सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 147, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 147

३२८ उत्तररामचरितं [ ६-१३
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥
लवः-चन्द्रकेतो क एते ।
चन्द्रकेतुः-प्रियवयस्य ननु तातपादाः ।
लवः-ममापि तर्हि धर्मतस्तथैव । यत प्रियवयस्य इति भवतोक्तम् ।
किं तु बहवः खलु भवतामेवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथा-
पुरुषाः । तद्विशेषं ब्रूहि ।
चन्द्रकेतुः-ननु ज्येष्ठतातपादा इत्यवेहि ।
लवः-( सोल्लासम् । ) कथं रघुनाथ एव । दिष्ट्या सुप्रभातम् अद्य यदयं
देवो दृष्टः । ( सविनयकौतुकं निर्वर्ण्य । ) तात प्राचेतसान्तेवासी लवोऽभि-
वादयते ।
रामः-आयुष्मन् एह्येहि । ( इति सस्नेहमालिङ्ग्य । ) अयि वत्स कृतं
कृतमतिविनयेन । अनेनवारमपरिक्लथ्य परिष्वजस्व माम् ।
परिणतकठोरपुष्करगर्भच्छदपीनमस्सृणसुकुमार ।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तर स्पर्श ॥ १३ ॥
लवः-( स्वगतम् । ) ईदृशो मा प्रत्यमीषामकारणस्नेहः । मया पुन-
रेभ्य एव द्रोद्धुमनेनायुधपरिग्रहः कृतः । ( प्रकाशम् । ) मृष्यन्त्विदानीं
लवस्य बालिशतां तातपादाः ।
आन्तरः अन्तःकरणात्मको हेतुः । पदार्थान् प्रतिरूपान् । व्यतिषजति
व्यतिषक्तान् सम्बद्धान् करोतीत्यर्थः । 'व्यतिषजन्ति सम्बध्नाति' इति श्रीनाथः ।
'उपाधिस्तु निमित्ते च' इति हेमचन्द्रः । तत्रोदाहरणमाह-हीति । पतङ्गस्य
रवेः । पुण्डरीकं सिताम्भोजम् । हिमरश्मौ चन्द्रे । उद्गते उदिते सति ।
चन्द्रकान्तशिला । द्रवती स्रवतीति माठरः । तथा च अतिदूरे रवौ चन्द्रेऽप्यु-
दिते यथा पुण्डरीकं विकसति चन्द्रकान्तश्च द्रवति । तथैव केनाप्यान्तरहेतुना
प्रीतयो वर्धन्त । नात्र निमित्तापेक्षेति भावः । 'प्रतिशब्दः प्रेम्णा च' इति वामनः
॥ १२ ॥ क एत इति पूजायां बहुवत्वम् । तथैव तातपादा इत्यर्थः । भवता-
मिति पूजायाम् । युष्मच्छब्दश्चन्द्रकेतुप्रमुखानामिति च व्यज्यते । भवत इति च
पाठः । एवं व्यपदेशः तातेति व्यवहारः स एव भागः येषामस्ति ते
भागिनः । तत्रभवन्तः पूज्याः । 'व्यपदेशस्तु व्यवहारः' इति संसारावर्ते ।
तेषु विशेषम् । अपरिक्लथं दृढम् ॥ परिणतकठोरेति ॥१३॥ परिणत-
१ 'अङ्गेन मामपरिक्लथे परिष्वजस्व' न. २ 'अभिद्रुग्धमनेन यदायुधपरिग्रह-
मावद्बप्पास्ततो दुर्योग' क-घ-प.