ॥
दद्यान्न देवनेवेद्यं शूद्राय ब्राह्मणः क्वचित् ।
पादोदकं ब्राह्मणस्य पिबेच्छूद्रः प्रयत्नतः ॥
ब्राह्मणे भक्तिमासाद्य शूद्रस्तरति दुर्गतिम् ।
नोपदेशेन मन्त्रैश्च न स्तवैः क्वचैरपि ।।'
गरुडपुराणे प्रेतखण्डे चतुर्थेऽध्याये--
वेदाक्षरं पठेच्छूद्रः कापिलं वा पयः पिबेत् ।
धारयेद् ब्रह्मसूत्रञ्च भवेद् वा ब्राह्मणीपतिः ॥२२॥
राजभार्याभिलाषी च परदारापहारकः ।
कन्यायां कामुकश्चैव सतीनां दूषकश्च यः । ॥२३॥
एते चान्ये च बहवो निषिद्धाचरणोत्सुकाः ।
विहितत्यागिनो मूढ़ा वैतरण्यां पतन्ति ते ॥२४॥
हरिवंशेऽपि 'सुगतिमियाच्छ्रवणाच्च शूद्रयोनिः ।'
व्यासस्मृतौ-प्रथमेऽध्याये-
शूद्रो वर्णचतुर्थोऽस्ति वर्णत्वाद् धर्ममर्हति ।
वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥
महाभारते-आनुशासनिके पर्वणि १० अध्याये-

Page 197Permalink

पृष्ठ ३६८

'उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् ।
उपदेशे महान् दोष, उपाध्यायस्य भाष्यते ॥५४॥
पूर्वदेहे यथावृत्तं तन्निबोध द्विजोत्तम ।
जातिं स्मराम्यहं ब्रह्मन् अवधानेन मे शृणु ॥५४॥
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः ।
ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५५॥
प्रीयताहि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।
पितृत्वया पूर्वकार्येषूपदेशः कृतोऽनघ ॥५६॥
एवं प्राप्तो महत्कष्टमृषिःसन्नृपसत्तम ।
ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने ॥६६॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
एतेषु कथयन् राज्ञो ब्राह्मणो न प्रदुष्यति ॥६८॥
स्कन्दपुराणे ब्रह्मखण्डे दशमेऽध्याये—
'उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ।
उपदेशे महान् दोष उपाध्यायस्य विद्यते ॥३९॥
नाध्यापयेद् बुधः शूद्रं तथा नैव च याजयेत् ।
न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥४०॥
काव्यं वा नाटकं वापि तथाऽलङ्कारमेव च ।
पुराणमितिहासञ्च शूद्रं नैव तु पाठयेत् ॥४१॥
यदि चोपद्दिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ।
त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद् ब्रह्मसङ्कूलात् ॥४२॥
शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् ।
शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३॥
बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना ।
स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥५७॥
अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ।
हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥५८॥
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।


पृष्ठ ३६९

कारयामास तस्यायं पितृकार्यादिकं तथा ॥६१॥
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्विजः ।
वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥६२॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥६४॥
गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ।
जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥६५॥
अथ चण्डालतां प्राप शूद्रयोनिमगात्ततः ।
गतवान् वैश्यतां पश्चात् क्षत्रियस्तदनन्तरम् ॥६६॥
प्रवर्त्तवर्द्धमानोऽसौ ब्राह्मणो वै तदाऽभवत् ।
उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥६७॥
वर्त्तमानः पितुर्गृहे स्वाचाराभ्यासतत्परः ।
गच्छन् कदाचिद् गहने गृहीतो ब्रह्मरक्षसा ॥६८॥
रुदन् भ्रमन् स्खलन् मूढः प्रहसन् विलपन्नसौ ।
शश्वद् हाहेति वदन् वैदिकं कर्म सोऽत्यजत् ॥६९॥
तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान् क्रमात् ।
अनेकेषु जनित्वा च कुत्सितेष्वपि योनिषु ॥९४॥
गृध्रजन्माऽभवत्पश्चात् गन्धमादनपर्वते ॥
ननु महाभारते अनुशासनिके पर्वणि दशमेऽध्याये—
'शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः ।
ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५३॥
प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना ।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥५६॥
युस्यां धर्मेषु हव्ये च कव्ये च मुनिसत्तम ।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥५७'
अहञ्च राजा विप्रेन्द्र पश्चात् कालस्य पर्ययम

वे० वि०—२४

Page 198Permalink

३७० वेदस्वरूप-विमर्श
इत्यादिवचनैः उपदेष्टुरुग्रतपसोऽपि महर्पेरधोगतित्वं विज्ञायते, उप-
देशनीयस्य शूद्रस्य चाभ्युदयो राजत्वमिति स्कन्दपुराणीयवचनैश्च उपदेश-
नीयस्य चोभयोरधोगतिरिति परस्परं महान् विरोध आपततीति चेन्न;
'हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ।।५८।।
पितृकार्यविधानार्थं देवकार्यार्थमेव च ।
मन्त्रानुपदिशत्वं मे महालयविधिं तथा ।।५९।।
अष्टकाश्राद्धकृत्यञ्च वैदिकं यच्च किञ्चन ।
सर्वमेतद्रहस्यं मे ब्रूहि त्वं हि गुरुर्यतः ।। ६० ।।
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।
कारयामास तस्यायं पितृकार्यादिकं तथा ।। ६१ ।।
पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ।
अथ दीर्घाण कालेन पोषितः शूद्रयोनिना ।। ६२ ।।

Page 199Permalink

: wait, the top is a dot, bottom is a comma: ';'.

Line 10:
"सिद्धान्तिनैयायिका, मीमांसका वेदान्तिनश्च ।"

Line 12:
"तदर्थमुद्भावयन्ति अंशानाक्षेपांर्हान् तथापि"
Wait, look at "अंशानाक्षेपांर्हान्":
Is that an anusvara on 'पा'?
Wait, the repha is on 'हा': 'र्हा'. Before 'र्हा', there is a small dot above 'पा': 'पांर्हान्' or is it just the repha's tail?
The repha starts above 'हा' and curves left. Sometimes that curve looks like a dot. But let's look: "अंशानाक्षेपार्हान्" (अंशान् + आक्षेपार्हान् -> अंशाननाक्षेपार्हान्? No, "अंशानाक्षेपार्हान्").

Line 16:
"सिद्धान्तित्वे उपक्षतं कोटिप्रकोटयः सम्यग् विस्तरेण"
Wait, is it "उपक्षतं" or "उपेक्ष्य"?
Let's read: 'उ' 'प' 'क' '्' 'ष' 'त' 'ं' -> "उपक्षतं" or "उपक्षिताः"?
Wait: "सिद्धान्तित्वे उपक्षतं कोटिप्रकोटयः" or "उपक्षिप्तं"?
Wait

Page 200Permalink

[पृष्ठ १]

