सामग्री पर जाएँ
सर्वकोश
उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

पृष्ठ 11, कुल 86 में से

संदर्भ में पढ़ें
पृष्ठ 11

२ उत्तरगीतायां
तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ।
हे केशव यज्ज्ञानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् तत्क्ष-
णादेव ज्ञानोत्तरक्षणादेव मुच्येत अविद्यानिवृत्तिद्वारा आन-
न्दावाप्तिर्भवेत्, तत् ब्रह्म ब्रूहि स्वरूपतटस्थलक्षणाभ्यां
प्रतिपादय इत्यर्थः । एतदेव लक्षणैर्दर्शयति—यदित्यादिना ।
एकं सजातीयविजातीयस्वगतभेदरहितम्, निष्कलम् अवय-
वरहितम्, व्योमातीतम्, आकाशादिचतुर्विंशतितत्त्वाती-
तम्, निरञ्जनं स्वयंप्रकाशम्, अप्रतर्क्यम्, अमनोगोचरम्—
‘यन्मनसा न मनुते’ इति श्रुतेः, अविज्ञेयम् प्रमाणाविषयम्
— ‘यद्वाचानिरुक्तम्’ ‘यतो वाचो निवर्तन्ते’ इति श्रुतेः,
विनाशोत्पत्तिवर्जितं त्रैकालिकरूपम्, कारणम् सर्वोत्पत्ति-
निमित्तोपादानरूपम्, योगनिर्मुक्तं वस्त्वन्तरसंबन्धरहितम्,
हेतुसाधनवर्जितं निमित्तत्वोपादनत्वधर्मादिवर्जितम् इत्यर्थः,
स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा, हृद्याम्बुज-
मध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयकमलमध्य-
स्थम्, ज्ञानज्ञेयस्वरूपकं ज्ञानं स्वविषयप्रकाशः ज्ञेयं विषयः
तदुभयस्वरूपं तदुभयसत्तात्मकम्, यत् ब्रह्म, तत् कीदृश-
मिति प्रश्नार्थः ॥
एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन् उत्तरमाह—