सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 279 of 516
Read in context२६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
यद्वक्षाः सरखती वाद्यते विपञ्चीम् । तदेव वाग्भूय मुखे
मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥
बाहू
दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः
कण्ठे मारयत्यपवर्जितः ॥ २२४ ॥ शब्दवद्भिरलङ्कारैरु-
पेतमतिकोमलम् । सुवृत्तं काव्यबद्रेजे तद्द्वाहुलतिकाद्वयम्
॥ २२५ ॥ सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथमाजहुतुः श्रियम् ॥ २२६ ॥
बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मञ्चितं कथ-
मेताभ्या मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया
जयता मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु
तच्चित्रममुष्य मध्यमालोक्यते निर्व्यथनं यदन्तः ॥ २२८ ॥
अजीयतावर्त्तशुभंयु नाभ्या दोर्भ्यां मृणालं किमु कोमला-
भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु
तन्निमग्नम् ॥ २२९ ॥
करौ
कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुष । अशोकपल्ल-
वास्त्राणा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in