वेदपौरुषेयत्वविमर्शः ।
'वेदापौरुषेयत्वपरीक्षणप्रसङ्गे' कश्चिज्जल्पति—
"सन्ति हि विश्वस्य पुस्तकालयेषु विविधानि पुस्तकानि ।
तान्यखिलान्यपि पौरुषेयाणि पुरुषरचितानि मन्यन्ते । परं वेदादिधर्म-
ग्रन्थानां विषयेऽन्यदेव मतमुपलभ्यते । ख्रिष्टीयानां मते यथा 'बाइवि-
ल'स्य, यवनानां मते यथा 'कुरान'स्य, पारसीकानाञ्च मते यथा
'जेन्दावस्था'यास्तथैव हिन्दूनां मते वेदाना मपौरुषेयत्वमीश्वरीयज्ञानत्व-
ञ्चाभ्युपगम्यते । वेदादिग्रन्थानामपौरुषेयत्वप्रश्नोऽतीव महत्त्वपूर्णः ।
यतो हि तेषामपौरुषेयत्वपक्ष एव स्वतः प्रामाण्यं सम्भवति । यदि
नाम ते पौरुषेयाः स्युस्तर्हि तेषां प्रामाण्यमपि परत एवाभ्युपगतं
स्यान्नतु स्वतस्तेषां पुरुषदोषाशङ्काशून्यत्वाभावात् । तत्र विचारणीयोऽयं
विषयो यद् वेदादिग्रन्थानामपौरुषेयत्वं सम्भवति न वा ? अपौरुषेयत्व-
पक्षेऽपि अपौरुषेयत्वेन किं नाम विवक्षितं स्यात् ? वेदानाम्पौरुषेयत्व-
परीक्षा मुखेनावान्येषामपि परीक्षा सुकरेति स्थालीपुलाकन्यायेन
वेदानाम्पौरुषेयत्वपरीक्षा ऽत्र प्रस्तूयत' इति ।
तन्न; यतः अर्थातथात्वं प्रमाणानामप्रामाण्यम् । अर्थतथात्वं तु प्रामा-
ण्यम् । तच्च अन्यानपेक्षत्वात् स्वत इति । तेन पौरुषेयाणामपि प्रामाण्य-
स्वतस्त्वमेव । पुरुषाश्रितभ्रमादिदोषाशङ्कया तु अप्रामाण्यं शंक्यते
तत्सिद्धौ अप्रामाण्यम्, तदसिद्धौ तु अनपोहितं प्रामाण्यस्वतस्त्वं
तिष्ठत्येव । तेन अपौरुषेयत्वमूलकं प्रामाण्यस्वतस्त्वमिति परास्तम् ।
अत एव प्रत्यक्षानुमानादीनामपि प्रामाण्यस्वतस्त्वमेव ।
यदुक्तं 'वेदा अपौरुषेया न तु पौरुषेया इति भारतीयविदुषां
प्राचीनपरम्पराप्राप्तं मतम् । यजुर्वेदस्य पुरुषसूक्ते परमेश्वरादेव
वेदानामुत्पत्तिः श्रूयते—
'तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'


[पृष्ठ २]

वेदपौरुषेयत्व-विमर्शः १७५
इति (यजुर्वेदे ३१।७) । परमेश्वरोऽपि यद्यप्यस्मिन्सूक्ते पुरुषशब्दे-
नैव व्यपदिष्टः, परं तस्य कर्मफलोपभोगोपनतशरीरसम्बन्धाभावान्न
शरीरधारि जीववत पुरुषशब्दाभिधेयत्वं सम्भवति । पौरुषेय शब्देन
चात्र जीवरचितत्वमेवाभिप्रेतम् । अतो वेदाः परमेश्वररचिता अपि
अपौरुषेया एवेति अपौरुषेयवादिनां विचारसरणिः ।"
तन्न; वस्तुतस्तु ईश्वररचितस्यापि पौरुषेयत्वमेव । अत एव सर्वेषां
भारतीयविदुषां वेदा अपौरुषेया इति न मतम् । नैयायिकवैशेषिकादिभिः
वेदानां पौरुषेयत्वस्यैवाभ्युपगमान् । अत एव तन्मतरीत्या वेदानां
प्रामाण्यस्वतस्त्वमपि नास्त्येव, ईश्वरस्य आप्तत्वेन कारणगुणसापेक्षतयैव
वेदानां प्रामाण्याभ्युपगमात् । अत एव पौरुषेय शब्देन जीवरचितत्वमेव
इत्यपि न सङ्गतम्, ईश्वररचितत्वस्यापि पौरुषेयत्वानपायात्, अपौरुषे-
यत्ववादिनां रीत्या तु 'तस्मान् यज्ञात् सर्वहुतः' इत्यादिश्रुत्या
परमेश्वरात् वेदानां सम्प्रदायप्रवर्तनरूप एव उत्सर्गः नित्यानां अन्या-
दृशस्य उत्सर्गस्य असम्भवदुक्तिकत्वात् ।
यदुक्तं परत्र विचारणीयमस्माभिर्यद् वेदानाम्पौरुषेयत्वेन किं
विवक्षितम् ? कथं नाम च तेषामपौरुषेयत्वं सामञ्जस्यमुपेयात्, वेदः
कथमीश्वरविरचिताः स्युः ? किं शब्दरूपाणां वेदानाम्पि विरचनमीश्व-
रेणैव कृतम ? वेदवाक्यान्यपि लौकिकवाक्यवत् पदसमूहरूपाण्येव
पदानि पुनरक्षरसमूहरूपाणि । कथं तर्हि वाक्यरूपाणां मन्त्राणामीश्वर-
रचितत्वं सूपपाद्यम् ? किमीश्वरेण वेदानां लेखनं कृतम् ? किंवा तेन
तेषां श्रावणं कृतम् ? तत्र न तावत् प्रथमः पक्षस्तकेसहः, ईश्वरस्य
पत्रमस्यादिरहितत्वेन हस्तपादादिशून्यत्वेन च लेखनासम्भवात् । न
द्वितीयः, तस्याशरीरित्वेन वर्णोच्चारणोपयोगिकण्ठताल्र्वाादिरहितत्वात् ।
तत् कथं परमेश्वरे वेदानां रचना कृतेति नो जानोमहे वयम्, इति ।
तन्न; पूर्वमीमांसकरीत्या वेदानां नित्यत्वेन रचनानपेक्षत्वात् ।
तन्मतरीत्या वेदानां वर्णाः पदानि वाक्यानि च नित्यान्येव । उत्तरमी-
मांसकानां रीत्या वर्णाः प्रलयपर्यन्तावस्थायित्वेन नित्याः । पौर्वापर्य-
भाञ्जि पदानि वाक्यानि च तथाविधान्येव । सृष्ट्यारम्भे तु

Page 201Permalink

३७६ वेदस्वरूप विमर्श
परमेश्वरेण तानि पूर्वपूर्वसर्गानुपूर्वीसापेक्षतया आविर्भाव्यन्ते ।
नैयायिकादितीत्या तु वर्णादीनामनित्यत्वेऽपि पूर्वपूर्वकल्पीयानुपूर्वी-
सव्यपेक्षतयैव ईश्वरेण तानि निर्मियन्ते ।
न चेश्वरस्य कण्ठतालवाद्यभावेन वर्णवाक्याद्युच्चारणमसम्भवदु-
क्तिकामिति वाच्यम् ; लीलया परमेश्वरस्य विग्रहवत्त्वोपपत्त्या तदुपपत्तेः।
यथा वा श्रोत्रपादादिरहितस्य श्रवणगमनादिकं तत्तच्छक्तिमत्वेन
ईश्वरस्योपपद्यते, तथैवोच्चारणमपि नासम्भावि । 'अपाणिपादो जवनो
गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' इत्यादि श्रुतेः । अन्यथा निविग्रहस्य
शरीरादिविचित्रप्रपञ्चनिर्मातृत्वमपि शङ्कनीयं स्यात् ।
यत्तूक्तं निपुणोऽपि पुरुषः स्वस्कन्धारोहणेऽसमर्थः, तथैव वेदाना-
मीश्वररचितत्वे वेदः स्वयं प्रमाणं भवितुं नार्हति' इति ।
तत्तच्छम् ; स्वपरप्रकाशकानां सूर्यादिभावानां बहुलमुपलब्धेः ।
यत्तु “वेदानाम्पौरुषेयत्वं सिषाधयिषता सायणाचार्येण स्वरचिता-
याम् 'ऋग्वेदभाष्यभूमिकायां, तेषां पौरुषेयत्वखण्डने स्वीया समस्ता
प्रतिभा प्रदर्शिता । परं नासौ वेदानां पौरुषेयत्वं प्रत्याख्यातुं सम-
र्थोऽभूत् । पूर्वपक्षोत्थापितस्य 'अनित्यदर्शनाच्च' (जै० १।१।२८)
इत्यस्य तर्कस्य सायणाचार्येण कृतं खण्डनं सर्वथैव असन्तोषास्पदम् ।
वेदेष्वनित्यानां पदार्थानां दर्शनान्न तेषां नित्यत्वमभ्युपगन्तुं शक्यते
इति पूर्वपक्षाभिप्रायः । अस्य खण्डनं चिकीर्षता सायणाचार्येण प्रतिपादितं
यद् वेदेष्वनित्यानां पदार्थानां वर्णनं न क्वचिदप्युपलभ्यते । यत्र चानित्य-
द्रव्याणां वर्णनं प्रतिभाति, तत्रान्य एव कश्चन गूढार्थोऽनुसन्धेयः ।
तथथा-'बबरः प्रवाहे ष्कारामयत्' इत्यत्र प्रवहणपुत्रस्य बबर नामकस्य
पुरुषस्य वर्णनं प्रतीयते परं विचारप्रहितचेतसा विज्ञायतेऽस्माभिर्यदत्र
बबरध्वनियुक्तस्य प्रकर्षेण वहनशीलस्य वायोरेव वर्णनम् न तु कस्यचित्
पुरुषस्येति ।
किन्तु सायणाचार्यप्रदर्शितयं व्याख्याप्रणाली न विदुषां सन्तोषकारिणी ।
स्वयं सायणाचार्येणाप्येषा प्रणाली मन्त्राणां व्याख्यानावसरेऽनेकशो गत्य-
भावादुपेक्षिता । तथथा-ऋग्वेदस्य प्रथममण्डले 'सोमानं स्वरणं कृणुहि


