सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
About this granth
Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.
The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.
At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.
तरुणीपृथगवयववर्णनम् २६३
| मपि तद्गात्रा कान्तामुखे विनिवेशितम् । सुरसुमनस-
श्वासामोदे शशी च कपोलयोग्मृतमधरे तिर्यग्भूते विषं
च विलोचने ॥१९४॥ असावन्तश्चञ्चद्विकचनवलीलाब्ज-
युगलस्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि । विना दोषा-
सङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलित-
कलङ्कः सुमुखि ते ॥ १९५ ॥ जगन्नेत्रानन्दं वदनमतुलं
पक्ष्मलदृशः कथंकारं पङ्केरुहमनुविधातु प्रभवति । अयं
छेदाकाङ्क्षी सहृ मदनकोदण्डलयता वराको राकेन्दु-
कुवलययुगं कि न वहति ॥ १९६ ॥ अनाकाशे चन्द्रः
सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः
सोऽपि तिमिरैः । सुधा मुञ्चत्युच्चैरशनिमथ संमोहनजनीं
किमुत्यातालीयं वदत जगतः कर्तुरुदिता ॥ १९७ ॥ सुधा-
बद्ब्यासैरुपवनचकोरैरनुसुता किरं¹श्चोत्स्नामच्छां नवलेवलि²-
पाकप्र³णयिनीम् । उपप्राकाराय प्रै⁴हिणु नयने तर्कय मै⁵नाग-
नाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १९८ ॥ |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
यद्वक्षाः सरखती वाद्यते विपञ्चीम् । तदेव वाग्भूय मुखे
मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥
बाहू
दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः
कण्ठे मारयत्यपवर्जितः ॥ २२४ ॥ शब्दवद्भिरलङ्कारैरु-
पेतमतिकोमलम् । सुवृत्तं काव्यबद्रेजे तद्द्वाहुलतिकाद्वयम्
॥ २२५ ॥ सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथमाजहुतुः श्रियम् ॥ २२६ ॥
बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मञ्चितं कथ-
मेताभ्या मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया
जयता मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु
तच्चित्रममुष्य मध्यमालोक्यते निर्व्यथनं यदन्तः ॥ २२८ ॥
अजीयतावर्त्तशुभंयु नाभ्या दोर्भ्यां मृणालं किमु कोमला-
भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु
तन्निमग्नम् ॥ २२९ ॥
करौ
कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुष । अशोकपल्ल-
वास्त्राणा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतरुणीपृथगवयववर्णनम् — २६५
चकास्ति त्रिवलीतटे । लीना तिमिरलेखेव वदनेन्दोरगोचरे ॥ २६३ ॥
स्वकीयं हृदय भित्त्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ २६४ ॥
अल्पनिर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ २६५ ॥
उच्छ्वसन्मण्डलप्रान्तरेख- माबद्धकुङ्कलम् । अपर्याससुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥ २६६ ॥
मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः ॥ २६७ ॥
पटविघटितमपि कुचतटमकपटमनसः कुरङ्गनयनायाः । मणिभवमयूखपटलीपटीलीनतया न सम्यगालोचि ॥ २६८ ॥
प्रतिपक्षो यदि वक्षोरुहपरिणाहः कुरङ्गनयनायाः । आकाशवासतपसः श्रीफल विफलस्तवायामः ॥ २६९ ॥
चञ्चत्काञ्चन-शैलावस्या वक्षोरुहौ तन्व्याः । नो चेत्तावधिरूढा कथमनिमिषता भजेत मे दृष्टिः ॥ २७० ॥
करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः । सिन्दूरिते करिपतेः कुम्भे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२६६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
