Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 87 of 516

Read in context
Page 87
Page 87 scan

७२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


न च परलोकसमीहा स भवति धनपालको मूर्खः ॥ ३१ ॥
उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ३२ ॥ यदि भवति धनेन धनी $^३$क्षितितलनिहितेन भोगरहितेन । तस्माद्वयमपि धनिनस्तिष्ठति नः काञ्चनो मेरुः ॥ ३३ ॥ $^५$नन्दनरेन्द्रद्रविणैर्दुष्कृतमिव किमपि विहितमतिघोरम् । वसुधातलोपमणको विरमति नाद्यापि यत्तेभ्यः ॥ ३४ ॥ $^६$दृढतरनिबद्धमुष्टेः कोश$^७$निष्षण्णस्य $^८$सहजमलिनस्य । कृपणस्य कृपाणस्य च केवल$^९$माकारतो भेदः ॥ ३५ ॥ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः । जलसंपदोऽ$^१^०$म्बुराशेर्यान्ति वशं सर्वदैव $^१^१$वडवाग्नेः ॥ ३६ ॥ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः । $^१^२$मुखपाकः किल भवति द्राक्षापाके $^१^३$बलिभुजा हि ॥ ३७ ॥ अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थीनाम् । योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ३८ ॥ केऽपि स्वभावलुब्धास्तीव्रतरा यातना मपि सहन्ते । न तु

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in