वेदपौरुषेयत्व-विमर्शः ३७७
ब्रह्मणस्पते । कक्षोवन्तं य औशिजः' (ऋ० सं० १ अ० ५ सूक्तम् १८)
अस्य मन्त्रस्य व्याख्यानावसरे उशिक्-पुत्रस्य कक्षीवन्नामकस्य
ऋषेर्वर्णनं स्वीकृतं सायणाचार्येण । किञ्च ऋग्वेदस्य तृतीयमण्डले
कीकटनाम्नो जनपदस्य, प्रमगन्दनाम्नो राज्ञः, नैचाशाखनाम्नो नगरस्य
च वर्णनमभ्युपगतम् । अत्र प्रमगन्दस्य, कीकटस्य, नैचाशाखस्य च
किं तात्पर्यं ग्रहीतव्यमिति तु न प्रदर्शितं तेन विद्वद्वरेण ।
एवमुच्चावचैरभिप्रायैर्मन्त्रदृष्टयो भवन्ति' (नि० ७।३) 'हर्षशोक-
निन्दाप्रशंसादिना मन्त्राणां द्रष्टारोभ वन्ति' ( इति तत्रैव व्याख्याने
दुर्गाचार्यः) । तास्त्रिविधाः परोक्षकृताः, प्रत्यक्षकृताः, आध्यात्मिक्य-
श्चेति । परोक्षकृता ऋचः सर्वाभिर्नामविभक्तिभिः प्रयुज्यन्ते, प्रथम-
पुरुषैश्चाख्यातस्य । यथा-'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रमिद्गा-
धिनो' इति ।
त्वमिति चैतेन सर्वनाम्ना 'त्वमिन्द्र वलादधि विन इन्द्र मृधौ जहि,
कुसिकाश्चेतयध्वम्' । शपथाभिशापयोरुदाहरणम्-'अद्यामुरोय यदि यातु
धानो अस्मि (ऋ० सं० ७।१०४।१५) राक्षस इत्यभियुक्तः। सोऽनया
ऋचा शपं प्रतिपेदे । परश्चाभिशापात् । अथापि परिदेवना-'सुदेवो
अद्य प्रपतेदमावृत् परावतं परमां गन्तवा उ । अधाशयीत निर्ऋते
रुपस्थेऽधैनं वृका रभसासो अद्युः ॥” (ऋ० सं० १०।९५।१४)
पुरूरवस आर्षम् ।
निन्दा-'मोघमन्नं विन्दते' (ऋ० सं० १०।११७।६)
प्रशंसा-'भोजाद्याश्वं सम्मृजन्त्याशु' भोजायास्ते कन्या शुम्भ-
माना । भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देव माने व चित्रम् ।।
(ऋ० सं० १०।१०७।१०) द्यूतनिन्दा कृषिशंसा-'अक्षैर्मादीव्यः
कृषिमित्कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तत्र जाया
तन्मे विचष्टे सविताय मर्यः ॥' (ऋ० सं० १०।३४।१३)
अत्र सर्वत्रेतिहासस्य वक्तृविशेषस्य च प्रतीयमानेत्वेऽपि सुखाव-
बोधार्थारख्यायिका रूपत्वेन नेतिहासत्वं न वा पुरुषविशेषवक्तृत्वम्
किन्तु तत्तद्रूपधारिण्याः श्रुतेरेव वक्तृत्वम् ।

Page 202Permalink

[पृष्ठ ३७८]

'त्रितं कूपेऽवहितमेतत्सूक्तं प्रतिबभौ' (नि० ४।६) तच्च सूक्तम्—
'इषिरेण ते मनसा सुतस्य भक्षीमहि पित्यस्येव रायः।' (ऋ० सं०
८।४८।७)
'रमध्वं मे वचसे सोम्याय ऋतावरी रूपमुहूर्त्तमेवैः । प्रसिन्धु-
मच्छा बृहतीमनीषा वस्युरह्ने कुशिकस्य सूनुः ।। (ऋ० सं० ३।३३। )
लिङ्गानुसरेणास्य सूक्तस्य नदीस्तुतौ विनियोगः । कुशिकसूनोः प्रथित-
प्रभावस्य वक्तृत्वे नापि स्तुतिगौरवबोधन एव तात्पर्यम्, रामस्येश्वर-
त्वकथनेन रामेश्वरशिवमाहात्म्यप्रख्यानवत्, कुशिकसूनुकर्तृकत्वा-
त्स्तुतेर्वाशिष्टयम् । न च व्यक्तिविशेषाभावे तद्वैशिष्टयमेव कुतः-
सिद्धयेत् ? व्यक्तिमत्त्वे चेतिहाससिद्धिरिति वाच्यम्, मीमांसकानां जातौ
शक्त्यङ्गीकारेण कल्पभेदेन व्यक्तिभेदमङ्गीकृत्य कौशिकत्ववसिष्ठत्वादि-
जातिमाश्रित्य सेनापतिप्राड्विवाकादिवत् वसिष्ठादिवद्विशेषाम्युप-
गमेन वा व्यक्तिविशेषतद्विशेषयोरेवाङ्गीकारेऽपि शब्दार्थसम्बन्ध-
स्यौत्पत्तिकत्वोपपत्त्या पौरुषेयत्वानोपत्तेः ।
न च केवलमेतेषामेव परन्त्वनेकेषां पुरुषाणामृषीणां जनपदानां
नगराणां पर्वतानां नदीनाञ्च वर्णनं वेदेषु बहुशः समुपलभ्यते ।
तद्यथा— 'अग्नि पूर्वेभिऋषिभिरीड्यो नूतनैरुत' (ऋ० १।१।२)
इत्येष मन्त्रः पूर्वान्नूतनान् च ऋषीन् वर्णयति । कण्वः कक्षीवान्त्सुमीढो
अगस्त्यः' (अथ० १८।३।१५) इत्यस्मिन् मन्त्रे कण्वस्य, विश्वामित्रस्य,
वसिष्ठस्य, भरद्वाजस्य, कश्यपस्य, वामदेवस्य, गोतमस्य ऋषेर्नामानि
श्रूयन्ते । यजुर्वेदस्य पञ्चमाध्याये उर्वश्यास्यायुरसि पुरूरवा असि (यजु०
५।२) इत्यत्र उर्वश्या पुरूरवसश्च वर्णनमुपलभ्यते । अम्बे अम्बिके
ऽम्बालिके न मां नयति कश्चन (यजु० २३।१८) इत्यत्र अम्बादीनां
महाभारतोपवर्णितानां कन्यकानां नामानि दृश्यन्ते । एवमेव नहुषस्य
ययातेस्तस्य यदु-तुरु-द्रुह्यादीनां पञ्चपुत्राणां च वर्णनं यदिन्द्राग्नीयदधु
तुर्वशेषु यद् द्रुह्येष्वनुषु पूरुषु स्थ (ऋ० १।१०८।८) इत्यत्र समुपलभ्यते ।
ऋग्वेदस्य दशममण्डले शन्तनोः देवापेश्च वर्णनं निरुक्तकारेण
यास्कमुनिनापि स्वीकृतम् (नि अ० २, पा० ३) । तस्मिन्नेव मण्डले