मध्यौवनगजस्यावैमि कुम्भद्वयम् ॥ २९५ ॥ उद्भेदं
प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात्पुंनागाकृतिमाप्य
रत्पदवीमारुह्य बिल्वश्रियम। लब्ध्वा तालफलोपमा
च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमि-
भावस्या स्तनौ बिभ्रत ॥ २९६ ॥ रँत्याप्तप्रियलाञ्छने
कठिनतावासे रँसालिङ्गिते प्रँह्लादैकरसे क्रमादुपचिते भूभृ-
द्गुरुत्वापहे । कोर्कस्पर्धिनि भोगभाजि र्जनितानङ्गे र्खेली-
नोन्मुखे भाति श्रीर्गमणावतारदशकं बाले भवत्या. स्तने
॥ २९७ ॥ मध्येऽय बलिसद्म दृष्टिरधिक पृथ्वौ सुपर्वा-
लयो बाहुस्तत्क्रमलेक्षणा त्रिजगतीमेकैव संरक्षति । इत्येव
स्तनयोर्मिषेण कनकक्षोणीभृता सधृतौ यस्यामात्मकिकोरकौ
पविभयव्यग्रेण जम्भद्विष ॥ २९८ ॥
कञ्चुकी
उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः ।
विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि
कञ्चुकी ॥ २९९ ॥
हारः
घटीयन्त्रायते हारो नाभिकूपे मृगीदृश. । ससेक्तुमिव
लावण्यपयसा यौवनद्रुमम् ॥ ३०० ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतरुणीपृथगवयववर्णनम्
२६७
दृष्ट्वा सद्यो विपुलहृदयानन्दमूढेन धात्रा सारङ्गाक्ष्या किमु रचयितुं विस्मृतो मध्यदेशः ॥ ३२२ ॥ आक्रमन्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भूयुगेनापि सार्धम् । वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणिबिम्बेन साकं मध्यः सङ्गृह्य बद्धस्त्रिवलिरुचिभितः कार्श्यमङ्गीकरोति ॥ ३२३ ॥
नाभिः
मन्ये समाप्तलावण्ये सारसर्गे मृगीदृशः । अपूरयित्वेव गतो नाभिरन्ध्रं चतुर्मुखः ॥ ३२४ ॥ कुचकुम्भौ समालम्ब्य तरन्ती कान्तिनिम्नगाम् । अगादितस्ततो दृष्ट्वा दृष्टिर्नाभौ निमज्जति ॥ ३२५ ॥ स्तनौ तुङ्गौ समासाद्य चापण्यस्तम्भरे खरे । कोदण्डातनिमुद्रेव जाता नाभी नतभ्रुवः ॥ ३२६ ॥ उरोजवञ्चक्रमनोजरूपा केशावलीव भ्रमराजिता वा । संगीतवत्सत्पुटभेदहृद्या विधेय नाभीसरसी मृगाक्ष्याः ॥ ३२७ ॥
वलित्रयम्
एकमेव वलिं बद्ध्वा जगाम हरिरुन्नतिम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २६८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

मुद्वहन्ती गुप्तेव पीनकुचपर्वतयोरधस्तात् ॥ ३५९ ॥ अतिबहुलतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती । प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि ॥ ३६० ॥ रचयति युवनेत्रक्षेत्रपीयूषवृष्टिं नवजलधररेखा रोमराजिच्छलेन । यदुदयति कलापिप्रक्रियेयं तदुच्चैः स्तनघनसमयोऽस्यामाविरस्तीति विद्मः ॥ ३६१ ॥ अमुर्भिर्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतित । यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिमिषात् ॥ ३६२ ॥ इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता लावण्यामृतसरसभरेणानुदिवसम् । अकस्माद्रोमालीमधुपपटलीह स्फुरति यत्तत शङ्के पुष्पोद्गमममयमायातमधुना ॥ ३६३ ॥ हरक्रोधज्वालाव लिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतझम्पो मनसिज । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्ता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतरुणीपृथगवयववर्णनम्
लचेलाञ्चलो भाति । सपताकः कनकमयो विजय-
स्तम्भ स्मरस्येव ॥ ३९० ॥ तरुमुरुयुगेन सुन्दरी किमु
रम्भा परिणाहिना परम् । तरुणीमपि जिष्णुरेव ता धनदा-
पत्यतपःफलस्तनीम् ॥ ३९१ ॥ रम्भापि किं चिह्नयति
प्रकाण्डं न चात्मनः खेन न चैतदूरू । खस्यैव येनो-
परि सा ददाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥ ३९२ ॥
विधाय मूर्धानमधश्चरेन्मुञ्चेत्तपोभिः स्वमसारभावम् ।
जाड्यं च नाल्वेकदली बलीयस्तदा यदि स्यादिदमूरुचारु
॥ ३९३ ॥ ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत
वारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं
मुखपुष्करं सः ॥ ३९४ ॥ अस्या मुनीनामपि मोदमूहे भृगु-
र्महान् यत्कुचशैलशैली । नानारदाह्लादि मुखं श्रितोरूर्व्यासो
महाभारतसर्गयोग्यः ॥ ३९५ ॥ पश्यन्हतो मन्मथबाणपातैः
शक्तो विधातुं न निमील्य चक्षुः । ऊरू विधात्रा हि कथं
कृतौ तौ विन्यासवत्या सुमतेर्वितर्के ॥३९६॥ नागेन्द्रहस्त-
स्त्वचि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद्धम्मिल्लाम्बुमुचः
क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ । विश्लिष्यद्गलि लक्ष्य-
नाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्किंचिदुदञ्चदञ्चलमहॊ
कुम्भस्तनी जृम्भते ॥ ४२७ ॥
निद्रा
सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमी-
लिताक्षी सा लिखितेवास्ति मे हृदि ॥ ४२८ ॥
उत्तानामुपधाय बाहुलतिकामेकामपाङ्गश्रितामन्यामप्यलसा निधाय
विपुलाभोगॊ नितम्बस्थले । नीवीं किंचिदिव श्लथा
विदधती निःश्वासलोलालका तल्पोत्पीडनतिर्यगुन्नतकुचं
निद्राति शातोदरी ॥ ४२९ ॥
आमीलन्रवनीलनीरजतुलमातम्बते लोचनं शैथिल्यं नवमल्लिकामहचरैरङ्गैर्पि
स्वीकृतम् । आलापाद्धर स्फुरत्कलयति प्रेङ्खत्ववालोपमामा-
नन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥ ४३० ॥
कान्तिः
सुन्दरी मा भवत्येष विवेकः केन जायते । प्रभामान्रे
हि तरलं दृश्यते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसमग्रस्त्रीस्वरूपवर्णनम् २७१
तीर्थराजः ॥ ३० ॥ वेणी विडम्बयति मत्तमधुव्रतालीम-
ङ्गीकरोति गुणमैन्दवमाक्षमस्सा । बाहू मृणाललतिकाश्रिय-
माश्रयेते पुङ्खानुपुङ्खयति कामशरान्कटाक्षः ॥३१॥ बन्धूक-
बन्धुरधर सितकेतकाभ चक्षुर्मधूककलिकाप्रचुरः कपोलः ।
दन्नावली विजितडाडिमबीजजिगम्ये पुनर्विकचपङ्कज-
दत्तदास्यम् ॥ ३२ ॥ येनोत्पलानि च शशी च मृणालि-
काश्च रम्भालताश्च कमलानि च निर्मितानि । नूनं
स एव मृगशावदृशोऽपि वेधा सृष्टिकमो यदयमेकतया
चकास्ति ॥ ३३ ॥ मा रामणीयकनिधेरधिदेवता वा सौन्द-
र्यमारसमुदाय निकेतनं वा । तस्या सखे नियतमिन्दुसुधा-
मृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ ३४ ॥
राजीव जीवसि सुधा न सुधाकर त्वमस्याः समः पदनखस्य
कुतो मुखस्य । अग्रे दृशोर्मृगदृश कतमः कुरङ्गस्तत्खञ्जन-
त्वमपि कि जनरञ्जनाय ॥ ३५ ॥ सा दुग्धमुग्धमधुरच्छवि-
रञ्जयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे । कम्बुविडम्बन-
कण्ठश्च स एव कण्ठ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २७२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

देतस्याः सुदृशः करोति पदयोः सेवां प्रवालद्युतिः ॥ ५५ ॥
कर्णारुतमुदमेव कोकिलरुतं तस्या श्रुते भाषिते चन्द्रे लोक-
रुचिस्तदाननरुचेः प्रागेव संदर्शनात् । चक्षुर्मीलनमेव तन्न-
यनयोर्ये मृगोणा वरं हैमी वल्लवपि तावदेव ललिता
यावन्न सा लक्ष्यते ॥ ५६ ॥ चक्षुर्मंचकमम्बुजं विजयते
वक्त्रस्य मित्रं शशी श्रूस्तूत्रस्य र्नाभि मन्मथधनुर्लावण्य-
पण्यं वपुः । लेखा कापि रहन्छदे च सुतनोर्गाने च तत्का
मिनीमैना वर्णयिता खरो यदि भवेद्द्रुग्धम्धमभ्यस्यति
॥ ५७ ॥ स्निग्धस्मेरविलोलोमुग्धमधुग यन्नयनोर्विश्रभा
यद्यामृतविलासपत्रलतिका घर्मोद्गमाद्गण्डयोः । यच्च ग्राढ-
कदम्बकुङ्गलसखी काप्यङ्गे विक्रिया तत्तस्या रिमपि
स्फुटं रतिपतेः कोदण्डविस्फूर्जितम् ॥ ५८ ॥ स्निग्वेंन्दी
वलसुन्दरं कक्षमरो वक्रं सगोत्रं विवोर्वक्षोजौ मणिकुम्भ
डम्बरसुषौ मध्योऽस्ति वा नास्ति वा । श्रोणीमण्डलपूरुदुर्यह
महो शोणाब्जतुल्ये पदे मन्ये मञ्जिगिरे मैरालमहिला-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| समग्रस्त्रीस्वरूपवर्णनम्, परस्परदर्शनम्, नायकदर्शनम्, नायिकादर्शनम् | २७३ |

| जडिता दृष्टिर्मृगीणामिव प्रम्लानाऽरुणिमेव विद्रुमदल श्यामेव
हेमप्रभा । कार्कश्यं कलयो च कोकिलवधूकण्ठेष्विव प्रस्तुत
सुन्दर्याः पुरतश्च हन्त शिखिना बर्हाः सगर्हा इव ॥ ७७ ॥

### परस्परदर्शनम्
स्मरतोरभिलाषकल्पितान्बहुशः स्वप्नभुवः समागमान् ।
अपि दृष्टिपथं प्रपन्नयोर्निविविश्वास चिर मनस्तयोः ॥ १ ॥
आघ्रातं कमल प्रियेण सुदृशा स्वित्वापनीतं सुखं दत्तं
विश्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ । दत्ता चम्पक-
मालिकोरसि भुजानिर्भिद्यरोमाञ्चया मीललोचनया स्थितं
प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ २ ॥

### नायकदर्शनम्
न जाने समुखायाते प्रियाणि वदति प्रिये । सर्वाण्य-
ङ्गानि कि यान्ति नेत्रतामुत कर्णताम् ॥ १ ॥ या या प्रिय.
प्रैक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव । निःशङ्क-
मन्याः |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २७४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

[वामभागः]
सुषमामण्डले दूरमभ्रम् । रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ॥ २० ॥ नेयं विद्युद्भवमधिगता काञ्चनी नापि वल्ली मन्दं मन्दं प्रचलति यतो नापि वा पन्नगस्य । चूडारत्नस्फुरदुरुशिखा कापि धत्ते सरोजं का वा तर्हि प्रकृतिसुभगा तत्सखे न प्रतीमः ॥ २१ ॥ वक्त्रोपान्तं नयनयुगलं सर्वतो निक्षिपन्ती श्रोणीभाराच्छिथिलशिथिलन्यस्तपादारविन्दा । आरादालीकरकिसलये दत्तहस्तावलम्बा काचित्कान्त्या विकसितमहीचक्रमय्याति तन्वी ॥ २२ ॥ इय भुजंगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदवञ्जनालंकृता । फलद्वयभरानता विलसिता नवै पल्लवैर्र्विलोचनपथं गता भवति कापि हैमी लता ॥ २३ ॥ पातालाद्भवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनोऽवस्थावर्णनम्, वियोगिन्या अवस्थावर्णनम् २७५
| यते माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त
प्रमदावियोगसमयः सहारकालायते ॥ ८ ॥ माकन्दाक्षिप
मा मरन्दनिकरं मूको भव त्वं शुक स्फार कोकिल कोमलं
कलरवं भ्रातः क्षणं संहर । सौगन्ध्यं वह गन्धवाह न
मनाक्सर्वैः क्षणं क्षम्यता जानीध्व तरुणास्य तस्य यदयं
कालः कराळो महान् ॥ ९ ॥

वियोगिन्या अवस्थावर्णनम्

दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना । स्नेहस्तथैव
यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ १ ॥ जीवेन तुलितं प्रेम
सखि मूढेन वेधसा । लघुर्जीवो ययौ कण्ठं गुरुप्रेम हृदि
स्थितम् ॥ २ ॥ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ ३ ॥ वल्लभो-
त्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विष-
ज्वालाकुलोऽभवत् ॥ ४॥ अस्तमितविषयसङ्गा |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२७६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
श्रेणीर्भिन्वन्नुपनीतं सफलता गतिस्पर्धावैरे मृदुकलरवै-
रम्बुजदृग् । यदेतान्दृष्ट्वैत्या प्रियविरहवत्याः कृशतनो-
