उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
by महाकवि भवभूति / पं. रामचन्द्र मिश्र
Page 48 of 439
Read in context१-५१ ] उत्तररामचरितं २९
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना ।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥ ४८ ॥
योऽहम्
विस्रम्भादुरसि निपत्य लब्धनिद्रा-
मुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम् ।
आतङ्कस्फुरितकठोरगर्भगुर्वीं
क्रव्यादाभ्यो बलिमिव निर्घृणः क्षिपामि ॥ ४९ ॥
( सीतायाः पादौ शिरसि कृत्वा ) देवि देवि अयं पश्चिमस्ते रामशिरसा
पादपङ्कजस्पर्शः । ( रोदिति । )
( नेपथ्ये ) अब्रह्मण्यमब्रह्मण्यम् ।
रामः—ज्ञायतां भोः किमेतत् ।
( पुनर्नेपथ्ये ) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
लवणत्रासितः स्तोमः शरण्यं त्वामुपस्थितः ॥ ५० ॥
रामः—आः कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो मौधुरस्य
कुम्भीनसीपुत्रस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । ( कतिचित्पदानि गत्वा पुन-
र्निवृत्य ) हा देवि कथमेवंगता भविष्यसि । भगवति वसुन्धरे सुश्लाघ्यां
दुहितरमवेक्षस्व जानकीम् ।
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥ ५१ ॥
मातः कौसल्ये । अशोकवने पूर्वं शुद्ध ( भ ? ) खप्रक्ष्यनत्रिजटासावमिति
बोध्यम् । परि परित्यक्त्यर्थे । 'हतको नीचः' इति जयः ॥ ते हि मन्ये
इति ॥ ४८ ॥ पाप्मना दुरितेन ॥ ४८ ॥ विस्रम्भादुरसीति ॥ ४९ ॥
विस्रम्भः विश्वासः । प्रिया चासौ गृहिणी ताम्। आतङ्केन आया-
सेन । स्फुरितः चलितः, कठोरः पूर्णः गर्भः तेन गुर्वी अत्थुषुम् । 'आया-
सभीलोरातङ्क' इति शाश्वतः । क्रव्याद्भ्यः राक्षसेभ्यः । आमिषे पतं
इत्यर्थः ॥ ४९ ॥ रोदितीत्यादिकमश्लीलं नाटकाप्रयोज्यमपि 'सर्वं च भक्ष्यं
कुलं' इत्यादिवदुपेक्षणीयम् । 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः । लवणः राक्षस-
भेद । मथुरायां नगर्यां निवासी तत्सम्बन्धी वा माथुरः॥जनकानां रघू-
णामिति ॥ ५१ ॥ जनकाः जनकवंश्या रघवः रघुवंश्या राजानः । गो-
१ 'प्राप्तनिद्राम्' न. २ '०ष्णीन्' न. ३ 'शिरसि' न. ४ 'शाठारम्' म.
५ एतन्नास्ति म-घ-क-पुस्तकेषु. ६ 'ताम्' व-प.