[पृष्ठ ३]

इमं मे गङ्गे यमुने सरस्वति (ऋ० १०।७५।५) इत्यत्र गङ्गादीनां
सप्तसिन्धूनामपि वर्णनमुपलभ्यते ।
एवं सत्यप्येतेष्वनेकेषु वर्णनेषु को नाम मेधावी वेदेष्वनित्यद्रव्या-
णां वर्णनं नानुमन्येत । यद्यपि कैश्चित् विद्वद्भिर्वेदेषूपलभ्यमानानां
गङ्गादिपदानां व्याख्यानमन्यरूपेणैव क्रियते । परमेतादृशं व्याख्यानं
न विदुषां बुद्धिसन्तोषं जनयति" इति ।
तन्न; तस्यानेकधा शक्यसमर्थनत्वात् । तथा हि उर्वश्यादिशब्दाः
जातिवाचकाः, उर्वश्यादिपदार्थानामनित्यत्वेऽपि तत्सजातीनां नित्यत्वेन
नित्येषु वेदेषु तद्वर्णनं सङ्गच्छते एव । अत एव । औत्पत्तिकस्तु शब्दस्या-
र्येन सम्बन्ध' इत्यादि सूत्रं सङ्गच्छते । सेनापत्यादिशब्दवत् स्थानवाचका
वा वैदिका शब्दाः । स्थानानि च प्रवाहरूपेण नित्यान्येव । घटनास्तु
सुखबोधार्था आख्यायिका रूपा एव । न तु वृत्तमात्रपर्यवसायिन्यः
निष्फलत्वात् । फलवन्निश्चितार्थविबोधकत्वेनैव वेदानां प्रामाण्याभ्युपग-
मात् तेनानित्यपदार्थवर्णनं स्वार्थपर्यवसायित्वेन वेदेषु नास्त्येवेति
सायणमतं सम्यगेव, 'यत्परः शब्दः स शब्दार्थः' इति शास्त्रतात्पर्यविदां
डिण्डिमघोषात् ।
आख्यायिकारूपाणां मन्त्राणां ब्राह्मणानाञ्च आख्यायिकारूपार्थ-
वर्णने अवान्तरतात्पर्याभ्युपगमेऽपि कैमर्थ्यापेक्षायां विधिनिषेधाद्यङ्गत्वेन
स्तुतिनिन्दारूपेऽर्थे एव पर्यवसानम् । अत एव शब्द इति चेन्नातः
प्रभवात् प्रत्यक्षानुमानाभ्याम् 'अत एव च नित्यत्वम्' इत्यादिभिः सूत्रैः
बादरायणेनायमेवार्थः समर्थितः । तत्तत्कथार्थीनां मन्त्रार्थवादानां
प्रमाणान्तरविरुद्धेऽर्थे गुणवादत्वं प्रमाणान्तरसिद्धेऽर्थेऽनुवादत्वम् तद-
विरुद्धे तदसिद्धे वार्थे भूतार्थवादत्वमभ्युपगतम् । सर्वत्र च एषु पक्षेषु
वेदापौरुषेयत्वनित्यत्वादिकमक्षुण्णमेव । अनित्यार्थवर्णने तात्पर्या-
भावस्य समत्वात् ।
'अकारि त इन्द्र गोतमेभिः (ऋ० सं० १।६३।९) इति मन्त्रस्यापि
मरुत्वतीयशस्त्रे विनियोगात् स्तुतावेव तात्पर्यम् । अत्रापि गोतम-
गोत्रोत्पन्नैर्ऋषिभिः सम्बन्धश्च स्तुतेर्माहात्म्यबोधः । नात्रापि नाम-

Page 203Permalink

Here is the line-by-line transcription of both pages from the image:

[पृष्ठ १८०]

निर्देशेन पौरुषेयत्वं शक्यसमर्थनं' वेदशब्दानां घटनापूर्वकत्वाभावेऽपि
घटनानां वेदपूर्वकत्वं तु न विरुद्धम् । तेन वैदिकशब्दानुसारेण
क्वचित्कल्पे प्रतिकल्पं वा गोतमस्य तद्गोत्रोत्पन्नानामृषीणां तद्विशिष्टस्य
सत्त्वेऽपि न दोषः । तच्चोक्तमेव 'शब्दानुसारिण्यो भवन्त्यस्तु घटना
न वार्यन्ते ।' तेनैव तदंश इति वृत्ताभ्युपगमेऽपि न दोषः । अपौरुषेय-
त्वस्याव्याहतत्वात् । एवमेव परुच्छेपपुत्रेणानानतेन दृष्टस्य 'कारुरहं
ततो भिषक्' (ऋ० सं० ९।११२।३ इत्यादि मन्त्रस्य सोमश्च्योतनाङ्ग-
त्वेन तत्रैव विनियोगात् न स्वार्थे तात्पर्यम् । 'यत्परः शब्दः स शब्दार्थ'
इति न्यायात् । अत्र स्तोमानां कर्ता कारुः, तस्य पुत्रस्तु यज्ञस्य श्रद्धा

Page 204Permalink

३८२ वेदस्वरूप-विमर्श

पेयत्वं साधयितुं प्रदर्शितस्य हेतोः साध्यसमहेत्वाभासरूपत्वान्न साध्य-
-साधने शक्तिः ।'
तदपि तुच्छम्; सूत्रभाष्यादि-तात्पर्याऽनभिज्ञानात् । तथा हि
सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वेन सिद्धस्यैव अपौ-
रुषेयत्वस्य उपोद्वलनायैव एतदुक्तिः । अपूर्वसाध्यसाधनभावबोध-
कत्वेनापि तदुपोद्वलनम् ।
न च ज्योतिष्टोम-स्वर्गयोः साध्य-साधनभाव मनभ्युपगच्छतः
तदकिञ्चित्करमिति वाच्यम्; तदभ्युपगन्तॄन् प्रत्येव तत्साधनात्
अनेके पौरुषेयत्ववादिनः ज्योतिष्टोमस्वर्गयोः साध्यसाधनभावमभ्यु-
पगच्छन्ति अपौरुषेयत्वं ईश्वरकर्तृकत्वं च वेदानां नाभ्युपगच्छन्ति तान्
प्रति ज्योतिष्टोमस्वर्गयोः साध्यसाधनज्ञानपूर्वकः विनियोगो न
[

Page 205Permalink

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:


[बायाँ पृष्ठ]