रगादस्याः स्तम्भाद्दहह गतिसंभावनमपि ॥ ३० ॥ अ-
गारेऽस्मिन्कान्ते गिरिशमनिशानाथसकलं भुजगानुत्तुङ्गा-
न्सकलमपि वातायनपथे । निकुञ्जेषु श्येनानविगृहशिरो-
गङ्गुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः
॥ ३१ ॥ स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः
साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं
मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैव सुभगमपराद्धं युव-
तिषु ॥ ३२ ॥ कपोले पाण्डुत्वं किमपि जलधारा नयन-
योस्तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम् ।
अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकल-
विषयेष्वाकलयते ॥ ३३ ॥ निकामं क्षामाङ्गी सरसकदली-
गर्भसुभगा कल्येशा मूर्तिः शशिन इव नेत्रोत्सवकरी ।
अवस्थामापन्ना मदनदहनोदाहविधुरारियं न. कल्याणी
रमयति मन. कम्पयति च ॥ ३४ ॥ घनोऽयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिन्या अवस्थावर्णनम्, वियोगिनो विप्रलापाः २७७
वहं हन्ताक्षीवरदृशः किमन्यदलकामोदोऽपि भारायते ॥ ५४ ॥ अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीना रुचिं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्गाहते । क्षिप्ता सा हिमवालुकापि कुचयोर्धत्ते क्षण दीर्पता तप्ताय पतिताम्बुवत्करतले धागम्बु सलीयते ॥ ५५ ॥ कैने कोमलमालिकामपि चिर या बिभ्रती खिद्यते या गात्रेषु घनं विलेपनमपि न्यस्त न वोढु क्षमा । दीपस्यापि शिखा न चापि भवने स्वेभेऽपि या वीक्षितु तार्प सा विरहानलस्य महत. सोढु कथ शक्यते ॥ ५६ ॥ उडूयेत तनूलतेति बिसिनीपश्रेण नो वीज्यते स्फोट स्यादिति नाङ्गक मलयजक्षोदाम्भसा सिच्यते । स्यादस्यातिमरात्परावर भव इति त्रासान्न वा पल्लवारोपो वक्षसि तत्कथ वरतनोरावि समाधीयताम् ॥ ५७ ॥ नि श्वासानलविद्रदन्तवसना नेत्राम्बुसिक्तस्तनी हस्तन्यस्तकपोलदीनवदना हारैकभूषावती । बिभ्राणासपदेन तुङ्गजघना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२७८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ १९ ॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयना तामधिकृत्य प्रहरतीति ॥ २० ॥
दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २१ ॥
स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥ २२ ॥
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३ ॥
तस्या सुतनुसरस्या चेतो नयनं च निष्पतितम् । चेतो गुरु तु निमग्नं लघु नयनं सर्वतो भ्रमति ॥ २४ ॥
निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम् । हृदयह्रदे निमग्नामिन्दुमुखीं मा बहिः कुरुताम् ॥ २५ ॥
दर्शनपथमुपयाता यदवधि मदिरायतेक्षणा सहसा । तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः ॥ २६ ॥
अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनो विप्रलापाः २७९
मृगशावकाक्षीं पार्श्वे स्थिता च पुरतः परिवर्तमानाम् ।
पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो
भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृगोरिदमुत्तरीयं
धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं
नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥
राकासुधाकरमुखी तरलायताक्षी संखेरयौवनतरङ्गितविभ्र-
मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति-
व्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल-
केलिकुतूहलाय व्याजादुपैत्य मयि वर्त्मनि वर्तमाने ।
