सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 296 of 516
Read in contextवियोगिनो विप्रलापाः २८१
॥ ९९ ॥ किं तिष्ठामि किमु व्रजामि किमहमं जागर्मि
निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यीम्य-
दुःख्यामि वा। किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि
पक्षे स्थित. प्राप्यानिवर्चनीयमेव कमपि क्रूर विकारं सखे
॥ १०० ॥ आसीनः शयितः स्थित. प्रचलितः क्षमायितो
जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा ।
तां प्रेमाकुलवीक्षितां सितमुखीं सब्रीडमन्दागमां श्लिष्यन्तीं
प्रणयार्दमुग्धलपितां पश्यामि नक्तंदिवम् ॥ १०१ ॥ नीले-
न्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधू-
ककुसुमभ्रान्त्या तथा गण्डयो । लीयन्ते कबरीषु बान्धव-
जनव्यामोहजातस्पृहा दुर्वारा मधुप्रा. कियन्ति तरुण
स्थानानि रक्षिष्यसि ॥ १०२ ॥ सा मे यद्यपि सुन्दरी भग-
वतो मामेव चेतोसुवो न स्वप्ने न च जागरे नयनयो. पन्थान-
मासादिता । तामाकर्ण्य तथापि तादृशदशावैधुर्यमासेदुषी-
मानन्दाद्भुतशोककौतुकभयव्रीडाकुलं मे मन ॥ १०३ ॥ मा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in