सामग्री पर जाएँ
सर्वकोश
उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

पृष्ठ 18, कुल 86 में से

संदर्भ में पढ़ें
पृष्ठ 18

प्रथमोऽध्यायः । ९
भिन्नसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च पर-
मात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् ।
आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचि-
दपि ब्रह्मव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः ।
यद्वा, ख-शब्देन जीवोऽभिधीयते, 'आकाशशरीरं ब्रह्म'
इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं
बुद्ध्वा न किंचिदपि चिन्तयेदिति ॥
एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात्
इत्याह—
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ।
बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ।
निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥
ब्रह्मवित् उक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्च-
लज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः
ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं
प्राप्तः, तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाश-
स्थितं च निष्कलं कलातीतं तं ब्रह्म विजानीयात् बुध्येत् ॥
ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह—