सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
इस ग्रन्थ के बारे में
सुभाषितरत्नभाण्डागार संस्कृत सुभाषितों, यानी सुन्दर और सारगर्भित श्लोकों, का एक विशाल संकलन है। इसे पण्डित काशीनाथ शर्मा (काशीनाथ पाण्डुरंग परब) ने संगृहीत किया था और यह निर्णय सागर प्रेस, बम्बई से छपता रहा है। अंग्रेज़ी मुखपृष्ठ इसे दस हज़ार से अधिक सुभाषितों का संग्रह बताता है। इसमें काव्य, नाटक, नीति-ग्रन्थों और स्फुट पद्यों से चुने गए श्लोक विषय के अनुसार सजाए गए हैं।
पुस्तक के आरम्भ में 'विषयानुक्रमकोश' है, जिसमें प्रत्येक विषय के साथ पृष्ठ और श्लोक-संख्या दी गई है। पहला मङ्गलाचरण-प्रकरण परब्रह्म, गणेश, सरस्वती, शिव, गङ्गा, विष्णु, लक्ष्मी, ब्रह्मा, दशावतार, कृष्ण, राधा और रुक्मिणी जैसे विषयों पर श्लोक देता है। आगे के प्रकरणों में नीति, राजधर्म, अन्योक्ति, शृङ्गार और प्रकृति-वर्णन जैसे विषयों के श्लोक मिलते हैं।
लगभग ५१६ पृष्ठों का यह ग्रन्थ संस्कृत के विद्यार्थियों, वक्ताओं और लेखकों के लिए किसी विषय पर उपयुक्त श्लोक खोजने का एक पुराना और भरोसेमन्द साधन है।
| वाग्वर्णनम्, वाग्मिप्रशंसा | ८५ |
|---|
सरैसानाम्। वाणी सैव गुणवती घटौय यद्वा वँधूटीव ॥ ८॥ रतरीतवीतवसना प्रियेव शुद्धापि वाग्भवेद् सैरसा। अरसा सौलकृतिरपि न रोचते शौलभञ्जीव ॥ ९ ॥ सुखयतितरा न रक्षति परिचयलेशं गॅणाङ्गेनेव श्री। कुलकामिनीय नोञ्झति वाग्देवी जन्मजन्मापि ॥ १० ॥ वाग्माधुर्यान्नान्यदस्ति प्रियत्व र्वाक्पारुष्याच्चोपकारोऽपि नेष्टः। कि तद्द्रव्य कोकिलेनोपनीत को वा लोके गदर्भस्यापराध. ॥ ११ ॥ कौर्मान्दुँधे विप्रकर्षत्यलक्ष्मी कीर्तिं सूते दुष्कृत या हिनस्ति। ता चाप्येता मातर मङ्गलाना वेनु धीराः सूनृँता वाचमाहु ॥ १२ ॥ विविक्कैर्वर्णाभरणा सुँखश्रुति प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणा प्रसैन्नगम्भीरपदा सरस्वती ॥ १३ ॥ केयूरौ न विभूषयन्ति पुरुष हारा न चेन्द्रोज्ज्वला न स्नान न विलेपन न कुसुम नोलकृता मूर्द्धजा.। वाण्येका संमलंकरोति पुरुष या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १४ ॥ अस्त्यद्यापि चतु.समुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपा. । एकत्रत्र निरादरो भवति चेदन्यो भवेत्साद्रो वैग्देवी वदनाम्बुजे वसति चेत्को नाम दीनो जन. ॥ १५ ॥ ये सूक्तीन्दुकलाकळङ्कजनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रिया. । ये वा द्वेषमषीमलीमसमधियस्तान्प्राज्ञगोष्ठीरसप्रौढप्रावृडवयवहान्यरिहरन्वाचा प्रसार कुरु ॥ १६ ॥ तथ्य पथ्यं सहेतु प्रियमतिमृदुलं सारवदैन्यहीनं साभिप्राय दुराप सविनयमशठं चित्रमल्पाक्षर च बह्वर्थं कोषशून्यं स्मितयुतघनदाक्षिण्यसदेहहीनं वाक्य ब्रूयाद्रमज्ञ. परिषदि समये सप्रमेयाप्रमत्तम् ॥ १७ ॥ | नुलोमार्थान्वयाच. कृँतिना गिरः ॥ १ ॥ तीक्ष्णा नारुंतुदा बुद्धि कमे शान्तं प्रतापवत् । नोपताप मनः सोष्म वागेका वाग्मिन सत ॥ २ ॥ प्रसोदगम्योमौजस्वि गैरीयो लघववान्वित्तम् । साकाङ्क्षमुपस्कार विविक्तंगति निराकुलम् ॥ ३ ॥ न्यायनिर्णीतसारत्वान्निपेक्षमिर्वागमे । अंप्रकंप्यतयान्त्येषामन्नायवचनोपमम् ॥ ४ ॥ अलङ्घ्यत्वाज्जनैरन्यै. क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसपत्ते शान्त चित्तमृषेरिव ॥ ५॥ इदमीदृग्गुणोपेत लब्ध्वावसरसाधनम् । व्याँकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदगाश्रये ॥ ६ ॥ श्रुतिसिद्धान्तशूरस्य तद्विरुद्धाञ्चिरुन्वत । वल्गितं र्बौर्वदृक्कस्य कृतिन कि न शोभते ॥ ७ ॥ अल्पाक्षररमणीय य कथयति निश्चितं स खलु वाग्मी । बहुवचनमल्पसार य. कथयति विप्रलापी सः ॥ ८ ॥ शुद्धकासरचितापि ललिता जिह्वैया यदि न योजिता भवेत् । कि तया र्करणमस्ति घण्टया जिह्वया जनिमता हि पूज्यया ॥ ९ भवन्ति ते सँम्यतमा विपैश्चिता मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेर्श्वच्युपपन्ननैपुणा गँभीरमर्थ कतिचित्प्रका शताम् ॥ १० ॥ स्तुवन्ति शुर्वीमभिधेयसपदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थिताया प्रतिपूरुष रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ ११ ॥ पिकैस्तावत्कृष्णः परमरुँणेया पश्यति दृशा परापत्यद्वेषी खसुतमपि नो पालयति यः । तथाप्येपोऽमीषा सकलजगता वल्लभतमो न दोषा गण्यन्ते खलु मधुरवाचा कचिदपि ॥ १२ ॥ आध्वाघेष कषायमधुरसुरप्रेमानुबद्धाशयो माकन्दस्य यशासि कोकिलयुवा निर्माति दिग्भित्तिषु । माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को
वाग्मिप्रशंसा
विरोधि वचसो मूकान्वागीशानपि कुर्वते । जडानध्ये-
| १ रसिकानाम्, पक्षे,-कूपीदीनाम् २ प्रागल्भ्यादिगुणयुक्ता, पक्षे,-रज्जुयुक्ता ३ स्त्रीव ४ अनुप्रासोपमाद्यलङ्काररहितापि ५ शृङ्गारादिमती पक्षे,-शृङ्गाररसवती ६ रसशून्या ७ अलकृतियुतापि, पक्षे,-कटककुण्डलयुतापि ८ काष्ठपुत्तलीव ९ वेश्येव, १० मनोरथान् ११ प्रपूरयति १२ सत्याम् १३ विविक्ता संयोगादिनांश्लिष्टा, स्फुटोच्चारिता वर्ण अक्षराण्येवाभरणानि यस्या सा, पक्षे,-विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्या सा १४ सुखा श्रुति श्रवण यस्या सा श्राव्येत्यर्थ, पक्षे,-श्रूयन इति श्रुतिर्वाक्स्या सुखा यस्या सा, मञ्जुभाषिणीत्यर्थ १५ प्रसन्नानि वाचक़ानि गम्भीराण्यवगर्भानि च पदानि सुप्तिङन्तरूपाणि यस्या सा, पक्षे,-प्रसन्ना विमला गम्भीरपदालमचरणा १६ वाङ्भूषणानि १७ चन्द्रवदुज्ज्वला १८ सुगन्धतैलादिना संस्कृता १९ केशा २० सम्यगलकरोति २१ सरस्वती २२ वक्ता २३ अनुकूलवादिन | १ प्रगल्भवाच २ कुशलानाम्, ३ अभिमानोष्णम् ४ प्रसादप्रसिद्धार्थपदत्व तेन रम्यम् ५ समासभूयिष्ठम् ६ अर्थभूयस्त्वपरिगतम् न तु शब्दाडम्बरमात्रमित्यर्थ ७ विस्तरदोषरहितम् ८ आकाङ्क्षावत्पदकदम्बात्मकम् न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थ ९ अध्याहारदोषरहितम् १० कृतार्थप्रतिपादकम् न तु सावशेषार्थमित्यर्थ ११ असंकीर्णार्थम् १२ न्यायेन युक्त्या निश्चितार्थत्वात् १३ स्वतन्त्रमिव १४ शास्त्रे १५ अनुमानादिभिरबाध्यत्वादप्रत्याख्यायतया १६ वेदवाक्यतुल्यमित्यर्थ १७ अनुल्लङ्घनीयत्वाव १८ उद्वेलाम्भोधिगम्भीरम् १९ अग्राम्यार्थत्वात्, पक्षे,-त्यागित्वात् २० प्रयोजनमपचे, पक्षे,-अणिमादिसमृद्धे २१ लब्धे प्राप्ते अवसरसाधने कालोपायौ येन तत् २२ व्याहरेत् २३ पञ्चमषष्ठपद्यद्वय विशेषक ज्ञेयम् २४ प्रतिवस्तु २५ घण्टाजिह्वा २६ कर्तव्यम् न किचित्कार्यमस्तीति भाव २७ सभाया साधुतामा निपुणतमा २८ विदुषाम् २९ वाचोद्विरन्तीत्यर्थ ३० वक्तृपु ३१ संभावितकौशल ३२ निगूढम् ३३ अर्थसपत्तिम् ३४ सामर्थ्यम् ३५ शब्दस्य ३६ कोकिल ३७ आरक्तया |
|---|
| ८६ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
ब्रूतामसता सता च वचसा वर्म्मातिगं चेष्टितम् ॥ १३ ॥
श्रोतुंन्मूचयति ब्रुवन्स्थिरतरं कुर्वन्नमीषा मनो निर्बाष्पः परबाष्पकृत्परदृशामेकाश्रयो नान्यदृक् । यस्त्यक्ताङ्गविकम्पनः प्रचलयन्नित्यं सता मस्तक क्षीर श्रोतृषु मुख्यमात्मनि गुणं धत्ते स वत्कोत्तमः ॥ १४ ॥
तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वता चेतसः प्रोल्लासं रसपूरणं श्रवणयोरक्ष्णोर्विकासश्रियम् । क्षुन्निद्राश्रमदुःखकालगतिहृत्कौर्यान्तरप्रस्मृति प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोक विरामादपि ॥ १५ ॥
मौनगुणाः
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ १ ॥
रूपवानपि मूर्खोऽपि गत्वा च विपुला सभाम् ।
संरक्षेच्च स्विका जिह्वा भार्या दुश्चारिणी यथा ॥ २ ॥
स्वायत्तमेकान्तगुण विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदा समाजे विभूषणं मौनमपण्डितानाम् ॥ ३ ॥
कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम् ।
परस्परं संवदता खलाना मौन विधेय सततं सुधीभिः ॥ ४ ॥
स्थानमाहात्म्यम्
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ १ ॥
किंचिदाश्रयसंयोगाद्धत्ते शोभामसाध्वपि ।
कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम् ॥ २ ॥
कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते ।
वैश्वानरोऽपि लोहस्यः कारुकैरभिहन्यते ॥ ३ ॥
पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ ॥ ४ ॥
राजा कुलवधूर्विप्रा मन्त्रिणश्च पयोधराः ।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा नखाः ॥ ५ ॥
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ ६ ॥
पात्रविशेषे न्यस्तं गुणान्तर व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलता पयोदस्य ॥ ७ ॥
अतिमात्रभास्वरत्वं पुष्यति भानो परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ ८ ॥
प्रायो यत्किंचिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः ।
मत्तेभकुम्भतटगतमेति शृङ्गारता भस्म ॥ ९ ॥
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ १० ॥
आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ११ ॥
जानामि नागेन्द्र तव प्रभाव कण्ठे स्थितो गर्जसि शङ्करस्य ।
स्थान प्रधान न बल प्रधान स्थाने स्थितः कापुरुषोऽपि शूरः ॥ १२ ॥
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीन भुङ्क्ते वसति सकलः स्थाणुशिरसि ।
बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर न तु स्थानरहिताः ॥ १३ ॥
सिंहक्षुण्णकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं कान्तारे बदरीधिया द्रुतमगाद्भिल्लस्य पत्नी मुदा ।
पाणिभ्यामवगृह्य शुक्लकठिनं तद्वीक्ष्य दूरे जहावस्थाने पततामतीव महतामेतादृशी स्याद्गतिः ॥ १४ ॥
सत्संगतिप्रशंसा
महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रथ्याम्बु जाह्नवीसङ्गात्त्रिदशैरपि वन्द्यते ॥ १ ॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ॥ २ ॥
महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
हरिहस्तगतः शङ्खः पवित्रः प्रथितो भुवि ॥ ३ ॥
मलयाचलगन्धेन त्विन्धनं चन्दनायते ।
तथा सज्जनसङ्गेन दुर्जनः सज्जनायते ॥ ४ ॥
वीणावंशाश्रया तुम्बी चुम्बत्युच्चैः कुचौ स्त्रियः ।
पिबत्यनार्यसंयोगाद्रक्तं नर्त्तन्चरी यथा ॥ ५ ॥
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ॥ ६ ॥
साधूना दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थ सद्यः साधुसमागमः ॥ ७ ॥
करोति निर्मलौधारस्तुच्छक्षापि महार्घताम् ।
अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥ ८ ॥
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ९ ॥
मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।
पङ्कच्छिदः फलस्येव निकर्षेणाविल पयः ॥ १० ॥
कीटोऽपि सुमनःसङ्गादारोहति सता शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ११ ॥
काचः काञ्चनसंसर्गाद्धत्ते मारकतीद्युतीः ।
तथा सत्संनिधानेन मूर्खो
पादटिप्पणी (Footnotes)
वामभागस्थिताः:
१ मूकान्करोति २ अच्लम्, तटस्थमिति यावत् ३ प्रकर्षेणोल्लास विकासम् ४ रसाना शृङ्गारादीना पूरणम् ५ अन्यकार्यविस्मृतिम् ६ स्वस्वाधीनम् ७ पिधानम् ८ मूर्खताया ९ सभायाम् १० मकर ११ भषकेण १२ लोहकारै १३ पद = स्थानम्, जलाशयम् १४ कौशलम् १५ मौक्तिकत्वम् १६ मेघस्य
दक्षिणभागस्थिताः:
१ विन्ध्यपर्वते २ मत्स्यान्, पक्षे,-मीनराशिम् ३ तरुशैलादयः, पक्षे,-शिव ४ देवैः ५ आश्रय ६ महामूल्यत्वम् ७ कतकफलस्येव ८ कलुषम् ९ उदकम् १० पाषाण ११ मरकतसंबन्धिनी
सत्संगतिप्रशंसा, असत्संगतिनिन्दा | ८७
| सत्संगतिप्रशंसा | सत्संगतिप्रशंसा |
|---|---|
| याति प्रवीणताम् ॥ १२ ॥ यथोदेयगिरौ द्रव्यं ^२संनिकर्षेण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि ^३दीप्यते ॥ १३ ॥ भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्पन्दं विदधाति सदागमः ॥ १४ ॥ यदि सत्संगनिरतो भविष्यसि भविष्यसि । अथ दुर्जनसंसर्गे पतिष्यसि पतिष्यसि ॥ १५ ॥ अलब्ध्वापि धनं राज्ञः सन्निता यान्ति सपदम् । महाहृदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ १६ ॥ सङ्गः सर्वत्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १७ ॥ क्षुद्रोऽपि तनुते तात तेजस्तेजस्विस्सङ्गतः । अर्कसपर्कतः पश्य दर्पणे दहनद्युतिम् ॥ १८ ॥ बृहतसहाय. कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १९ ॥ सज्जनसङ्गो मा भूद्यदि सङ्गो मास्तु तत्पुनः स्नेहः । स्नेहो यदि मा विरहो यदि विरहो मास्तु जीवितस्याशा ॥ २० ॥ वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ २१ ॥ गुरुरपि लघूपनीतो न निमज्जति नियतमँशाये निहितः । वानरकरोपनीतः शैलो मकरालयस्येव ॥ २२ ॥ ^५गैवाशनाना स शृणोति वाक्यमहं हि राजन्वचनं मुनीनाम् । न चास्य दोषो न च मद्गुणो वा संसर्गजा दोषगुणा भवन्ति ॥ २३ ॥ ^६कल्पद्रुमः कल्पितमेव सूते सा ^७कामधुक्कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते सता हि सङ्गः सकलं प्रसूते ॥ २४ ॥ असज्जनः सज्जनसङ्गिसङ्गात्करोति दुःसाध्यमपीह साध्यम् । पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ २५ ॥ शाखोटकैश्चन्दनसंगतोऽपि वक्षोजयोः क्रीडितमायताक्ष्याः । पयोऽपि मद्यं श्वपचे हि मन्यते संसर्गजा दोषगुणा भवन्ति ॥ २६ ॥ सत्सङ्गाद्भवति हि साधुता खलानां साधूनां नहि खलसंगमात्खलत्वम् । ^८आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ २७ ॥ कि वापरेण बहुना परिजल्पितेन संसर्ग एव महता महते फलाय । अम्भोनिधेस्तटरुहास्तरवोऽपि येन वेलाजलोच्छलितरत्नकृतालवालाः ॥ २८ ॥ ^९जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं ^१०दिशति ^११पापमपाकरोति । चेतः प्रसादयति दिक्षु ^१२तैनोति कीर्तिं सत्संगतिः कथय किं न करोति पुंसाम् ॥ २९ ॥ | दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणा बहुलीकरोति सङ्गः सता किमु न मङ्गलमातनोति ॥ ३० ॥ कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन । कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्ग. स्वभावपरिवर्तविधौ निदानम् ॥ ३१ ॥ ^१ऐके केचिद्यतिकरगता. पात्रसंज्ञा लभन्ते गायन्त्यन्ये सरसमधुर वीणया संप्रयुक्ताः । एके तेषा सहजगतिवशादुत्तर तारयन्ति केचिन्तेषा ज्वलितहृदया रक्तमेवापिबन्ति ॥ ३२ ॥ सँतेसायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्या सागरशुक्तिसंपुटगत तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संसर्गंतो जायते ॥ ३३ ॥ गङ्गेवाघविनाशिनी जनमनःसंतोषसचन्द्रिका तीक्ष्णांशोरपि सत्वमेव जगदज्ञानान्यकारपहा । छायेवाखिलतापनाशनकरी स्सर्धेनुवत्कामदा पुण्यैरेव हि लभ्यते सुकृतिभिः सत्संगतिर्दुर्लभा ॥ ३४ ॥ कीर्तिर्नृत्यति नर्तकीव भुवने विद्योतते साधुता ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति । चित्तं रञ्जयति प्रियेव सतत संपत्प्रसादोचिता संगत्या न भवत्सता किल भवेत्किं किं न लोकोत्तरम् ॥ ३५ ॥ बुद्धिं वर्धयति श्रियं वितनुते वैदग्ध्यमामुञ्चति श्रेयः पल्लवयत्यघानि दलयत्युन्मीलयत्युन्नतिम् । विज्ञान परिशोधयत्युपचिनोत्युच्चैः कलाकौशलं किं किं नारभते हरेरिव कथाऽऽश्चर्ये सतां संगतुम् ॥ ३६ ॥ |
असत्संगतिनिन्दा
अहो दुर्जनसंसर्गान्मानहानिः पदे पदे । पावको ^२लोहसङ्गेन मुद्गरैरभिहन्यते ॥ १ ॥ अन्तर्मलिनसंसर्गाच्छुत्वानपि दुष्यति । यक्ष्क्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाश्रयः ॥ २ ॥ दुष्टा दुष्टसंसर्गाददुष्टमपि गच्छति । सुराविन्दुनिपातेन पञ्चगव्यघटी यथा ॥ ३ ॥ अणुरप्यसता सङ्गः सद्गुणं हन्ति विस्तृतम् । गुणरूपान्तरं याति तक्रयोगाद्यथा पयः ॥ ४ ॥ दुर्बुत्तः क्रियते धूर्तैः श्रीमानात्मविवृद्धये । किं नाम खलसंसर्गः कुरुते नाशयाशवत् ॥ ५ ॥ ^३आनन्दमृगदावाग्निः ^४शीलशाखिमदद्विपः । ^५ज्ञानदीपमहावायुरयं खलसमागमः ॥ ६ ॥ असत्सङ्गाद्दृणज्ञोऽपि विषयांसक्तमानसः । अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ॥ ७ ॥ आहृत्य
पादटिप्पणी (Footnotes)
[वाम भाग]
१ उदयपर्वते. २ सूर्यसंनिधानेन. ३ प्रकाशितो भवति ४ अन्तःकरणे, पक्षे,-मध्ये ५ यवनानाम् यवनगृहस्थित सहोदरं शुकमुद्दिश्य मुनिगृहस्थितस्य शुकस्योक्तिरियम् ६ कल्पवृक्ष ७ कामधेनु. ८ सुगन्धम्. ९ मान्धम्. १० ददाति. ११ निराकरोति. १२ विस्तारयति.
[दक्षिण भाग]
१ तुम्बील्यथं २ लोहे ३ आनन्द एव मृगस्तस्य दावाग्निरिव दाहकत्वात् ४ शीलमेव शाखी वृक्षस्तस्य मदद्विप इव उन्मूलकत्वात्. ५ ज्ञानमेव दीपस्तस्य महावात इन्न, निर्वाणकरणत्वात्
| ८८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
रक्ष्यमाणापि यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ८ ॥ पात्रं^१मपात्रीकुरुते दहति गुणं^२ स्नेहं^३माशु नाशयति । अमले मलं^४ निचच्छति दीपज्वालेव खलमैत्री ॥ ९ ॥ दुर्जनजनसंसर्गात्सज्जनपुरुषोऽत्र दोषमायाति । रावणकृतापराधाज्जलधेरपि बन्धनं प्राप्तम् ॥ १० ॥ संगतिं स्वविपरीतगुणैस्त्वं मा कृथाः खलु सखे समयेडस्मिन् । पश्य पूर्वमपि कृष्णरूपतामर्जुनोऽपि^५ समवाप निश्चितम् ॥ ११ ॥ दुर्वृत्तसंगतिरनर्थपरम्पराया हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथेः कलत्रं प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १२ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते कारण्डकाकबककोककुलं प्रविष्टः । मूकोऽयमित्युपहसन्ति लुनन्ति पक्षान्नौचाश्रयो हि महतामपमानहेतुः ॥ १३ ॥
स्नेहवचनम्
सखि साहजिकं प्रेम दूरादपि विराजते । चकोरीनयनद्वन्द्वमानन्दयति चन्द्रमाः ॥ १ ॥ केन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः काश्राः सन्ति मयूरपङ्क्तिरमलो कालि. क्व वा मालती । हंसानां च कुलं क्व दूरविषये क्रास्ते सरो मानसं यो यस्याभिमतः स तस्स निकटे दूरेऽपि सन्वल्लभः ॥ २ ॥
सुमित्रप्रशंसा
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ १ ॥ यस्य मित्रेण संभाषा^६ यस्य मित्रेण संस्थितिः । मित्रेण सह यो भुङ्क्ते ततो^७ नास्तीह पुण्यवान् ॥ २ ॥ शुचित्वं^८ त्यागिता^९ शौर्यं सामान्यं^१० सुखदुःखयोः । दाक्षिण्यं^११ चानुरक्तिश्च^१२ सत्यता च सुहृद्गुणाः ॥ ३ ॥ अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः । प्रवर्त्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ ४ ॥ उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५ ॥ स बन्धुर्यो विपन्नानामापदुद्धरणे क्षमः । नतु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ६ ॥ औरसं कृतसंबन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ७ ॥ याचते कार्यकाले यः स किं भृत्यः स किं सुहृत् । अकार्यकार्यकर्ता यस्त्वनादिष्टोऽप्यसौ सुहृत् ॥ ८ ॥ तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ ९ ॥ व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदिग्धस्य सुहृद्दर्शनमौषधम् ॥ १० ॥ दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रव्यन्तरङ्गं स स्नेह इति कथ्यते ॥ ११ ॥ स्वाभाविकं तु यन्मित्रं भाग्यनैवाभिजायते । तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १२ ॥ न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां याहग्विचे स्वभावजे ॥ १३ ॥ शोकाराति^२ भयत्राणं प्रीतिविश्रम्भभाजनम्^३ । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४ ॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयन्समुद्धीनां फलं सुहृदनुग्रहम्^४ ॥ १५ ॥ नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलभ्यते ॥ १६ ॥ प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् ॥ १७ ॥ पापान्निवारयति योजयते हिताय गुह्यानि गूहति गुणान्प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १८ ॥ मित्रं प्रीतिरसायनं^५ नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तदुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १९ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ^६ हुतः । गन्तुं पावकमुन्मनस्तदमवद्दृष्ट्वा तु मित्रापदं^७ युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ २० ॥
कुमित्रनिन्दा
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १ ॥ रहस्यभेदो^८ याच्ञा^९ च नैष्ठुर्यं चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ २ ॥
संसारः
संसार तव निःसार पदवी^१० न दवीयसी^११ । अन्तरा^१२ दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १ ॥ संसारविषवृक्षस्य द्वे फले अमृतोपमे । काव्यामृतरसास्वाद आलापः सज्जनैः
पादटिप्पण्यः (Footnotes):
| वामभागः | दक्षिणभागः |
|---|---|
| १ अयोग्यम् | १ अकपटमित्रता |
| २ सूत्रम्, पक्षे,-विनयादि | २ शत्रु |
| ३ तैलम्, पक्षे,-प्रीति | ३ विश्वास |
| ४ मषीम्, पक्षे,-दोषम् | ४ सुहृत्स्वनुग्रहः प्रसादस्तम् |
| ५ मध्यमपाण्डव, पक्षे,-शुक्लवर्ण | ५ प्रीतेः रसायनमिव रसायनम् प्रीतिवर्धकमित्यर्थः |
| ६ मिथो भाषणम् | ६ अग्नौ |
| ७ तस्मात्पुरुषात् | ७ मित्रविपत्तिम् |
| ८ निर्मलचित्तत्वम् | ८ गुप्तप्रकाशनम् |
| ९ दानशीलत्वम् | ९ प्रार्थनम् |
| १० समानस्य भावः सामान्यम्, समत्वमित्यर्थः | १० मार्ग |
| ११ सरलत्वम् | ११ अतिदूरा |
| १२ प्रीति | १२ मध्ये |
संसारः, गृहस्थाश्रमप्रशंसा, गृहस्थाश्रमदूषणम्, पुत्रप्रशंसा ८९
| [संसारः / गृहस्थाश्रमप्रशंसा / गृहस्थाश्रमदूषणम्] | [गृहस्थाश्रमदूषणम् / पुत्रप्रशंसा] |
|---|---|
| सह ॥ २ ॥ दुःखाङ्गारकतीव्रः संसारोऽयं मैहानसो गहनः । इह विषयामृतलालस मानसमार्जार मा निपत ॥ ३ ॥ अयमविचारितचारुतया संसारो भाति रमणीयः । अत्र पुनः परमार्थदृशा न किमपि सारमणीयः ॥ ४ ॥ क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकहलः क्वचिद्वीणावाद क्वचिदपि च हाहेति रुदितम् । क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनुर्न जाने संसारः किममृतमयः किं विषममयः ॥ ५ ॥ कृच्छ्रेणो-मेध्यमध्ये नियॅमिततनुभिः स्थीयते गर्भंगर्ते कान्ताविश्लेष-दुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्तोकमप्यस्ति किंचित् ॥ ६ ॥ | यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥ १ ॥ न विप्रपादोदकपङ्किलानि न वेदशास्त्रध्वनिगर्जि-तानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥ २ ॥ क्रोशन्तः शिशवः सेवारि सदनं पङ्कावृतं चाङ्गणं शय्या दंशवती च रूक्षमशनं धूमेन पूर्णे गृहम् । भार्या निष्ठुरैभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा स्नानं शीतलवारिणा हि सततं धिग्धिग्गृहस्थाश्रमम् ॥ ३ ॥ तावद्विद्याऽनवद्या गुणगणमहिमा रूपसंपत्तिगौर्यै स्वस्थाने सर्वशोभा परगुणकथने वाक्यदुस्तावदेव । यावत्पाकाकुलाभिः स्वगृहयुवतिभिः प्रेषितापत्यवक्त्राद्वे बौबा नास्ति तैलं न च लवणमपीत्यादिवाचा प्रचारः ॥ ४ ॥ |
| ### गृहस्थाश्रमप्रशंसा | ### पुत्रप्रशंसा |
| न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । शास्त्रवित्स-त्यवादी च गृहस्थोऽपि विमुच्यते ॥ १ ॥ यदि राँमा यदि च रँमा यदि तनयो विनयधीगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ २ ॥ सविप्रैपादोदककर्दमानि सवेदशास्त्राध्वनिगर्जितानि । स्वाहास्वधाकारनिरन्तराणि स्वानन्दतुल्यानि गृहाणि तानि ॥ ३ ॥ सानन्दं सँदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मृष्टान्नपानं गृहे साधोः सङ्गमुपासते हि सततं धन्यो गृह-स्थाश्रमः ॥ ४ ॥ मानुष्यं वॅर्रवंशजन्म विभवो दीर्घापुरा-रोग्यता सन्मित्रं सुसुतः सती प्रियतमा भक्तिश्च नारायणे । विद्वत्त्वं सुजनत्वमिन्द्रियजयः सत्यात्रदाने रतिस्ते पुण्येन विना त्रयोदश गुणाः संसारिणां दुर्लभाः ॥ ५ ॥ वंशो विश्वावतंसो जनुरनुपहतं स्वान्तमौज्ज्यकान्तं लीला शीला-नुकूला क्षपितकलिमला कापि विद्यौँनवद्या । वाणी वेणी गुणाना समधिकयशसा साँधिका साधिका श्रीः श्रीमन्मँद्री-मयूरीसुदिर पुरहर त्वत्कृपाया विपॉकेः ॥ ६ ॥ | इदं तत्स्नेहसर्वस्वं सममाब्द्यदरिद्रयोः । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ १ ॥ गृहे जॊनुचरः केल्या मुग्धस्मित-मुखाम्बुजः । पुत्रः पुण्यवतामेव पात्रीभवति नेत्रयोः ॥ २ ॥ स्वगर्भशुक्तिनिर्मिञ्चं सुवृत्तं सुतमौक्तिकम् । वंशश्रीमितलकी-भूतं मन्दभाग्यस्य दुर्लभम् ॥ ३ ॥ वर्धते न चिर लोकं वशलक्षीरसंततिः । स्वल्पावशेषितस्नेहवर्तिमालेव दीपिकI ॥ ४ ॥ अन्तःकरणतत्त्वस्य दंपत्यो स्नेहसंश्रयात् । आन-न्दग्रन्थिरैकोऽयमपत्यमिति कथ्यते ॥ ५ ॥ दिग्वॉससं गत-व्रीडं जटिलं धूलिधूसरम् । पुण्याधिका हि पश्यन्ति गङ्गा-धरमिवात्मजम् ॥ ६ ॥ धूलिधूसरस्र्वाङ्गो विकसितदन्तकेसरः । आस्ते कस्यापि धन्यस्य द्वारि दन्ती गृहेऽर्भकः ॥ ७ ॥ निन्दते पितृभिस्तैस्तैर्निरपत्यधनः पुमान् । अैध्वनीनैरति-श्रान्तैरैवॆकेशीव पादपः ॥ ८ ॥ किं मृष्टं सुतवचनं मृष्टतरं किं तदेव सुतवचनम् । मृष्टान्मृष्टतमं किं श्रुतिपरिपकं तदेव सुतवचनम् ॥ ९ ॥ उरोरुहादुद्गमितैः पयोभिारापूर्य केत्या निजमास्यगर्भम् । फूत्कृत्य मातुर्वदने हसन्त तनू-भवं पश्यति कोऽपि धन्यः ॥ १० ॥ कृतचङ्क्रमणं गणेषु किचित्क्वणत्किंकिणिरुङ्घद्विपद्मम् । यदि सन्महितं सुतं श्रितं स्यात्तदिदं सद्य हृतं भवेत्तदानीम् ॥ ११ ॥ अहँ किमेम्बा किमेँभीष्टपदे तवेति मातुर्घुरि तातपृच्छया । प्रैलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हँसेजिघ्रति मूर्ध्नि पुण्य-भाक् ॥ १२ ॥ आलख्यदन्तसुकुलाननिमित्तहासैरव्यक्त- |
| ### गृहस्थाश्रमदूषणम् | |
| यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि । |
पादटिप्पणी (Footnotes)
[वामभागस्थ-टिप्पण्यः]
१ पाकगृहम् २ अशुचिमलादि तन्मध्ये. ३ जरायुणा बद्धशरीरै ४ गर्भाशये ५ अवमान ६ अल्पम् ७ न्यायेन संपादित धन येन ८ मुक्तो भवति ९ स्त्री १० लक्ष्मी . ११ ब्राह्मणचरण-क्षालनोदकेन पङ्किलानि १२ गृहम्. १३ उत्तमकुल उत्पत्ति १४ ऐश्वर्यम्. १५ विश्वभूषणम् १६ अन्त करणम् १७ निर्दोषा १८ प्रवाह १९ साधयित्री. २० गौर्यैव मयूरी तस्या मुदिरो मेघ, पक्षे, कामुक वल्लभ २१ हे त्रिपुरनाशक २२ परिणामः, फलमि त्यर्थ. २३ शिशुशब्दस्यात्र नपुसकत्व चिन्त्यम्
१२ सु र भा.
[दक्षिणभागस्थ-टिप्पण्यः]
१ उदकपूर्णम् २ मत्कुणपूर्णा ३ सखिग्धम् ४ कठोरभाषिणी. ५ इद तु पितुर्लौकिक सबोधनम् ६ जानुभ्यां चरतीति स , रिङ्गमाण इत्यर्थः ७ संततिरहिता ८ नम्रम् ९ पान्थै. १० वन्ध्य . ११ स्तनात् १२ माता १३ इष्टस्थाने. १४ प्रलोभ्यस्य प्रलोभनार्थं दर्शितस्य वस्तुनोऽनुरूपम् १५ अवघ्राणं करोति
९० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम्
वर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयानवहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १३ ॥ आनन्दसुतिरा-
त्मनो नयनयोरन्तं सुधाम्ब्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः
पुष्पं प्रसादो रतेः । आलाने हृदयद्विपस्य विषयारण्येषु संचा-
रिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥१४॥
कन्यापितृनिन्दा
जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महा-
न्वितर्कः । दत्ता सुख यास्यति वा न वेति कन्यापितृत्वं
खलु नाम कष्टम् ॥ १ ॥
सत्पुत्रप्रशंसा
एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो
जगच्चक्षुर्नक्षत्रैः किं प्रयोजनम् ॥ १ ॥ एकेनापि सुवृक्षेण
पुष्पितेन सुगन्धिना । वासित तद्वनं सर्व सुपुत्रेण कुलं
यथा ॥ २ ॥ प्रज्ञया वा विसारिण्या यो बलेन धनेन वा ।
धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ ३ ॥ एकेनापि
सुपुत्रेण विद्यायुक्तेन भासते । कुलं पुरुषसिंहेन चन्द्रेणेव
हि शर्वरी ॥ ४ ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणा-
ढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ५ ॥
पुण्यतीर्थे कृतं येन तपः काप्यतिदुष्करम् । तस्य पुत्रो
भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ६ ॥ वरमेको गुणी
पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च
तारागणोऽपि च ॥ ७ ॥ एकेनापि सुपुत्रेण सिङ्गी स्वपिति
निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति रासभी ॥ ८ ॥
एकेनापि सुपुत्रेण जायमानेन सत्कुलम् । शशिना चैव गगन
सर्वदैवोज्ज्वलीकृतम् ॥ ९ ॥ किं जातैर्बहुभिः पुत्रैः शोक-
संतापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम्
॥ १० ॥ कुम्भः परिमितमम्भः पिबत्यसौ कुम्भसंभवोऽ-
म्भोधिम् । अतिरिच्यते सुजन्मा कश्चिज्जनक निजेन चरि-
तेन ॥ ११ ॥ विद्याविहीना बहवोऽपि पुत्राः कल्पायुषः
सन्तु पितुः किमेतैः । क्षयिष्णुना वापि कलावता वा तस्य
प्रमोदः शशिनेव सिन्धोः ॥ १२ ॥ पात्रं न तापयति
नैव मलं प्रसूते स्नेहं न संहरति नैव गुणान्क्षिणोति ।
द्रव्यावसानसमये चलता न धत्ते सत्पुत्र एष कुलसद्मनि
कोऽपि दीपः ॥ १३ ॥
कुपुत्रनिन्दा
किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न
यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १ ॥ किं तया क्रियते
धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन
यो न विद्वान्न धार्मिकः ॥ २ ॥ एकेन शुष्कवृक्षेण दह्य-
मानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥३॥
कोटरान्तःस्थितो वह्निस्तरुरेकमं दहेत्खलु । कुपुत्रस्तु कुले
जातः स्वकुलं नाशयेत्तहो ॥ ४ ॥ अजातमृतमूर्खाणां वर-
माद्यौ न चान्तिमः । सकृद्दुःखकरावाद्यावन्तिमस्तु पदे
पदे ॥ ५ ॥ अजातमृतमूर्खेभ्यो मृताऽजातौ सुतौ वरम् ।
यतस्तावल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ६ ॥ यस्य
पुत्रो न वै विद्वान्न शूरो न च धार्मिकः । अप्रकाशं कुलं
तस्य नष्टचन्द्रेव शर्वरी ॥ ७ ॥ अविनीतः सुतो जातः
कथं न दहनात्मकः । विनीतैस्तु सुतो जातः कथं न पुरुषो-
त्तमः ॥ ८ ॥ दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ९ ॥ निरुत्साहं
निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचि-
ज्जनयेत्पुत्रमीदृशम् ॥ १० ॥ वरं गर्भस्रावो वरमृतुषु च
नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूप-
द्रविणगुणयुक्तोऽपि तनयः ॥ ११ ॥ पित्रोर्नैव वचः शृणोति
दिवसत्यागे ब्रजत्यालयं यान्तीर्भियुवतीभिरध्वनि मुहुः कौतू-
हलं विन्दति । बन्धूनामुपदेशवाचि वदति क्रोधैकतानं वचः
साधून्निन्दति दुर्जनं च मनुते मित्रं कुपुत्रो जनः ॥ १२ ॥
दैवाख्यानम्
दैवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत् । सरोम्भश्चा-
तकेनात्तं गलरन्ध्रेण गच्छति ॥ १ ॥ भाग्यवंतं प्रसूयेथा
मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च वने सीदन्ति
पाण्डवाः ॥ २ ॥ न केवलं मनुष्येषु दैवं देवेष्वपि प्रभु ।
सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ ३ ॥ सच्छिद्रो
मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः
पात्रं कज्जलभक्सनः ॥ ४ ॥ भगवन्तौ जगन्नेत्रे सूर्याचन्द्र-
मसावपि । पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते
॥ ५ ॥ किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः । दैवं
पादटिप्पण्यः (Footnotes)
वामभागस्थटिप्पण्यः:
१ लालनार्थमङ्कारूढशिशून् २ गजबन्धनस्तम्भ ३ प्रसरणशील्या ४ कार्यभारम् ५ पुरुषश्रेष्ठेन. ६ रात्रि ७ गर्दभी ८ अगस्त्य ९ अधिको भवति. १० आचरणेन ११ क्षयशीलेन १२ कलापूर्णेन १३ दीपपात्र, पक्षे, -मातापितरौ १४ कज्जलं, पक्षे,-मषीम् १५ अनुरागं, पक्षे,-तैलम् १६ कुलमेव सद्म गृह तस्मिन्
दक्षिणभागस्थटिप्पण्यः:
१ कदाचित् २ यौवनलोपहेतुना. ३ दोहनशीला. ४ प्रकाशरहितम् ५ विनयसहितः; पक्षे,-अविना मेषेण नीतः अग्रेर्मेषो वाहनम् ६ अग्निरूपः ७ विनययुक्त, पक्षे,-विना पक्षिणा गरुडेन नीतः ८ पुरुषश्रेष्ठ ; पक्षे,-विष्णु. ९ मलविसर्जनम् १० दैवम्
दैवाख्यानम् ९१
| यस्य फलान्वेषि करोति विफलाः क्रियाः ॥ ६ ॥ दैवे विमुखता याते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाऽथ सहोदरः ॥ ७ ॥ पिबन्ति मधु पद्मेषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ ८ ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवाप्स्यद्यद्विधेर्मनसि स्थितम् ॥ ९ ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मीं हरो विषम् ॥ १० ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । पाषाणस्य कुतो विद्या येन देवत्वमागतः ॥ ११ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं काल नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ १३ ॥ विपत्तौ किं विषादेन संपत्तौ हर्षेणेन किम् । भवितव्यं भवत्येव कर्मणामीदृशी गतिः ॥ १४ ॥ हरिणापि हरेणापि ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा न शक्या परिमार्जितुम् ॥ १५ ॥ सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुसरन्ति स्वजन यस्य दैवमदक्षिणम् ॥ १६ ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७ ॥ अयाचितः सुख दत्ते याचितश्च न यच्छति । सर्वस्व चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥ १८ ॥ मनोरथान्करोत्युच्चैर्जनो दैवहतस्तपि । सिद्धयस्सिद्ध्योः सम कुर्याद्दैवं हि फलसाधनम् ॥ १९ ॥ पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः ॥ २० ॥ तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ २१ ॥ भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्य गतमित्यादुर्हगजभुक्तकपित्थवत् ॥ २२ ॥ महतामाश्रयः पुंसा फल भाग्यानुसारतः । ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षकः ॥ २३ ॥ कर्मणा बाध्यते बुद्धिर्न बुद्ध्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ २४ ॥ गुणोऽपि दोषता याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते ॥ २५ ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ २६ ॥ पुरुषः पौरुषं तावद्यावद्दैव तु सन्मुखम् । विपरीतेगते दैवे पुरुषो न च पौरुषम् ॥ २७ ॥ न देशसेवया याति कर्मबन्धः परिक्षयम् । जघास घास- | मेवासौ बलीवर्दः कपर्दिनः ॥ २८ ॥ अवश्यभाविभावाना प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन्नलरामयुधिष्ठिराः ॥ २९ ॥ भवितव्यं यथा येन नासो भवति चान्यथा । नीयते तेन मार्गेण स्वय वा तत्र गच्छति ॥ ३० ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणा बुद्धिः कर्मानुसारिणी ॥ ३१ ॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका । ता देवोऽपि न शक्नोति व्युल्लङ्घ्य लिखितु पुनः ॥ ३२ ॥ येन यत्रैव भोक्तव्य सुखं वा दुःखमेव वा । स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ॥ ३३ ॥ सा सा संपद्यते बुद्धिः सा मतिः सा च भावना । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ३४ ॥ अनुरागवती संध्या दिवसस्तत्तैःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ३५ ॥ अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ३६ ॥ विकटाटव्यामटन शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेश विधिविपाकः कथं न संधार्यः ॥ ३७ ॥ किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूलम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ३८ ॥ द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ३९ ॥ अनुकूले सति धैातरि भवत्यनिष्टादपीष्टमविलम्बम् । पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ ४० ॥ अनुचितमेवाचरित पशुपतिना यद्विधेः शिरश्छिन्नम् । छिन्नो न चास्य हस्तो येनाय दुर्लिपिं लिखति ॥ ४१ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ ४२ ॥ सर्वाङ्गमर्पयन्ती लीलासुरसं क्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ४३ ॥ आरोहतु गिरिशिखर तरतु समुद्र प्रयातु पातालम् । विधिलिखिताक्षरभालं फलति कपालं न भूपालः ॥ ४४ ॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशत. ईश्वरो जनार्दनः सोऽपि चित्रमिदम् ॥ ४५ ॥ यन्मनोरथशतैरगोचर न स्पृशन्ति च गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा लीलयैव विदधाति तद्विधिः ॥ ४६ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहत विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ ४७ ॥ दाता बलिः |
| १ पराक्रम . २ प्राप्नोति ३ अप्रेर्यमाणानि ४ खेदेन ५ दैवे ६ वामम् प्रतिकूलमिति यावत् ७ सुवर्णमयम् ८ प्रतिकूलत्वमापन्ने दैवे | १ शिवस्य २ रक्तिमा, पक्षे,-रति ३ अग्रवर्ती, पक्षे,-आज्ञाकरः. ४ दैवे ५ शिवेन ६ दुर्लेखम् ७ पुरुषवदाचरन्ती स्त्री कामशास्त्रे प्रसिद्धा, तद्वत् ८ मत्स्यावतार |
९२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
प्रार्थयिता च विष्णुर्दानं भुवो वाजिमखस्य कालः । नमो-
ऽस्तु तस्मै भवितव्यतायै यस्याः फलं बन्धनमेव जातम्
॥ ४८ ॥ प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं
न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं
नहि तत्परेषाम् ॥ ४९ ॥ मा धाव मा धाव विनैव दैव
नो धावन साधनमस्ति लक्ष्म्याः । चेद्धावन साधनमस्ति
लक्ष्म्याः श्वा धावमानोऽपि लभेत लक्ष्मीम् ॥ ५० ॥ ईशः
करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलाख्यः । तथापि
भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः
॥ ५१ ॥ स्वयं महेशः श्वशुरो नगेशः सखा धनेशस्तनयो
गणेशः । तथापि भिक्षाटनमेव शंभोर्बलीयसी केवलमीश्वरे-
च्छा ॥ ५२ ॥ असंभवं हेममृगस्य जन्म तथापि रामो
लुलुभे मृगाय । प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां
मलिनीभवन्ति ॥ ५३ ॥ न भूतपूर्वो न च केन दृष्टो हेम्नः
कुरंगो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥ ५४ ॥ धनानि भूमौ पशवश्च
गोष्ठे भार्या गृहद्वारि जनः श्मशाने । देहश्चितायां परलोक-
मार्गे कर्मानुगो गच्छति जीव एकः ॥ ५५ ॥ वने रणे
शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं
विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५६ ॥
सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा ।
अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः
॥ ५७ ॥ यः सुन्दरस्तद्दयिता कुरूपा या सुन्दरी सा
पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि
विचेष्टितानि ॥ ५८ ॥ अमन्वनान्ते नवमञ्जरीषु न षट्पदो
गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता
बलीयसी केवलमीश्वरेच्छा ॥ ५९ ॥ विधौ विरुद्धे न पयः
पयोनिधौ सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं
सिध्यति कल्पपादपे न हेम हेमप्रभवे गिरावपि ॥ ६० ॥ अव-
श्यमन्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना
॥ ६१ ॥ निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन
कारणेन । बलवति न तथा यथाबलानां प्रभवति कृष्टशरा-
सनो मनोभूः ॥ ६२ ॥ हरशिरसि शिरांसि यानि रेजुः शिव
शिव तानि लुठन्ति गृध्रपादे । अयि खलु विषमैः पुराकृतानां
भवति हि जन्तुषु कर्मणां विपाकः ॥ ६३ ॥ क्व च ननु
जनकाधिराजपुत्री क्व च दशकंधरमंदिरे निवासः । अयि
खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः
॥ ६४ ॥ क्व नु कुलमकलङ्कमायताक्ष्याः क्व नु रजनीचर-
संगमापवादः । अयि खलु विषमः पुराकृतानां भवति हि
जन्तुषु कर्मणां विपाकः ॥ ६५ ॥ क्व वनं तरुवल्कभूषणं
नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो बत
धातुश्चरितं सुदुःसहम् ॥ ६६ ॥ सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः । तदपि तत्क्षणभङ्गि करोति चेदहह
कष्टमपण्डितता विधेः ॥ ६७ ॥ गजभुजंगमयोरपि बन्धनं
शशिदिवाकरयोर्ग्रहपीडनम् । मतिमतां च समीक्ष्य दरि-
द्रता विधिरहो बलवानिति मे मतिः ॥ ६८ ॥ यदपि
जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके । तदपि
नाथ पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ६९ ॥
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ७० ॥
यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च
शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च
तच्च तावच्च तत्र च विधातुवशादुपैति ॥ ७१ ॥ नैवाकृतिः
फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि
सेवा । भाग्यानि पूर्वतपसा किल संचितानि काले फलन्ति
पुरुषस्य यथैव वृक्षाः ॥ ७२ ॥ आकाशमुत्पततु गच्छतु
वा दिगन्तमम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मा-
न्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानु-
बन्धः ॥ ७३ ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो
जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधि-
रत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ७४ ॥ कैवर्त-
कर्कशकरग्रहणच्युतोऽपि जालान्तरे निपतितः शफरो वराकः ।
दैवात्ततो विगलितो गिलितो बकेन वक्रे विधौ वद कथं
व्यवसायसिद्धिः ॥ ७५ ॥ दैवे समर्प्य चिरसंचितकर्मजालं
सुस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतोऽपि
दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ ७६ ॥
येनाञ्चलेन सरसीरुहलोचनायास्त्रातः प्रभूतपवनादुदये
प्रदीपः । तेनैव सोऽस्तसमयेऽस्तमयं विनीतः कष्टे विधौ
भजति मित्रममित्रभावम् ॥ ७७ ॥ आधोरणाङ्कुशभयात्करि-
कुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभ-
नखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥ ७८ ॥
संजातसान्द्रमकरन्दरसां क्रमेण पातुं गतश्च कलिकां कम-
लस्य भृङ्गः । दग्धा निपत्य सहसैव हिमेन सैषा वामे विधौ
नहि फलन्त्यभिवाञ्छितानि ॥ ७९ ॥ सिंहो बली गिरि-
पादटिप्पण्यः (Footnotes)
[वामभागः]
१ अश्वमेधस्य. २ दैवाय. ३ दैवे, पक्षे,-चन्द्रे ४ वक्रे, पक्षे,-विपरीते ५ हिमालय. ६ पूर्वसञ्चितकर्मसंबद्ध ७ अमर ८ चम्पककलिकाम् ९ दुरासदा, दुःप्रतीकारा वा १० नितान्तचञ्चलस्वभावेन ११ मदनः. १२ क्लेशदः १३ परिणामः
[दक्षिणभागः]
१ मूर्खता. २ दैवम् ३ दैववशात् ४ कैवर्तो धीवरः, तस्य कठोरकरग्रहणाच्च्युतः ५ शत्रुस्वभावम्
दैवाख्यानम् ९३
गुहागहनप्रवासी वासोदरे वसति भूमिभृता बिडालः। नो^१
पौरुषं कुलमपि प्रचुरा न वाणी दैव बलीय इति मुञ्च सखे
विषादम् ॥ ८० ॥ सदसि विदुरभीष्मद्रोणशारद्वतानां
पतिभिरमरकल्पैः पञ्चभिः पालितापि । अहह परिभवस्य^३
द्रौपदी पात्रमासीद्बलवति सति दैवे बन्धुभिः किं विधेयम्
॥ ८१ ॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या^४
यत्नतः पण्डितेन । अतिरभसकृतानां^६ कर्मणामाविपत्तेर्भवति
हृदयदाही शल्यतुल्यो विपाकः ॥ ८२ ॥ स हि गगन-^७
विहारी कलुषध्वंसकारी^८ दशशतकरकारी ज्योतिषा मध्य-
चारी । विधुरपि विधियोगाद्ग्रस्यते राहुणासौ लिखितमिह
ललाटे प्रोज्झितुं कः समर्थः ॥ ८३ ॥ अयममृतनिधानं
नायकोऽप्योषधीनां शतभिषगनुयातः^१० शम्भुमूर्द्धोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः
केन वा लङ्घनीयः ॥ ८४ ॥ शशिनि खलु कलङ्कः कण्टकः
पद्मनाले युवतिकुचनिपातः पकता केशजाले । जलधिजल-
मपेयं पण्डिते निर्धनत्वं वयसि धनविवेको निर्विवेको
विधाता ॥ ८५ ॥ प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरि-
चयचले चिन्ताचके निधाय विधिः खलः । मृदमिव
बलात्पिण्डीकृत्य प्रगल्भकुलालवद्भ्रमयति मनो नो जानीमः
किमत्र करिष्यति ॥ ८६ ॥ क्वचित्पाणिप्राप्तं घटितमपि
कार्यं विघटयत्यशक्यं केनापि क्वचिदघटमानं घटयति ।
तदेव सर्वेषामुपरि परितो जाग्रति विधावुपालम्भः कोऽयं
जनतनुघनोपार्जनविधौ ॥ ८७ ॥ नमस्यामो देवान्ननु हत-
विधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैक-
फलदः । फलं कर्म्मायत्तं यदि किममरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति^११ ॥ ८८ ॥
त्रिलोकेशः शार्ङ्गी^१२ शबरशर^१३ लक्ष्यत्वमगमद्विधाता^१४ लोकाना-
मलभत शिरःकृन्तनविधिम्^१५ । प्रयातो तौ राहोर्दिनकर-
शशाङ्कौ कवलतां^१६ प्रभुर्नभः शंसुः शिरसि लिखितं लङ्घयति
कः ॥ ८९ ॥ सुधाशौर्जातेयं कथमपि कलङ्कस्य कणिका
विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः
पुत्रो न किमु हरचूडार्चनमणिर्न वा हन्ति ध्वान्तं^१७ जगदु-
परि कि वा न वसति ॥९०॥ लीलाये^१ गोमये^२ मृगपरिषद्वि
श्वापदकुले करिष्यन्कार्पण्यं किमिह महिमानं गमयसि ।
निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिपदगामभद्रं^५ भद्रं वा
विधिलिखितमुन्मूलयति कः ॥ ९१ ॥ धुनोति ध्वान्तानि^३
व्यपनयति नीहारपटल^४ कुलं राजीवानां^५ दलयति रथाङ्गं^६
रमयति । जगद्धात्री देवैः^७ सुखयति जनानां च नयनं न
याति क्षेमान्^८ यदि तदिह दैवं जयतु कः ॥ ९२ ॥ त
एवामी बाणास्तदपि हरलब्धं धनुरिदं स एवाहं पार्थः
प्रमथितसुसरातिनिचयः । इमास्तास्ता गोप्यो हरिचरण-
चित्तैकशरणा ह्रियन्ते गोपालैर्विधिरिह बलीयान्न तु नरः
॥ ९३ ॥ अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो
भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति
सर्वामरगुरोर्विधौ वक्रे^९ मूर्ध्नि स्थितवति वयं के पुनरमी
॥ ९४ ॥ पिता रत्नाभारः शुचिमहचरास्ते च मणयः स्वसा
स्निग्धा लक्ष्मीरयमवरजः कल्पविटपी । अहो काम्यं धातु-
स्तदपि खलु शङ्खः^१० प्रतिपदं रुदित्वा यद्दीर्घं दिशि दिशि
वराटं^१३ मृग्यते ॥ ९५ ॥ पत्रं नैव यदा करीरविटपे दोषो
वसन्तस्य किं नोलूकेन^११ विलोक्यते यदि दिवा सूर्यस्य किं
दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं
यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं^१२ कः क्षमः^१३ ॥ ९६ ॥ या
साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं
कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराध्य सत्क्रिया
भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनिन्गुणेषु विपु-
लेष्वास्थां वृथा मा कृथाः ॥ ९७ ॥ ब्रह्मा येन कुलालव-^१४
न्नियमतो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तः
सदा संकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९८ ॥
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति
मरुस्थलेऽपि^१५ नितरां मेरौ ततो नाधिकम् । तद्धीरो भव
वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधा-
वपि घटो गृह्णाति तुल्यं जलम् ॥ ९९ ॥ नेता यस्य
बृहस्पतिः प्रहरणं^१६ वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः
किल हरेरैरावतो वारणः^१७ । इत्याश्चर्यबलान्वितोऽपि बलभि-^१८
द्भूभः परैः सगरे तद्युक्तं वरमेव दैवशरणं धिग्धिग्वृथा
पौरुषम्^१९ ॥ १०० ॥ जातः सूर्यकुले पिता दशरथः क्षोणी-^१९
भुजामग्रणीः सीता सत्यपरायणा प्रणयिनी यस्यानुजो
लक्ष्मणः । दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः
पादटिप्पण्यः (Footnotes)
वामभागः (Left Column):
१ सभायाम् २ देवतुल्यै ३ पराभवस्य ४ परिणाम ५ नि-
श्चेतव्या ६ अतित्वरया. ७ आकाशसंचारी ८ अन्धकारनाशकर्ता
९ नक्षत्राणाम् १० नक्षत्रविशेषेण, पक्षे,-भिषजां वैद्यानां शतेन
११ समर्थो भवति १२ कृष्ण १३ शबरो जरानामा भिल्ल प्रभासे
परस्पर कलहेनाखिलयादवोपसंहारानन्तरमश्वत्थस्याधस्तादामोरो
दक्षिण पाद निधायस्थिते भगवति जरानाम्ना भिल्लेन दूरतो भगवच्चरण
दृष्ट्वा मृगमुखभ्रमाद्भगवत्पादो बाणेन विद्ध इति भागवते १४ ब्रह्मा
१५ शिरःकर्तनम् १६ आस्ताम् १७ अन्धकारम्
दक्षिणभागः (Right Column):
१ महिषे २ मृगधूतके ३ तमांसि ४ हिमपटलम् ५ हस्तिनाम्
६ चक्रम् ७ सूर्यं ८ दृढत्वम् ९ चन्द्रे, पक्षे,-दैवे १० कपर्दकम्
११ दिवाभीतेन १२ शोधयितुम् १३ समर्थ १४ कुम्भकार
१५ क्षारभूमौ १६ अयुध्यम् १७ गज १८ इन्द्र० १९ नृपाणाम्
| ९४ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
स्वयं रामो येन विडम्बितोऽपि विधिना चान्ये जने का कथा ॥ १०१ ॥ जामाता पुरुषोत्तमो भगवती लक्ष्मीः स्वयं कन्यका दूतो यस्य बभूव कौशिकमुनिर्यज्वा वसिष्ठः स्वयम् । दाता श्रीजनकः प्रदानसमये चैकादशस्था ग्रहाः किं ब्रूमो भवितव्यता हतविधे रामोऽपि यातो वनम् ॥ १०२ ॥ आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः । चन्द्रं शंकरशेखरेऽपि निवसन्पक्षक्षये क्षीयते प्रायः सज्जनसङ्गतोऽपि लभते दैवानुरूपं फलम् ॥ १०३ ॥ आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे$^२$ बन्धौ निर्ममता जनेषु निरता नीडे$^३$ पराधीनता । एतैरेव गुणैर्युताः परभृतस्त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥ १०४ ॥ गीतं कोकिल ते मुदा रसविदः शृण्वन्ति कर्णामृतं नो किंचिद्वितरन्ति ते तरुदलैरेव स्वयं जीवसि । कर्णाग्रैर्मुदमुद्विरन्ति विरुतं काकास्तु तेभ्यो बलिं प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्रं विधेः क्रीडितम् ॥ १०५ ॥ छित्त्वा पाशमपास्य कूटरचना भङ्क्त्वा वलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोति विमुखे किं वा विधौ पौरुषम् ॥ १०६ ॥ लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः स्थित्यर्थं परमेश्वराभ्युपगतस्तेनापि मूर्ध्नि धृतः । वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ १०७ ॥ रामे प्रव्रजनं बलेर्नियमनं पाण्डोः सुताना वनं वृष्णीना निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरण सञ्चिन्त्य लङ्केश्वरे सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ १०८ ॥ भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतिते नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसो तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणा वृद्धौ क्षये कारणम् ॥ १०९ ॥ माता यस्य धराघरेन्द्रदुहिता तातो महेशस्तथा भ्राता विघ्नकुलान्तकः पितृसखो देवो धनाना पतिः । ख्यातः क्रौञ्चविदारणे सुरपतेः सेनाग्रग. षण्मुखस्तद्देवबलेन कुत्र घटते नाद्यापि पाणिग्रहः$^१$ ॥ ११० ॥ काश्चित्तुच्छयति प्रपूरयति वा काश्चिन्नयत्युन्नतिं काश्चित्पातविधौ करोति च पुन. काश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसङ्घतिमिमा लोकस्थिति बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ १११ ॥
तुल्यं भूभृति$^१$ जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपुस्तुल्यं दोर्वीर्यममुद्गटङ्कदलन$^३$ तुल्यं च पाषाणयोः । एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं तद्वारे विहिता परस्य तु पदाघातास्पद देहली ॥ ११२ ॥ यद्बभ्रं धनुरीश्वरस्य समरे यज्जामदग्न्यो जितस्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः । एकैक दशकंधरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्ण्य येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ११३ ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदा भाजनम् ॥ ११४ ॥ भूयिष्ठं द्रविणात्मजं$^४$ जनयितुं लिप्सावता चेतसा नार्यः पञ्च मया क्रमेण कुलजाः काले संमुद्वाहिताः$^५$ । सद्भिद्या कविता विदेशवसतिः सेवा तथाभ्यर्थना दैवेन प्रतिबन्धकेन युगपद्ध्याः$^६$ समस्ताः कृताः ॥ ११५ ॥ मजत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे$^७$ वाणिज्यं कृपिसेवनादिसकला विद्याः कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नोऽभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ११६ ॥ लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधेर्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शंभुना । अद्याप्युज्झति नैव दैवविहित क्षैण्य क्षपार्बल्लभः$^८$ केनान्येन विलङ्घ्यते विधिगतिः पाषाणरेखासखी ॥ ११७ ॥ अम्भोधिः स्थलता स्थलं जलधिता धूलीलव. शैलता मेरुमृत्कणता तृणं कुलिशता$^९$ वज्रं तृणप्रायताम् । वह्निः शीतलता हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११८ ॥ जन्म ब्रह्मकुलेऽग्रजो धनपतेर्यः कुम्भकर्णाग्रजः सूनुर्वासवजित्स्वयं दशशिरा दोर्दण्डका विंशतिः । अस्त्रं कौमगर्म$^१०$ विमानमजयं मध्येसमुद्रं पुरी सर्वं निष्फलमेतदेव नियतं दैव पर दुर्जयम् ॥ ११९ ॥ यत्राखण्डेळदन्तिदन्तमुसलान्याखण्डितान्याहवे धारा यत्र पिनाकपाणिपरशोराकुण्ठितामागताः । तेन्मे$^१३$ तावदुरो नृसिंहकरजैर्व्यादीर्यते साप्रतं दैवे दुर्बलता गते तृणमपि प्रायेण वज्रायते ॥ १२० ॥ दोःसद्देहँ$^१४$वंशवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रायं स्वयमस्ति सेयममरावत्यापि वन्ध्या पुरी नीता मर्कटकेन कामपि दशा
पादटिप्पण्यः :
| १ यस्मिन्विवाहे इति शेष | १ पर्वते |
| २ वसन्ते | २ दृढता |
| ३ कुलाये. | ३ उद्ग्या ये टङ्कास्तैर्दलनम् |
| ४ कोकिला | ४ द्रविण द्रव्य तदेत्वात्मज पुत्रस्तम् |
| ५ मृगबन्धनी. | ५ विवाहिता |
| ६ यादववंशीयानाम् | ६ निष्फला |
| ७ मञ्जूषासकुचितशरीरस्य | ७ युद्धे. |
| ८ पार्वती | ८ चन्द्र |
| ९ गजानन | ९ वञ्जताम् |
| १० कुबेरः | १० इच्छानुकूलगति. |
| ११ विवाह | ११ इन्द्रस्यैरावत- |
| १२ शिव. | |
| १३ हिरण्यकशिपोरिकिरियम्. | |
| १४ समूहः |
दैवाख्यानम्, जरावर्णनम् ९५
धिग्दैवमावश्यकम् ॥ १२१ ॥ येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह स्वच्छन्दं, भ्रमणं च कन्दरगणे पीतं पयो नैर्झरम् । सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणैर्दैवेन ललाटपत्रलिखितं तन्मोज्झितुं कः क्षमः ॥ १२२ ॥ दैवेन प्रभुणा स्वय जगति यद्यस्य प्रमाणीकृतं तत्तत्सोपनमेन्मनागपि महान्नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यह सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १२३ ॥ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्येनः परिभ्रामति । इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस्तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥ १२४ ॥ रेवोवारिणि वारेणेन विपुले राजीवराजीरजःपुञ्जापिञ्जरतोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे । धौतं येन मृगारिरक्तमसकृद्दन्तान्तरालस्थित कोष्णं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ १२५ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ९६ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १४ ॥ श्रुतिः शिथिलता गता स्मृतिरपि प्रनष्टाधुना गतिर्विपथमार्गता विगलिता द्विजाना ततिः । गवामपि च संहृतिः समुचितक्रियाश्च्युता कृता न जरया तया कलियुगस्य साधर्म्यता ॥ १५ ॥ गात्र संकुचित गतिर्विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते । वाक्य नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १६ ॥ स्थूलप्रावरणोऽतिवृत्तकथकः कासाश्रुलालाविलो भग्नोर्वरूपिट्ठजानुजघनो मुग्धोऽतिथीन्वारयन् । शृण्वन्पृष्ट्वध्रुवचचांसि धनुषा सत्रासयन्वायसानाशापाशनिबद्धजीवविभवो वृद्धो गृहे ग्लायति ॥ १७ ॥ पादौ संस्तम्भयन्ती मुखमपि नमयन्त्यङ्गमाकुञ्चयन्ती हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुतीः श्रावयन्ती । रत्योद्वेङ्गजयन्ती
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंउदरपूरणदूषणम्, सेवकनिन्दा, जीवितसाफल्यम् ९७
[उदरपूरणदूषणम् - अनुवृत्तम्]
हरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुल्लज्जामित्यहं किं न वेद्मि ।
तदपि वद वदान्य तं सदा प्रत्यहं मां जठरपिठरवर्ती बहिरर्थीकरोति ॥ ७ ॥
गङ्गातरङ्गकणशीकरैःशीतलानि विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरतो मनुष्यः ॥ ८ ॥
अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ ९ ॥
ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तःस्फुरितहसितं वासराणां क्षरेयं ध्यानच्छेदे शिखरकुहरग्रावशव्यानिषण्णः ॥ १० ॥
मातर्नातः परमनुचितं यत्खलानां पुरस्तादस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजरसले वत्सले वाणि कुर्यां प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ ११ ॥
दीनो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ९८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
[वामभागः]
पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवि-
तम् ॥ ३ ॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति ।
अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ४ ॥ चलं
वित्तं चलं चित्तं चले जीवितयौवने । चलाचलमिदं सर्वं
कीर्तिर्यस्य स जीवति ॥ ५ ॥ यस्मिञ्जीवति जीवन्ति बहवः
स तु जीवति । काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूर-
णम् ॥ ६ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ७ ॥ अञ्जलि-
रकारि लोकैर्गलानिर्मेनास्त्वैव रञ्जिता जगती । सध्याया इव
वसतिः स्वल्पापि सखे सुखायैव ॥ ८ ॥ यज्जीवति क्षणमपि
प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरमज्यमानम् । तन्नाम
जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय
बलिं च भुङ्क्ते ॥ ९ ॥ यो नात्मजे न च गुरौ न च
भृत्यवर्गे दीने दया न कुरुते न च बन्धुवर्गे । किं तस्य
जीवितफलं हि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंकलिमहिमा ९९
मध्योत्पन्नाः कृतयुगधर्मानुसारिणः किमिति । इति रोषादिव कलिना पीड्यन्ते साधवो बलिना ॥ ८ ॥ नौधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्रे वा । दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुतिस्मृतिसुतर्कान् ॥ ९ ॥ सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु वैरं पश्यन्तु लोकाः कलिकौतुकानि ॥ १० ॥ एतादृशे कलियुगेऽपि शतेषु कश्चिज्जातादरो जगति यः श्रुतिमार्ग एव । यत्किंचिदाचरतु पात्रमसौ स्तुतीना श्लाघ्य मितौपमपि किं न मैरौ सरश्चेत् ॥ ११ ॥ उपनयनविवाहाद्युत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः । विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ १२ ॥ न देवे देवत्वं कपटपटवस्तापसजना जनो मिथ्यावादी विरलाुरुद्विजैलधरः । प्रसङ्गो नीचानामवनि-
पतयो दुष्टमनसो जना भ्रष्टा नष्टा अहह कलिकालः प्रभवति ॥ १३ ॥ गता गीता नाशं कचिदपि पुराणं व्यपगतं विलीनाः स्मृत्यर्था निगमनचयो दूरमगमत् । इदानीं रैदासप्रभृतिवचनैर्मोक्षपदवी तदेवं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
मातङ्गाञ्चिकटं गतानगणयन्मार्गान्मुहुर्गाहते ॥ २९ ॥ नीचै-
र्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पँक्तिवि-
दूषकैः सह नरैरज्ञातवेदाक्षरैः । मद्यास्वादनमत्तचित्तजन-
तामोहाय भीहानितः कर्माण्यारहते श्रुतिस्मृतिवचोदूरार्य्य-
साराण्यहो ॥ ३० ॥ विद्वत्ता वसुधातले विगलिता पाण्डि-
त्यधर्मो गत. श्रोतॄणा हृदयेष्वबुद्धिरधिका ज्ञान गत चारणे ।
गाथागीतविनोदवाक्यरचनायुक्त्या जगद्रञ्जितं ज्योतिवैद्यक
शास्त्रसारमखिलं शूद्रेषु जातं कलौ ॥ ३१ ॥ धिक्त्वा रे कलि-
काल याहि विलयं केयं विपर्यस्तता हा कष्टं श्रुतिशालिना
व्यवहृतिर्म्लेच्छोचिता दृश्यते । एकैर्वाङ्मयदेवता भगवती
विक्रेतुमानीद्यते नि शङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुद्धाट्यते
॥ ३२ ॥ कन्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतृतीयं राजप्रकरणम्
| राजसभावर्णनम् | राजमिलनम् |
|---|---|
| सभाकल्पतरु वन्दे वेदशास्त्रोपशोभितम् । शास्त्रगुणसमाकीर्णं विद्वद्भ्रमरमण्डितम् ॥ १ ॥ विद्वासः कवयो महागायकाः परिहासकाः । इतिहासपुराणज्ञाः सभा सप्ताङ्गसयुता ॥ २ ॥ धनैर्धर्मैर्मराजैश्च कविभिर्गुरुभिर्वृता । सभा ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ ॥ ३ ॥ सुवर्णवर्णललिता पदविन्यासशालिनी । वाणीव भाति ललिता सभा ते जगतीपते ॥ ४ ॥ विबुधावलिसंपूर्णा सुखपूर्णदिगीश्वरा । चतुराननसंपूर्णा स्वर्गादपि समाधिका ॥ ५ ॥<br>गुरु<sup>१</sup>नेकः कवि<sup>२</sup>रेकः सदसि मघोनः<sup>३</sup> कलाधरो<sup>४</sup>ऽप्येक । अद्भुतमत्र सभाया गुरवः कवयः कलाधराः सर्वे ॥ ६ ॥ अनेकविद्वज्जनरत्नपूर्णं वेदोदकन्यायतरङ्गरम्यम् । अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ ७ ॥ सारस्वते स्रोतसि |
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १०२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
असिधारापथे नाथ शत्रुशोणितपिच्छिले । आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ॥ १३ ॥ कोऽप्यन्यः कल्पवृक्षोऽयमेकोऽस्ति क्षितिमण्डले । यत्पाणिपल्लवोऽप्येकः कुरुतेऽधः सुरद्रुमम् ॥ १४ ॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । ^१मार्गणौघः समायाति ^२गुणो याति दिगन्तरम् ॥ १५ ॥ युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान् । पञ्चा सहदेवोऽसि वाच्यता नकुलस्य ते ॥ १६ ॥ बलिकर्णदधीच्याद्याः पुरा पञ्चत्वमागताः । पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १७ ॥ एक एव महान्दोषो भवता विमले कुले । लम्पन्ति ^३पूर्वजा कीर्ति जाता जाता गुणाधिकाः ॥ १८ ॥ भ्रमासु रिपुसेनासु नरेन्द्र त्वं महामहा । खङ्गान्तर्निजमेवैकमद्राक्षीः सम्मुख मुखम् ॥ १९ ॥ किं वर्ण्यता कुचद्वन्द्वमस्राः कमलचक्षुषः । आसमुद्रकरग्राही भवान्यत्र करप्रदः ॥ २० ॥ वेधा ^४वेदनयाश्लिष्टो गोविन्दोऽपि ^५गदान्वितः । शम्भुः ^६शूली ^७विषादी च देव केनोपमीयसे ॥ २१ ॥ ^८तृष्णापहारी विमलो ^९द्विजावासो जनप्रियः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यराजप्रशंसा | १०३
थिलेश्र्चैरप्यपराङ्मुखचेतसम् । त्वा पराङ्मुखता निन्युः केवलं परयोषितः ॥ ५० ॥
तव निर्वर्णयद्धूर्णं स्वर्णं वर्णयतो गिर । त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम् ॥ ५१ ॥
न समासः समर्थस्य वसु व्याकरणस्य ते । विग्रहो नैव केनापि न परः सर्वनामभाक् ॥ ५२ ॥
अर्थिना कृपणा दृष्टिरस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ५३ ॥
धैर्यलावण्यगाम्भीर्यप्रमुखैस्तवमुद्वहतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ ५४ ॥
अलौकिकमहालोकप्रकाशितजगत्त्रयः । स्तूयते देव सदृशमुक्तारत्न कैर्भवान् ॥ ५५ ॥
शासति त्वयि हे राजन्नखण्डावनि-मण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ५६ ॥
मत्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजनि ते राजन्न तथा व्यत्ययायिनः ॥ ५७ ॥
पद्मोदयदिनाधीशः सदागतिसमीरतः । भूभृदावलिदम्भोलिरेक एव भवान्भुवि ॥ ५८ ॥
सन्नारीभरणोमा यमाराध्य विधुशेखरम् । सन्नारी-भरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५९ ॥
देव त्वमेव पातालमेशाना
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १०४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
कण्टककलिताङ्गयष्टयो देव । त्वयि कुपितेऽपि प्रागिव विश्वस्तास्ते रिपुस्त्रियो जाताः ॥ ८१ ॥ सततमुसलासङ्गाद्बहुत्तरगृहकर्मघटनया नृपते । द्विजपत्नीना कठिना. सति भवति कराः सरोजसुकुमाराः ॥ ८२ ॥ कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी सतत विभाति यस्य तव ॥ ८३ ॥ रत्नसानुशिखराङ्गणफुल्लकल्पपादपतलेषु निष्षणाः । उद्गृह्णन्ति नृपहंस सुवर्ण त्वद्यशः प्रवरकिन्नररामा. ॥ ८४ ॥ गाढकान्तदशनक्षतव्यथासंकटादरिवधुजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्त्युधि रुषा निजाधरम् ॥ ८५ ॥ बलमार्तमयोपशान्तये विदुषा समतये बहुश्रुतम् । वसु तस्य न केवल विभोर्गुणवत्तापि परप्रयोजनम् ॥ ८६ ॥ तावकाः कति न सन्ति मादृशा मादृशस्तु भवदेकजीविनः । अम्बुदस्य कति वा न चातकाश्चातकस्य पुनरेक एव सः ॥ ८७ ॥ निखिलेषु गुणेषु चित्रता ते मनसो वैषवमद्भुत तवैव । न च ते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें