सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 86 of 516
Read in contextउदारप्रशंसा-कृपणनिन्दा
७१
यदमुना न तावत्क्षितिः । अहर्निशमिहैव ये परमनोऽनुवृत्त्या पुनर्वहन्ति विजिगीषुता किमिव तेऽनुकम्पास्पदम् ॥ ३९ ॥ भुज्यन्ते स्वगृहस्थिता इव सुख यस्यार्थिभिः संपदः पद्मौ यस्य मतिस्तमःप्रहतये द्यावेव तौ प्राणितः । यस्त्वात्मभरिरुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवाकृतिभृतः सत्ताप्यसत्ता ननु ॥ ४० ॥ आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्थे गुणाः केचन । इत्यस्मिन्नुपकारकारिणि सदा वर्गे पर दुस्त्यजे दैन्यव्रीडकलब्धमज्जतु कथं चेतो महाचेतसाम् ॥ ४१ ॥ नित्य या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते पश्यन्ति स्पृहयालवो न रिपवो या विक्रमासादिताम् । यस्याः साधुपरिक्षयेण सुहृदा नाशेन वा संभवो नो सपद्विपदेव सा गुणवता प्रीतिस्तया कीदृशी ॥ ४२ ॥ न्याय्य मार्गममुञ्झतः सुकृतिनो दैवाद्भवन्त्यापदो यास्ताः सन्तु बलेरिवादिपुरुषाद्योऽर्थी स्वय यच्छतः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in