अन्तःस्थितद्युतिमत्कृतिकुद्वक्त्ररङ्गैरीकृतं किमपि वामदृशः
स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं
बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमम्य-
थामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥ ५६ ॥ पीतो यतः-
प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः ।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २८० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

जननयनसजीवनसुधा प्रिया सा सा सेत्यजनि हृदयं तन्मयमहो ॥ ७६ ॥ कटाक्षेणापीषद्वक्षणमपि निरीक्षेत यदि सा तदानन्द. सान्द्रः स्फुरति निहताशेषविषय. । सरोमाञ्चोद्गच्छत्कुचकलशनिर्भिन्नावसन. परीरम्भारम्भः क इव भविताम्भोरुहदृश. ॥ ७७ ॥ पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना । किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीना यदकृत तदन्तर्व्यथयति ॥ ७८ ॥ समुत्तीर्णे तन्व्या निशितनयनान्तेन मृदिते स्तनद्वन्द्वस्यन्दैः सितलवसुधाम्भि. मृतमति । मदन्तःकेदारं मदनकृषिकारेण जनिता चिरादाशावल्ली किमिति न फलं हन्त लभते ॥ ७९ ॥ विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । तत. स्नानक्रीडाजनितजडभावैरवयवै. कदाचिन्सुख्येयं मदनशिखिपीडाव्यतिकरम् ॥ ८० ॥ परागैः कर्पूरैस्तुहिनसलिलैश्चान्दनरसैः सुधाम्भिज्र्योत्स्नाभिः स्नपितमिव य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवियोगिनो विप्रलापाः २८१
॥ ९९ ॥ किं तिष्ठामि किमु व्रजामि किमहमं जागर्मि
निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यीम्य-
दुःख्यामि वा। किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि
पक्षे स्थित. प्राप्यानिवर्चनीयमेव कमपि क्रूर विकारं सखे
॥ १०० ॥ आसीनः शयितः स्थित. प्रचलितः क्षमायितो
जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा ।
तां प्रेमाकुलवीक्षितां सितमुखीं सब्रीडमन्दागमां श्लिष्यन्तीं
प्रणयार्दमुग्धलपितां पश्यामि नक्तंदिवम् ॥ १०१ ॥ नीले-
न्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधू-
ककुसुमभ्रान्त्या तथा गण्डयो । लीयन्ते कबरीषु बान्धव-
जनव्यामोहजातस्पृहा दुर्वारा मधुप्रा. कियन्ति तरुण
स्थानानि रक्षिष्यसि ॥ १०२ ॥ सा मे यद्यपि सुन्दरी भग-
वतो मामेव चेतोसुवो न स्वप्ने न च जागरे नयनयो. पन्थान-
मासादिता । तामाकर्ण्य तथापि तादृशदशावैधुर्यमासेदुषी-
मानन्दाद्भुतशोककौतुकभयव्रीडाकुलं मे मन ॥ १०३ ॥ मा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भूयः क्षिपन्ती मयि सितशबले लोचने लोलेतारे १। वक्रं ह्रीनेम्रीभवत् २ स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मा नोवाच किञ्चित्स्थितमपि पुरतो मानसं तद्धुनोति ३ ॥ १२१ ॥ चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरति गिरा विस्तरे दूतिकायाः । आस्तां दूरे स तावत्सरमसदथितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परा निर्वृतिं सन्तनोति ॥ १२२ ॥
मदनं प्रत्युक्तयः
स्वयमप्राप्तदुःखो यः स दुनोति न विस्मयः । त्वं स्मर प्राप्तदाहोऽपि दहसीति किमुच्यते ॥ १२३ ॥ भवनेत्रभवो वह्निग्द्यापि त्वयि मन्मथ । ज्वलतीवान्यथा किं ते विशिखास्तत्कणा इव ॥ १२४ ॥ अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्येर्व ४ इवाम्बुराशौ ५ । त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ १२५ ॥ वृथैव सकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in