Skip to content
SarvaKosh
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

by महाकवि भवभूति / पं. रामचन्द्र मिश्र

DevanagariSanskritpublished439 pages

Page 47 of 439

Read in context
Page 47

२८ उत्तररामचरित [ १-४७ ]
शैशवात्प्रभृति पोषिता प्रिये-¹
सौहृदादपृथगाश्रयामिमाम् ।
छद्मना परिददामि मृत्यवे
सौनिको गृहशकुन्तिकामिव ॥ ४५ ॥
तत्किमस्पर्शनीयः पातकी देवीं दूषयामि । ( इति सीतायाः शिरः स्वैर-
मुन्नमय्य बाहूमाक्षिपन् । )
अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् ।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६ ॥
( उत्थाय । ) हन्त विपर्यस्तः संप्रति जीवलोकः । अद्यावसितं जीवित-
प्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः । कष्ट-
प्रायं शरीरम् । अशरणोऽस्मि किं करोमि का गतिः । अथवा हा अम्ब
दुःखसंवेदनायैव रामे चैतन्यमाहितम् ।
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ ४७ ॥
अरुन्धति हा भगवन्तौ वसिष्ठविश्वामित्रौ हा भगवन्पावक हा देवि भूत-
धात्रि हा तात जनक हा तात हा मातर् हा प्रियसख सुग्रीव हा सौम्य
हनूमन् हा परमोपकारिन् लङ्काधिपते विभीषण हा सखि त्रिजटे परिमु-
षिता स्थ परिभूता स्थ रामहतकेन । अथवा को नाम तेषामहमिदानी-
माह्वाने ।
लघ्वः । दुरवृत्तं लङ्काद्वीपगतम् । यदि सम्भावनायाम् ॥ ४४ ॥ शैश-
वादिति ॥ ४५ ॥ प्रिये इत्यसुभिः । छद्मना कैतवेन । मृत्यवे परि-
त्यागसूपायेति सीतापक्षे । सौनिकः मृगपक्षिविहिंसाशीलः ॥ ४५ ॥ अस्पर्श-
नीयः नीचः । दूषयामि अङ्कस्पर्शेनेति भावः ॥ अपूर्वकर्मेति ॥ ४६ ॥
अपूर्वं दैवञ्चैव न कृतमित्यर्थः ॥ ४६ ॥ विपाकः परिणामः ॥ विपर्यस्तः
न्यग्रूपः । अवसितं अवसानं प्राप्तं शून्यं वस्तुसहितम् । जीर्णं शुष्कम् ।
अरण्यं वनम् ॥ दुःखसंवेदनायेति ॥ ४७ ॥ यस्मिन् संवेदनं ज्ञानम् ।
चैतन्यं जन्म । उपघातिभिः प्रहारिभिः कीलवत् शङ्कुवत् आचरितम् ।
प्राणश्चानाच्छङ्कयो हृदि निखाता इत्यर्थः । अत एवाद्यापि मयि चैतन्यं
वर्तत इति भावः ॥ ४७ ॥ भूतधात्रि वसुधे । तात दशरथ । जनक वैदेह ।
१ 'प्रियाम्' घ-ञ-क २ 'गृहनाड्याः प्रियाम्' घ 'पृथगाश्रयामिमाम्' व
३ 'सौनिके' ञ ४ 'पर्यवसितमद्य क, 'पर्यवसितं जीवित०' ख-घ ५ 'आग-
तमू' न ६ 'स्वैरै' व घ ७ 'मातरः' व-घ-क ८ 'कथं' व-घ