सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 146, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 146

॰१२] उत्तररामचरितं १२७
आश्वासस्नेहभक्तीनामेकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० ॥
आश्चर्यम् ।
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन-
स्तद्दौर्जन्यं क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमित्र परवानस्मि यदि वा
महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥
रामः—तत्किमयमकेपद एव मे दुःखविश्रामं दद्यात्पुत्रस्नेहयति च
कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्र-
निषिद्धमेतत् ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
नि पवित्रत्वानि । अनुभाव सम्मतिनिधय । दर्शनानि शास्त्राणि च यस्मि-
न् । 'अनुभाव प्रभावे च सत्ता च मतिनिधये' इत्यमर ॥ आश्वास इवेति
॥ १० ॥ आश्वासस्नेहयोः सान्त्वनप्रणययो सन्निध्योरिति भाव ।
भक्तीनां परन्तृचाणामिति भाव । एकं अद्वितीयम् । आयतनं स्थानम् ।
प्रकृष्टस्य आवरणस्य । धर्मस्य तत्रनेयादे । 'यजेतावरणैर्मृथ्यैः' इति
स्मरणात् । मूर्त्या सुन्दरः मूर्ति शरीर सुन्दर दस्येति वा । सौन्दर्येण मूर्त्त
इति भावः । प्रसाद अनुग्रह इव स्थित इति शेष । तथा चाश्वमेधस्यैव फलं
राम इति भाव ॥ १० ॥ विरोधो विश्रान्त इति ॥ ११ ॥ स प्रसिद्धः ।
विश्रान्तः विरत वीरो रसः निर्वृतिघनः सुखमान्द्र सन् । प्रसरति
व्यासो भवति । तत् परभण्डरम् । प्रह्वयति नक्षयति । अस्मिन् महापुरुषे ।
'पराधीन परवानायत्तामपि' इत्यमर । यदि वा अथवेत्यर्थं । 'मद्गोत यदिवा-
यथा' इति निकमार्क । तीर्थानां गुरुणानिव । महतां पूज्यानाम् । महार्घः
उत्सवपूर्वकपूजाविधिरित्यर्थ । 'मह उत्सवे' इति, 'पूजाविधावर्घ ' इति
चामर । कोऽपि अतिशयो हि ॥ ११ ॥ 'सहसा स्यादेकपदे' इति
जन्दी । दुःखाय विश्रामं रिरति अभावनिति यावत् । कुतः कस्मादपि ।
निमित्तात् कारणात् । निमित्तेन सव्यपेक्षः सापेक्ष इत्येतात् । विप्रतिपि-
द्धं विशेषेण निषिद्धमित्यर्थ ॥ तदेवोपपादयति ॥ व्यतिषजति इति ॥ १२ ॥
१ 'आश्वास इव भक्तीनामेकम्' ग, 'रुकमात्म्नन' क-घ-व. २ '० सप्रर.'
३ 'किमिति' ग; 'किमसि' क.