Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 226 of 516

Read in context
Page 226
Page 226 scan

चन्द्रान्योक्तयः, मेघान्योक्तयः | २११


प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ३७ ॥ जन्म क्षीरमहार्णवे
सहभुवः श्रीपारिजातादयो बिम्बं यस्य सुधामयं त्रिभु-
वनाधीशस्य मूर्ध्नि स्थितिः । इत्थं सर्वचराचरप्रियकरे यस्यो-
दये चेद्भवेत्सङ्कोचः कमलस्य दुष्कृतिरसौ निन्द्यो न
ताराधिपः ॥ ३८ ॥ इन्दुं निन्दतु नाम वाथ नलिनी
निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा
दुर्यशः । एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते
यच्च्योत्स्नासु चिरं चकोरपरिषच्चञ्चुपुटं न्यस्यति ॥ ३९ ॥
लक्ष्मीकेलिगृहे कुरेशयदशा पाणियुतिद्रोहिणि श्यामासूक्ति-
सुधासहोदरमधुप्रस्यन्दसंदोहिनी । जीयातुस्त्रिदिवौकसां
त्रिजगतामाप्यायनं चन्द्रमस्त्वं चेदम्बुरुहे न रज्यसि गुण-
श्लाघा बतास्तं गता ॥ ४० ॥ यातेयं रजनी सहैव
भवता भावी प्रकाशो दिशां सूर्येणापि चिरं चकोरनिचयैः
स्थेयं क्वचित्कानने । उद्यद्दारुणचण्डभानुजदवज्वाले जग-
न्मण्डले कस्मै

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in