३८४ वेदस्वरूप-विमर्श
सम्बन्धग्रहमन्तरा शाब्दबोधः । यथा--धूम-धूमध्वजयोः सम्बन्धे स्वा-
भाविके सत्यपि व्याप्तिज्ञानमन्तरा न धूमेन धूमध्वजावबोधः तथैव
सम्बन्धग्रहमन्तरा पित्रादिशब्दैः तदर्थावगमोऽपि न भवतीति युक्तमेव ।
गौतमवात्स्यायनादयस्तु वेदपौरुषेयत्ववादिनः न शब्दनित्यत्वमपि
अभ्युपगच्छन्ति कुतस्तरां सम्बन्धनित्यत्वम् ? पूर्वोत्तरमीमांसकास्तु
वर्णपदयोरिव वेदवाक्यानामपि नित्यत्वमभ्युपगच्छन्ति सुतरां तन्मत-
रीत्या सम्बन्धनित्यत्वमपि सम्भवत्येव । अर्थव्यक्तीनामनित्यत्वेऽपि
तत्तज्जातीनां नित्यत्वेन तन्निर्वाहात् । तथापि गौतमादीनां वेदानामी-
श्वरकर्तृकत्वमभिमतमेव । उदयनाचार्याः न्यायमञ्जरीकाराश्च वेदाना-
[L

Page 206Permalink

३८६ वेदपौरुषेयत्वविमर्शः
किन्तु असाधव एव वाचकाः। साधवश्चासाधुस्मरणद्वारा बोधका-
इति मतिर्भवति ।
पुरा यथा अनृतादिभिरसङ्कीर्णा वागासीत् । तथा सर्वैरपभ्रंशैर-
सङ्कीर्णा पश्चात् अनृतादिभिरिवापभ्रंशैरपि सङ्कीर्णा जाता । तत एव
व्यवकीर्णा दैवीवाक् अपभ्रंशपङ्कमलिनीकृता । अनित्यदर्शिनामत्र बुद्धि-
विपर्ययो जातः साधूनां धर्महेतुत्वमजानताम् । ते तु मल्लसमयादि
सदृशीं साधुव्यवस्थां मन्यन्ते । ते साधूनां शब्दानां समूहं प्राकृतं
प्रकृतौ भवमाचक्षते । विकारश्च पश्चात् सम्भिन्नबुद्धिभिः पुरुषैः
स्वरसंस्कारादिभिर्निर्णयते । परन्तु येषां पुरा कल्पो नास्ति न वा दैवी
वागसङ्कीर्णासीत् तेषामपि गम्यागम्यादिकल्पव्यवस्थावत् साध्वसाधुव्य-
वस्था शिष्टैरविच्छेदेन स्मर्यते ।

Page 207Permalink

३८८ वेदार्थपारिजातविमर्शः
तस्या नित्यत्वेन सर्वदा सत्त्वेऽपि न सर्वदार्थबोधापत्तिः, वर्णो-
च्चारणेनाभिव्यक्ताया एवार्थबोधजनकत्वात् । अयमेव जातिस्फोट-
वादोऽपि । 'अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृतः।'
यथा 'अयं घटः', 'अयं घटः', इत्यनुगतप्रतीत्या घटत्वं जातिरङ्गीक्रियते
तथैव शुक-सारिका-मनुष्यादि-प्रयुक्तेषु प्रतीयमानवैलक्षण्येषु भिन्नेषु
घटशब्देषु 'अयं घटशब्द' इत्यनुगतप्रतीत्या घटशब्दत्वं जातिरिति
स्वीक्रियते ।
ननु घटशब्दे गुणत्व-शब्दत्व-घटशब्दत्व-जातीनां सत्त्वात् घटशब्दत्वे
कथं शक्त्याश्रयत्वमिति चेन्न, घटे द्रव्यत्व-पृथिवीत्व-घटत्व-जातीनां
सत्त्वेऽपि घटत्वस्यैव शक्तत्ववत् घटशब्दत्वस्यैव शक्तत्वव्यवस्थापनात् ।
यद्यपि घटावयवैर्घटावयविद्रव्यवत् क्रमजन्मवद्भिः क्षणिकैर्युग-
पत्कालैर्वर्णैरवयवैरवयवस्थितैर्व्यवस्थितं शब्दान्तरं नारब्धुं शक्यमिति घट-
त्वजातेः क आश्रयः स्यात् ? न च शब्दत्वजातिवत् घटशब्दत्वजातिः
प्रत्येकवर्णपरिसमाप्ता, तथात्वे घकारादिष्वव्युच्चारितेषु घटशब्दत्व-
प्रतीत्यापत्तेः, द्वितीयादिवर्णवैयर्थ्यापत्तेश्च । तथापि कर्मत्वजात्युपलक्ष्कि-
तेषु क्रमविशेषयुक्तेषु पूर्वापरोद्भूतेषु कर्मसु भ्रमणत्वोत्क्षेपणादि-
जातिवत् घटशब्दत्वजातिः सिद्ध्येव । यद्यपि तत्रापि पूर्वं कर्म, ततो
विभागः, ततः पूर्वसंयोगनाशः, तत उत्तरसंयोगः, ततः कर्मनाशः, ततः
कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मणि संयोगः, ततः कर्मनाशः,
ततः कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मण्यविनष्टे सति न कर्मान्तरम्
कर्मणोः सहानवस्थानात् । अतः कर्मान्तरसहितैः कर्मविशेषैरवयविस्था-
नीयं कर्मान्तरं नारब्धुं शक्यमिति क्व भ्रमणत्वादि जातिः स्यात् ? तथापि
उत्क्षिपति, भ्रमतीति भिन्नप्रत्ययभ्रमाजनककर्माणि उत्क्षेपणकर्मापेक्षया
वैलक्षण्यदर्शनात् भिन्नानि कर्माणि प्रत्यवयवं भ्रमणत्वाश्रयत्वं प्रति-
पद्यमानान्यपि प्रत्येकं कर्मदर्शनवेलायामुत्क्षेपणत्वाश्रयकर्मपेक्षया भेदम-
प्रतिपद्यमानान्यपि इदं कर्मोत्क्षेपणत्वाभिव्यञ्जकं भ्रमणत्वाभिव्यञ्जकं
वेति निर्धारयितुमशक्यत्वेऽपि यद्देशविशेपे संयोगविशेषान् जनयन्ति,
अपेक्षाबुद्ध्या विषयीकृतानि क्रमानुवृत्तिं जनयन्तो दृश्यन्ते । तथा


वेदस्वरूप-विमर्षे ३८९
पूर्वपूर्वकर्मप्रत्यक्षाहितसंस्कारसहितेन चरमकर्मप्रत्यक्षेण भ्रमणत्व-
मुत्क्षेपणत्वं वा जातिरभिव्यज्यते इति वैशेषिकाभ्युपगमः । तथैव
घकारादयो घटशब्दस्याश्रयत्वं प्रतिपद्यमाना घन-घटक-बकाराद् भेदम्-
प्रतिपद्यमाना घटशब्दत्वमनभिव्यञ्जयन्तोऽपि तदुत्तरोत्तरवर्णोपलम्भेन
अपेक्षाबुद्ध्या विषयीकृताः क्रमानुवृत्तिं जनयन्ति तदा पूर्वपूर्ववर्णप्रत्यक्षा-
हितसंस्कारसहितेन चरमवर्णप्रत्यक्षेण पूर्वमगृहीता व्यक्तं गृहीता
घटशब्दत्वरूपा जातिः संस्कृते अन्तःकरणे व्यज्यते ।
तदेवाह्तं श्लोकवार्तिके—
'कण्ठताल्वादिसंयोगविभागक्रमपूर्वकम् ।
ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता ॥
यथैव भ्रमणादीनां भागैर्जात्या च लक्षितैः ।
क्रमानुवृत्तिरेवं स्यात्ताल्वादिक्कनिभर्णभाक् ॥'
वाक्यपदीयरीत्यापि शब्दार्थसम्बन्धानां नित्यतैव—
'नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुमन्त्राणां भाष्याणाञ्च प्रणेतृभिः ॥'
(वा० प० ब्र० का० २३)
तत्र केषाञ्चिद्ररीत्या आकृतिनित्यत्वान्नित्यः शब्दः । आकृतिप्र-
युक्तञ्चेदं शास्त्रम् । आकृतिरत्र जातिर्नावयवसन्रिवेशविशेषः । तन्मते
शब्दस्य गुणत्वेन निरवयवत्वात् ।
शब्दार्थसम्बन्धानामनित्यत्वे पुरुषाणां स्वातन्त्र्ये शब्दार्थ-
सम्बन्धाः स्वेच्छयाऽन्यथापि कृता भवेयुः । तस्मात्—
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥
यथा अर्थजातयः घटत्वादयः शब्दजातिबोध्याः । यथा वा अर्थ-
जातीनां शक्यत्वम् शब्दजातीनाञ्च शक्तत्वम् इति ।
केचित्तु अनेकव्यक्त्विन्यङ्ग्यां नित्यां शब्दव्यक्तिं मन्यन्ते । शब्द-
व्यक्तिगतस्तु कैश्चिद्वर्णभेदोऽभ्युपगम्यते ।
जातेर्नित्यत्वेन तदाश्रये शब्देऽपि नित्यत्वव्यवहारः । तदुक्तम्—
'आकृतिनित्यत्वान्नित्यः शब्दः' । नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णै-
र्भवितव्यम् ।

Page 208Permalink

[वाम पृष्ठ]

वेदपौरुषेयत्वविमर्शः
'सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥'
शब्दानित्यत्ववादिमतेऽपि अनादिवृद्धव्यवहारपारम्पर्याविच्छेदेन
शब्दव्यवहारस्य व्यवस्थितत्वात् शब्दानां नित्यत्वम् ।
न्यायवार्तिककारा अपि नित्या वर्णा नित्या वेदा इति च सम्प्रदाया-
विच्छेदात् नित्या पृथिवी, नित्याः पर्वताः इतिवत् । घटशब्दत्वादिजात-
योश्च टत्वाद्यर्थानां बोधकाः ।
अन्येषां रीत्या नष्टविद्यमानयोरव्यवहितोत्तरत्वस्य वक्तुमशक्य-
त्वेन पूर्वापरीभावरूपक्रमविशेषस्य ज्ञानासम्भव इति पूर्वोक्तरीत्या
अन्त्यवर्णानुभवोद्बुद्धसंस्कारेण युगपत्संस्कारोद्बोध इति नियमाभावेन
विपरीतक्रमेण संस्कारोद्बोधे सरो रसः, नदी दीन इति विपरीत-
क्रमापत्तौ प्रत्येकमन्वयार्थबोधापत्तेः । तस्मादनेकध्वनिव्यङ्ग्या

Page 209Permalink

३९२ वेदस्वरूपविमर्शः
'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते
शब्देनैवार्थोऽभिधेयो नापशब्देन, एवं क्रियमाणमभ्युदयकारिभवतीति ।
महाभाष्ये च आगमात् व्याकरणात् सिद्धाः साधवः शब्दाः धर्मसाधनम्,
विपरीतास्त्वनिष्टसाधनम् । 'तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः,
तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः,
इति श्रुत्या असाधूनां शब्दाना मधर्म साधनत्वबोधनात् आगमविहितेषु
यागादिषु निषिद्धेषु हिंसावृतवदनादिषु धर्माधर्मसाधनत्वस्याविप्रतिपन्न-
त्वात् ।
शब्दकृतकत्वपक्षेऽपि अनादौ संसारे अप्रवृत्तशब्दव्यवहारस्य
कालस्यासत्त्वान् प्रवाह्नित्यता भवत्येव । यथा मीमांसकरीत्या अर्कः,
अश्वः, अर्थः, आदौ पदभेदेऽपि अवर्ण

Page 210Permalink

line 21:
Line 20: '...धर्माय भवति । यथार्थानृत'
Wait, line 20 end has: 'यथार्थानृत' - wait, is there a hyphen? It's just 'यथार्थानृत'.
Line 21: 'मन्यथाऽवस्थितस्यान्यथावचनम् प्रत्यवायाय तथा शब्दानृतमरूपं वाच-')
Wait, let's look at line 21:
'मन्यथाऽवस्थितस्यान्यथावचनम्'?
Look at the characters:
'म' 'न्य' 'था' 'व' 'स्थि' 'त' 'स्या' 'न्य' 'था' 'व' 'च' 'न' 'म्'
There is an avagraha? 'मन्यथाऽवस्थित...' or 'मन्यथावस्थित...'?
Looks like 'मन्यथाऽवस्थितस्यान्यथावचनम्'.
Wait, before it: 'यथार्थानृत'? No, 'यथा ह्यनृत-'?
Look at line 20 end:
य - थ - ा - र्था - नृ - त:
Is that 'यथार्थानृत'? Or 'यथा ह्यनृत-'?
Let's zoom in on line 20 end:
'य' 'था' 'र्था' - wait, is there a repha?
'यथा ह्य

Page 211Permalink

३९६ वेदार्थपारिजातविमर्शः
सम्भवेऽपि वाचकाशक्तिततया मूलशब्दापस्थापनेन प्रत्यायकत्वोपपत्तेः,
तज्ज्ञानात्तु श‍ृण्वन्तो बालाः साधारणश्च तत्रैव संज्ञासञ्जिसम्बन्धं शिक्षित्वा
स्वयं व्यवहरन्ति । तेभ्यश्च शिक्षित्वाऽन्येपीत्येवमपि प्रयोगप्रत्ययोप-
पत्तौ नैकान्ततः सर्वेषामप्यविच्छिन्नपारम्पर्यवाचकत्वनिर्णयः सम्भ-
वति । तत एवानेकशब्दत्वमेकस्यार्थस्यानभ्युपगन्तुं युक्तम्, अनेकशक्ति-
कल्पनाप्रसङ्गात् । गोशब्देन सास्नादिमानभिधीयते इत्यातवक्यात्
वाचकत्वप्रग्रहदशायामभिधानक्रियामभिधानक्रिया द्वारा तत्कर्मकरणयो-
र्वाच्यवाचकयोरर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति अनेन
न्यायेन नियमरूपः सम्बन्धोऽवगतः ।
ततश्च गाव्यादेरपि सास्नादिमदर्थवाचकत्वस्वीकारे सास्नादिमत्क-
र्मकाभिधानक्रियायां गोशब्द एव करणमिति नियमस्य व्युत्पत्तिकालो-
वगतस्य बाधः स्यात् । तस्मादेकैकस्य वाचकत्वमितरे त्वशक्तित्जा इत्येव
न्याय्यम् ।
कर-हस्त-पाण्यादिषु तु विशेषानवधारणादनेकशब्दता गत्यन्तराभावा-
दूरीक्रियते । गाव्यादिषु तु शिष्टस्मरणाभावान्न तथेति न सर्वेषां वाचक-
त्वम् । वाचकरूपनियमॆऽपि स्मृतेः स्मृत्यन्तरमेव मूलम् तस्याप्यन्यदित्य-
नादिरेवैषा स्मृतिपरम्परा ।
न चेयमन्धपरम्परा शब्दस्वरूपशब्दान्तराद्विविक्तस्य प्रत्यक्षत्वात् ।
सर्वो हि स्वे काले गवादिंशब्दान् प्रत्यक्षत उपलभन्ते। वृद्धेभ्यः श्रुत्वाऽतीत-
कालेऽपि सत्तामवधारयन्ति ।
सर्वकालमपि केचन वृद्धाः सन्ति, तत्प्रत्यक्षसम्भवान्न कदाचिदपि-
प्रत्यक्षविच्छेदः । सर्वकालवर्तित्वमेवानादित्वं साधुत्वञ्च । तथा च
तत्तत्कालिकवृद्धप्रत्यक्षसश्राचीनया शिष्यस्मरणपरम्परया सास्नादि-
मदर्थेषु गवादिंशब्दानांमनादिवाचकत्वरूपं साधुत्वं स्वध्यवसानम् ।
न चैतत्सर्वं गाव्यादिष्वपि सम्भवति, तत्र प्रत्यक्षपरम्परायाः कथ-
ञ्चित् सम्भावितत्वेऽपि तन्मात्रेण साधुत्वानिश्चयात्, अशक्तिजत्वस्यापि
सम्भवाच्च ।

वेदस्वरूप-विमशॆ ३९७
शिष्टस्मरणाभावान्न गाव्यादिषु अनादित्वनिश्चय इति न साम्यम् ।
न च विगानादप्रामाण्यम्, श्रुतीनामपि ग्रहणामग्रहणादिविगानदर्शनात् ।
नापि निष्फलत्वं व्याकरणशास्त्रस्य, धर्माधर्मप्रतिपत्तिपरिहारार्थं तदुपादान-
हानोपयोगिशब्दापशब्दविभागज्ञानस्वरूपफलस्य सत्त्वात् । रक्षोहादेश्च
वेदविरुद्धस्य सर्ववेष्टनस्मरणाद्येवाप्रामाण्येऽपि न सर्वस्याप्रामाण्यं,
अप्रामाण्यहेत्वभावात् । 'प्रयोगोत्पत्त्यशास्त्रत्वात् शब्देषु न व्यवस्थास्या-
त्, (१।३।२४) शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्, ( १।३।२५ )
अन्यायाश्चानेकशब्दत्वम्, ( १।३ २६ ) तत्र तत्त्वमभियोगविशेषात् स्यात्
१।३।२७ तदशक्तिश्चानुरूपत्वात्, (१।३।२९) एकदेशत्वाच्च विभक्ति-
व्यत्यये स्यात्, (१।३।२९) यत्त्वार्य-म्लेच्छयोरभिधानविपत्तिर्यथा पीलु-
शब्दमार्यावृक्षविशेषे म्लेच्छास्तु हस्तिनि प्रयुञ्जते, तत्रोभयोरपि शब्दार्थ-
योर्लोके प्रसिद्धिगम्यत्वात् तुल्यबलत्वं प्राप्यते । यद्यार्येषु अबंध्यस्मरणमना-
दित्वकारणं तदपि समानं म्लेच्छेषु इति पूर्वः पक्षः। सिद्धान्तस्तु प्रातिपदि-
कतामात्रं म्लेच्छेष्वप्यवगम्यते । अविप्लुतशब्दस्त्वार्थेष्वेवावधार्यते ।
न चोभावपि शब्दार्थौ, अनेकादृष्टशक्ति कल्पनाप्रसङ्गात् । शब्दप्रयोगो-
प्यन्यतरस्यानवगणात्, व्यवहारानुपपत्त्या कदाचित्कस्यचिदुपादाने
विकल्पापत्तिश्च स्यात् । तेनैकत्र मुख्यत्वेनान्यत्र गौणत्वेनापि प्रयोगोप-
पत्तिः । गौणत्वेऽपि पार्श्वस्थानां मुख्याभिमानसम्भवात् । तैरेव चान्येभ्यो
मुख्यत्वस्य कथनात् मुख्याभिधानपरम्परानुवृत्तिस्सम्भवात् । यदि
विशेषोनावधार्येत तदा गत्यभावाद् द्वयोरभिधेयता अस्ति तु विशेषः।
शास्त्रज्ञा हि शब्दैङ्गम्यमधर्माधर्माविप्लुतलिप्सया शब्दार्थतत्त्वं
विविच्य पालयन्ति । म्लेच्छास्तु दृष्टार्थव्यवहारस्य यथाकथञ्चित्
सिद्धेः प्रयोजनाभावात् नाविप्लुतितिसिद्धौ यतन्ते । अतः प्रतिपादकतामात्रं
यद्यपि म्लेच्छेष्वपि सिद्धयति तथापि विप्लुतित्सम्भवान्न तेषु शब्दार्थत
स्वासिद्धिरिति निर्दोषार्यप्रसिद्धयै वार्थसिद्धिरिति पील्वादिशब्द
वृक्षार्थमभिधायिनः ।
आर्यप्रसिद्धिविरोधे म्लेच्छप्रसिद्धेरप्रामाण्येऽपि अविरोधे तु तस्या
अपि भवत्येवार्थनिर्णये प्रामाण्यम् । पिक-नेम-सत-तामरसादिशब्दा

Page 212Permalink

": is it "मयूर"?
Wait, why would it be "कपोतादीनाम्"? Could it be "मयूरपक्ष..."?
Wait! Look at 'क': could it be 'पि'? No, look at the letter: 'क'. Then 'पो'?
Wait, could it be "मयूरकलापादीनामङ्गचन्द्रकादीनां"?
कलाप = peacock's tail!
Let's check "कलापादीनाम्":
क (ka)
ला (lā) - wait, does 'ला' look like that?
In Devanagari, 'ला' has a rounded left. But here it has a loop to the left and top stroke: that's 'पो'!
Wait, could it be "मयूरपोतानामङ्गचन्द्रकादीनां"?
What is "मयूरपोत"? Young peacock, peacock chick!
"मयूरपोतानाम्" - wait, is there 'दी'?
Let's look at the letters:
म-यू-र-
क-पो-ता-दी-ना-म-
Wait, why "मयूरकपोतादीनाम्"? A peacock and a pigeon/dove! Both are birds that hatch from eggs!
Wait, do pigeons have "अङ्ग" and peacocks have "चन्द्रका"?
"मयूरकपोतादीनामङ्गचन्द्रकादीनां सूक्ष्मरूपेणाण्डेषु रसेऽप्युपसंहारात्..."
Wait! Look at line 18

Page 213Permalink

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

[पृष्ठ ४००]

यथेन्द्रियस्यावेद्यत्वेऽपि विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयस्यैव विषय-
प्रतीतिजनकत्वं तथैव स्फोटोपलब्ध्यन्यथानुपपत्त्या कश्चिदत्यन्तापरो
क्षो ध्वनिरपि स्फोटाव्यञ्जको भविष्यति ।
अन्यैश्च-स्वतन्त्रः स्फोटासंपृक्तो ध्वनिर्गृह्यते इत्यभ्युपेयते । अव्य-
क्तानां ध्वनिरव गृह्यते, व्यक्तानां शब्दानान्तु ध्वनिः स्फोटश्चेत्युभय-
मपि गृह्यते ।
तत्रैकध्वनेर्व्यञ्जकत्वेऽन्यध्वनिवैयर्थ्यापत्या ध्वनिसमुदायस्यैव
व्यञ्जकत्वम्, क्षणिकपूर्वपूर्वध्वनिसंस्कारसचिवो नान्त्यध्वनिना स्फोटः
स्फुट्यते । न चैवं सरो रस इत्यविशेषः स्यादिति वाच्यम्, उपलब्धि-
क्रमारोपितक्रमवन्तो ध्वनयः पश्चाद् युगपन्मम्यमान अपि तत्क्रमेण स्मृताः
स्फोटमवबोधयन्ति । यथा ज्ञानस्य घटपटाद्युपाधिरेव भेदस्तथैव
स्फोटस्यापि व्यञ्जकध्वनिगतः क्रमविशेषोपाधिक एव भेदः । यथा
शतत्वादिसंख्यायाः अपेक्षाबुद्धिजन्यत्वेन एकत्वादिविग्रहणमुपायः,
तथैव वाक्यस्फोटप्रतिपत्तये देवदत्ताद्यवान्तरपदश्रवणमुपायः । यथा च
चरमैकत्वग्रहणे ततोऽन्यन्तविलक्षणायाः शतत्वादिसंख्याया बोधः
वर्णपदभिन्नत्वेऽपि तथैव अखण्डस्फोटस्य ग्रहणे वर्णादिग्रहणमुपायः ।
यथा वर्णपदवाक्यव्यञ्जका ध्वनयः प्रत्येकं भिन्नास्तथापि सादृश्या-
द्विन्नतयाऽप्रतीयमाना वर्णादीन् व्यञ्जयन्ति । वर्णाभिव्यञ्जकध्वनिसङ्घ-
शब्दभिव्यङ्ग्यत्वात्पदेषु वर्णाः पदाभिव्यञ्जकध्वन्यभिव्यङ्ग्यत्वात्
वाक्ये पदानि भासन्ते । परमार्थतो मिथ्याभूतान्यपि मासन्ते ।
ननु जन्यजनकयोरेव नियतत्वम् । तन्तुभिरेव पटः, कपालाभ्यामेव-
घटः, न व्यङ्ग्यव्यञ्जकयोः, घटव्यञ्जकेनापि दीपेन पटव्यक्तिक्षर्शनार्त् ।
नाप्यभिव्यङ्ग्यत्वेऽभिव्यञ्जकनियमः मणप्रदीपापिभिरपि घटाद्यभिव्यक्तेः ।
तथा च ध्वनिशब्दयोव्यङ्ग्यव्यञ्जकभावे कण्ठाभिघातजेन ध्वनिना
अकार एव, ताल्याभिघातजेन चकार एवेति नियमो न स्यात्
नियमस्य च दर्शनात् ध्वनिशब्दयोर्जन्यजनकभाव एव युक्तः । न व्यङ्ग्य-
व्यञ्जकभाव इति चेन्न, इन्द्रियविषययोरिव व्यङ्ग्याव्यञ्जकत्वेऽपि
ध्वनिस्र्फोटयोर्योग्यतान्नियमोपपत्तेः । यथा चक्षुषीरूपग्राहकता घ्राणे


[पृष्ठ ४०१]

गन्धग्राहकता, रूपे चक्षुर्ग्राह्यता, गन्धे घ्राणग्राह्यतेति जन्यजनकत्वा-
भावेऽपि योग्यतान्नियता । तथैव प्रकृतेपि तदुपपत्तेः ।
यदप्युक्तम्-घ्राण-श्रोत्रयोः स्वसजातीयद्रव्यमात्रसमवेतगुणग्राह-
कत्वम्, ततश्च रूप-रस-स्पर्शाः विसदृशेन्द्रियग्राह्याः, गन्धशब्दौ सह-
शेन्द्रियग्राह्यौ । तत्र यथा सहशेन्द्रियग्राह्ये गन्धेऽभिव्यञ्जकनियमो नास्ति,
तथैव तादृशे शब्देऽप्यभिव्यञ्जकनियमेन न भवितव्यम् । दृश्यते तु
नियमस्तस्माच्छब्दो न व्यङ्ग्यः किन्तुत्पाद्य एव । तदपि न; गन्धेऽपि
व्यञ्जकनियमदर्शनात् । यथाहि कुङ्कुमगन्धाभिव्यञ्जकं गोघृतं नियतं
तथैव शब्देपि नियमो युक्तः ।
ननु गन्ध-रस-रूप-स्पर्शेषु सहशेन्द्रियग्राह्यत्वेन अभिव्यञ्जकानां
संख्यावृद्धिह्रासांश्च अभिव्यङ्ग्योऽनुवर्तते । तैले श्यामं, जले गौरं, वज्र-
मणौ लघु, दर्पणे बृहत्, वङ्गे-दीर्घं, मुकुरे वर्तुलं च प्रतिबिम्बं दृश्यते,
तथैवाभिव्यञ्जकध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्ये शब्दे भेदो वृद्धिश्च भासते ।
वैशेषिकाणां रीत्या संयोगाद्विभागाच्छब्दाद्वा शब्दोत्पत्तिं वदन्ति ।
यथा वातेनैका वीचिस्तया तरङ्गात्तरं तेनान्यदिति पूर्वपूर्वतरङ्गेभ्य
उत्तरोत्तरतरङ्गाणामुत्पत्तिः । एवं भेरीदण्डसंयोगात् वेणुदलविभागाद्वा
शब्द आकाश उत्पद्यते । सचासमवायिकारणतया शब्दान्तरमारभते ।
तच्चान्यदिति परम्परया श्रोत्रपथमवतर्णी गृह्यते । भेरीशब्दो मया श्रुत
इत्यनुभवस्तु भ्रम एव ।
वैयाकरणास्तु-स्फोटस्य ग्रहणे प्राकृतध्वनिं हेतुमाहुः । वैकृतं ध्वनिं
वृत्तिभेदे हेतुमाहुः । तदुक्तम् संग्रहकारैः-
स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥'
यथा प्रकाश उद्यन्नेव घटादिभ्यो भिन्नं घटं प्रकाशयति पश्चात् प्रका-
शेन पुनः पुनर्द्दश्यमानोऽपि घटः, न पूर्वप्रकाशिताद्घटात् भेदमालम्बते
तथा प्राकृतध्वनिरेव भिन्नं स्फोटं व्यञ्जयति । अनन्तरं वैकृतध्वनिस्तु
पूर्वाभिव्यक्तस्यैव तावत्कालमुपलब्धे हेतुर्भवति,न पूर्वाभिव्यक्ताद् भिद्ये ।
वे० वि०-२६

Page 214Permalink

िरधिकदेशं व्याप्नोति।
Wait, "ध्वनिरधिकदेशं": look at 'नि' in "ध्वनिरधिकदेशं". There is a small ink smudge, but it's clearly ध्वनिरधिकदेशं.

अकारस्तु न भिद्यते।
द्रव्याभिघातात् ध्वनिकारणवायुसंयोगप्रचयात् दीर्घप्लुतयोः
प्रचयः। अधिककालं वादितायां घण्टायां कम्बोऽनुवर्तते। स्पन्दे उपरते
Wait, "कम्बोऽनुवर्तते" or "कम्पोऽनुवर्तते"?
Look at the letter: 'म्प'! In 'कम्पो', 'म्' + 'प' = 'म्प'. It is clearly "कम्पोऽनुवर्तते।"

सञ्जाता नादा वैकृतध्वनयः। तैरेव द्रुतादिव्यवस्था भवति। शब्दानित्य-
त्वपक्षे तु ह्रस्वत्वादयोऽकारादिधर्मा एव।
अन्येषां रीत्या तु कम्पेऽनिवृत्तेऽपि ज्वालान्तराद्वज्ज्वाला इव स्फोटा-
देव वैकृतध्वनयो जायन्ते।
केषाञ्चित् वायोरन्येषाणमुत्परेषां ज्ञानस्य शब्दत्वापत्ति-
Wait, "वायोरन्ये

Page 215Permalink

' -> 'कथमनुमानमात्रेणार्थनिर्णयः ।'
Yes, 'कथमनुमानमात्रेणार्थनिर्णयः ।'

किञ्च निङ्गातशकेरग्न्यादिद्रव्यस्य मणिमन्त्रौषधादिभिर्विशिष्ट-
Wait, what is that word: 'निङ्गातशकेरग्न्यादिद्रव्यस्य'?
Let's zoom in on that word!
'नि' then what?
Is it 'निर्दग्ध'? 'निराकृत'? 'निर्ज्ञात'?
Look at the characters:
1: नि (ni)
2: र्ज्ञा (r-jñā)?
Wait! 'र्' on top? Yes, a repha!
And underneath is 'ज्ञा' (jñā)!
3: त (ta)!
निर्ज्ञात! (nirjñāta = known, ascertained!)
4: श (śa)
5: क्ते (kte)
6: र (ra with repha? No, र् + अ = र)
निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
निर्ज्ञातशक्तेः + अग्न्यादिद्रव्यस्य = निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
Wow, absolutely clear: निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!

Line 8 continued:
मणिमन्त्रौषधादिभिर्विशिष्ट-
सम्बन्धैः सा शक्तिः प्रतिबद्ध्यते । तथा